१९२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ प्रतिगृह्य तु ते तस्यास्तथाऽऽतिथ्यं वनेचराः ॥ क्षुधार्ता भक्षयामासुः प्रशंसन्तस्तपोधनाम् ॥ २३ ॥ ते भक्षयित्वा तत्सर्वं पीत्वा सुरभि वारि च ॥ सर्वे दहशुरालोकान्सर्वतो वानरा गुहाम् ॥ २४ ॥ प्रसन्नवदनाश्वास सर्वे संहृष्टमानसाः || संजातं बलवीर्ये च तत्र तेषां वनौकसाम् ॥ तर्पिता विविधैर्मूलैः फलैः शीतेन वारिणा ॥ २५ ॥ ] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ द्विपञ्चाशः सर्गः ॥ ५२ ॥ हमुमता स्वयंप्रभांप्रति रामवनप्रवेशप्रभृतिस्वस्वात्मीयगुहा प्रवेशावधि निखिलवृत्तान्त निवेदन पूर्वकं तत्कृतोपकारप्रशं- सनं ॥ १ ॥ अथ तानत्रवीत्सर्वान्विक्रान्ता हरिपुवान् || इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ १ ॥ बानरा यदि वः खेदः प्रनष्टः फलभक्षणात् || यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कैथ्यताम् ||२|| तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः || आर्जवेन यथातत्त्वमाख्यतुमुपचक्रमे ॥ ३॥ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः || रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् ॥ लक्ष्मणेन सह भ्रात्रा वैदेद्या चापि भार्यया ॥ ४ ॥ तस्य भार्या जनस्थानाद्रावणेन हता बलात् ॥ ५ ॥ वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ॥ राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ ६ ॥ अगेस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ॥ सहभिर्वानरैरैरङ्गप्रमुखैर्वयम् ॥ ७ ॥ रावणं सहिताः सर्वे राक्षसं कामरूपिणम् ॥ सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ ८ ॥ विचित्य तु वॅयं सर्वे समग्रां दक्षिणां दिशम् || बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ॥ ९ ॥ विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः || नाधिगच्छामहे पारं मनाश्चिन्तामहार्णवे ॥ १० ॥ चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् || लतापादपसँछन्न तिमिरेण समावृतम् ॥ ११ ॥ असाद्धंसा जैलक्लिन्नाः पक्षैः सलिलविस्रवैः ॥ कुरराः सारसाचैव निष्पतन्ति पतत्रिणः ॥ साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ॥ १२ ॥ ।। १८ – २५ ।। इति श्रीगोविन्दराजविरचिते अथ हनुमता स्वागमन हेतुरुच्यते द्विपञ्चाशे- श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- अथेत्यादि ॥१-२॥ आर्जवेन अकपटेन ॥३–५॥ ण्डव्याख्याने एकपश्चाशः सर्गः ॥ ५१ ॥ दक्षिणामाशां येन प्रस्थापिताः स राजास्तीति पूर्वेणा- स० महेन्द्रवरुणोपमः महेन्द्रवरुणाभ्यांउपमा साम्यं शौर्यगांभीर्यादौ यस्यसतथा ॥ ४ ॥ शि० अङ्गदप्रमुखैः सहितावयं वयं वः रामसख्यरक्षणस्य अयः प्राप्तिर्यस्मिंस्तद्यथाभवतितथा दक्षिणांदिशंप्रस्थापिताः ॥ ६-७ ॥ ति० नाधिगच्छाम । हेइति स्वयंप्रभासंबोधनं । पारं चिन्तामहार्णवस्येतिशेषः ॥ १० ॥ ति० सलिलरेणुभिः सलिलपद्मरेणुयुक्तपक्षैरुपलक्षिताइत्यर्थः । निष्पतन्ति निष्पतिताः ॥ १२ ॥ [ पा० ] १ क. -ट. न्विश्रान्तान्हरिथूथपान्. २ ग. यदिचैवंमया ३ छ. श. तांकथां. ४ ख. सीतयाचापि क. ङ. - ट. वैदेह्यासह. ग. घ. वैदेयाचैव. ५ घ. अगस्त्याचरितां. ६ क. -ट र्वानरैर्मुख्यैरङ्गद. ७ झ. ८. बनसर्वसमुद्रं. छ. वन॑सर्वेसमुद्रं. ङ. ज. ञ. वन॑सर्वेसमग्रां. च. वन॑सर्वेसमग्रं. ८ ग. छ. झ. ट. वयंबुभुक्षिताः सर्वेवृक्ष. ९ ख. सवाध्यान. १० ङ. -ट. महद्विलं. ११ ड. - ट. संपन्नं. १२ क. ख. ग. तस्मात् १३ घ. जलैः क्लिन्नाः . ख. ग. ङ. च. ज. ज. जलक्लिन्नानिर्या- तिविवृताद्विलात्. १४ क. छ. झ ट सलिलरेणुभिः १५ ग. चोक्ताः.
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९४
दिखावट