पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्गः ५१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९१ • आत्मानमनुभावं च कस्य चैतत्तपोबलम् || अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ॥ ८ ॥ एवमुक्ता हनुमंता तापसी धर्मचारिणी ॥ प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ॥ ९ ॥ मयो नाम महातेजा मायावी दानवर्षभः ॥ तेनेदं निर्मितं सर्व मायया काञ्चनं वनम् ॥ १० ॥ पुरा दानवमुख्यानां विश्वकर्मा बभूव ह || येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ॥ ११ ॥ स तु वर्षसहस्राणि तपस्तत्वा महावने ॥ पितामहादूरं लेभे सर्वमौशनसं धनम् ॥ १२ ॥ वैनं विधाय बलवान्सर्वकामेश्वरस्तदा || उवास सुखितः कालं कंचिदस्मिन्महावने ॥ १३ ॥ तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् || विक्रम्यैवाशनिं गृह्य- जँघानेशः पुरन्दरः ॥ १४ ॥ इदं च ब्रह्मणा दत्तं हेमायै नमुत्तमम् || शाश्वताः कामभोगाथ गृहं चेदं हिरण्मयम् ॥ १५ ॥ दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा || इदं रक्षामि भवनं हेमाया वानरोत्तम ॥ १६ ॥ मम प्रियसखी हेमा नृत्तगीतविशारदा || तथा दत्तवरा चासि रक्षामि भवनोत्तमम् ॥ १७ ॥ किं कार्य कस्य वा हेतोः कान्ताराणि प्रपश्यथ || कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ॥ १८ ॥ इँमान्यभ्यवहार्याणि मूलानि च फलानि च ॥ भुक्त्वा पीत्वा च पानीयं सर्वे मे वक्तुमर्हथ ॥ १९ ॥ [ एवं मुक्ते शुभे वाक्ये तापस्या धर्मसंहिते || हनुमान्हरिशार्दूलः प्रत्युवाच स्वयंप्रभाम् ॥ २० ॥ अर्थिनः म तदर्थे च चर धर्ममनुत्तमम् || मृगमाणानिराहारान्संजीवय तपोधने ॥ २१ ॥ तच्छ्रुत्वा वचनं तस्य तापसी धर्मचारिणी ॥ आदाय फलमूलानि विधिनोपजहार सा ॥ २२ ॥ उक्तः ॥ ५–७ ॥ आत्मानं त्वां । अनुभावं प्रभावं | | ॥१० - १३॥ तं स्वपुत्रीं मन्दोदरीं रावणाय दत्तवन्तं । कस्य चैतत्तपोबलं तच्चेत्यर्थः ॥ ८-९ ॥ मयो नाम एकान्ते हेमायां सक्तं विदित्वा ईश: त्रैलोक्याधिपतिः । त्रिपुराधिपतिः त्रिपुरे नष्टे स्वरक्षणार्थमिदं बिलं अशनिं वज्रं गृहीत्वा जघान ॥ १४ ॥ मयनाशानन्तरं कृतवानिति मात्स्यपुराणे त्रिपुरदहनप्रस्तावेभिहितं । इदं वनं ब्रह्मणा हेमायै दत्तं ।। १५-१६ ।। ममेति ।। मायया विचित्रशक्त्या | मायावी मायायुक्तः । दान- सेदानीं ब्रह्मसदनं गतेत्याशयेनाह - नृत्तेति ॥ १७ ॥ वर्षभ इत्यनेन नायमसुरतक्षा मय इति सूचितं किं कार्य किं प्रयोजनं | कस्य हेतोः कस्मात्प्रयोजनात् ति० कोमयइत्याशङ्कयतत्प्रसिद्धिमाह - पुरेति । विश्वकर्मा शिल्पी | ह प्रसिद्धं ॥ ११ ॥ ती० औशनसंधनं विचित्रनिर्मा- णप्रतिपादकशिल्पशास्त्रज्ञानं । शिल्पस्योशनसाप्रणीतत्वात्तद्धनवव्यपदेशः ॥ ति० वरं विचित्रसृष्टिसामर्थ्यरूपं ॥ स० महत् वने इतिच्छेदः । महावनइतिपाठे वनविशेषणं । महतोवनमितिवा । अथवा आदित्यादितएव निर्देशाद नित्यताऽऽत्त्वस्यज्ञापितेति । “ तस्यैवमहत्सुखत्वात्तेषां ” इत्यादिवदात्त्वाभावे ऐकपद्यंज्ञेयं ॥ १२ ॥ शि० तदा वरलाभसमये । सर्वकामेश्वरः सर्वविषयनि- र्माणस्वतन्त्रः ॥ १३ ॥ ति० दानवपुङ्गवं अशनिंगृह्य गृहीत्वा । विक्रम्यैव युद्धंकृत्वैव । पुरन्दरोजघान । यद्यप्यसुरशिल्पीम- योनित्य इति कथंहननंतस्य । तथापि यएवासुरशिल्पीपदस्थःसर्वोपिमयांख्यइतिप्रवाह नित्यतैवतस्येन्द्रवदितिनदोषः ॥ १४ ॥ ती० विचित्र निर्माण सामर्थ्यगुणयोगादत्रब्रह्मशब्दोदानवविश्वकर्ममयवाची ॥ ति० तस्मिंचहतेइदवनं शाश्वतःकामभोगः इदंगृहंच मयभुक्तायैहेमायैन्यायप्राप्तत्वाद्भगवता ब्रह्मणादत्तमित्यर्थः । एतेनात्रब्रह्मशब्दोमयदानवपरइत्यपास्तं । हतेनदानासंभवात् ॥ १५॥ शि० मेरुसावर्णेर्दुहिताऽहं । तस्याः हेमायाः । स्वयंप्रभा तदभिधंइदंभवनं । रक्षामि वाक्यार्थस्यकर्मतयान्वयान्न द्वितीया | स्वयं- प्रभाशब्दस्यमेरुसावर्णिदुहितुर्नामवेतु भवनमिति द्वितीयान्तमेव ॥ १६ ॥ ति० अभ्यवहाराणि अभ्यवहार्याणि ॥ १९ ॥ इत्येक- पञ्चाशःसर्गः ॥ ५१ ॥ [ पा० १ ग. ट. आत्मनस्त्वनुभावाद्वाकस्यवैतत् २ घ. रतं. ३ छ. झ. ट. वानरर्षभ. ४ . उ. महद्वने. ५ ग, ङ. च. छ. झ ञ. ट. विधायसर्वेबलवान्. ६ क. – च. ज. अ. दानवसत्तमं• ७ ङ. च. ज. च. ट. जघानसपुरन्दरः ८ ङ. च. ज. ज. भवनोत्तमं. ९ क. ग. नानास्वयंप्रभा १० घ. गीतनृत्त. ११ ङ. -ट. भवनंमहत्. १२ क. —घ. च. न. – ट. प्रपद्यत १३ घ. रमिलक्षितं. १४ छ ज झ ट . शुचीन्यभ्यवहाराणि. क. ख. ग. ङ. च. न. इमान्यभ्यवहाराणि. १५ ग. च. ज. ज. पीलातु. १६ क. ख. ग. सव्यं १७ झ मर्हसि १८ इमेषद्लोकाः क. ग. पाठ्योरधिकादृश्यन्ते. V