श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ शचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥ महार्हाणि च पानानि मधूनि रसवन्ति च ॥ ३५॥ दिव्यानामम्बराणां च महार्हाणां च संचयान् || कम्बलानां च चित्राणामजिनानां च संचयान् ॥ ३६॥ तत्र तत्र च विन्यस्तान्दीप्तान्वैश्वानरप्रभान् || दशुर्वानराः शुभाञ्जातरूपस्य संचयान् ॥ ३७ ॥ तेत्र तत्र विचिन्वन्तो बिले तँस्सिन्महाबलाः || दहशुर्वानराः शूराः स्त्रियं कांचिददूरतः ॥ ३८ ॥ ती दृष्ट्वा भृशसंत्रस्ताचीरकृष्णाजिनाम्बराम् ॥ तापसीं नियताहारां ज्वलन्तीमिव तेजसा ॥ ३९ ॥ विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः ॥ पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम् ॥ ४० ॥ ततो हनुमान्गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् || पप्रच्छ का त्वं भवनं बिलं च रत्नानि हेमानि वदव कस्य ॥ ४१ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ १९० एकपञ्चाशः सर्गः ॥ ५१ ॥ स्वयंप्रभानाम्यातापस्या हनुमन्तंप्रति तद्विलंनिर्माणादिवृत्तान्त कथनेनसह फलादिभक्षणा दिनाश्रमापनोदनचोदनपूर्वक वानराणांवनागमनादिकारणमश्रः ॥ १ ॥ इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् || अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ १ ॥ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् || क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ।। महद्धरण्या विवरं प्रविष्टाः स पिपासिताः ॥ २ ॥ इमांस्त्वेवंविधान्भावान्विविधानद्भुतोमान् ॥ दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नँष्टचेतसः ॥ ३ ॥ कैंस्यैते काञ्चना वृक्षास्तरुणादित्य सन्निभाः ॥ शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥ ४ ॥ काञ्चनानि विमानानि राजतानि गृहाणि च ॥ तपनीयगवाक्षाणि मणिजालावृतानि च ॥ ५ ॥ पुष्पिताः फलवन्तश्च पुण्या: सुरभिगन्धिनः || इमे जांबूनदमयाः पादपाः कस्य तेजसा ॥ ६ ॥ काञ्चनानि च पद्मानि जातानि विमँले जले ॥ कथं मत्स्याच 'सौवर्णाश्चरन्ति सह कच्छपैः ॥ ७ ॥ शेष: । गृहमुख्यविशेषणं वा ॥ ३० - ३६ ॥ शुभ्रान् अथ स्वयंप्रभया ऋक्षबिलवृत्तान्तोक्तिरेकपञ्चाशे निर्मलान् ॥ ३७–३८ ॥ व्यवातिष्ठन्त दूरे स्थिता - इत्युक्त्वेत्यादि ॥ १ ॥ परिखिन्नाः अध्वश्रमखिन्नाः। इत्यर्थः ॥ ३९–४० ॥ पप्रच्छेत्यर्धस्य विवरणं- क्षुत्पिपासापरिश्रान्तत्वेपि पिपासैव प्रवेशहेतुरित्याश- ततोहनुमानिति ॥ अस्मिन्सर्गे साधैँकचत्वारिंशच्छु- येनोक्तं - पिपासिता इति ॥ २ ॥ भावान् पदार्थान् । काः ॥ ४१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- प्रव्यथिताः किमिदमसुरादिमायेति संजातव्यथाः । मायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्या नष्टचेतसः कर्तव्यबुद्धिरहिताः ॥ ३-४ ॥ मणिजा- ख्याने पञ्चाशः सर्गः ॥ ५० ॥ लावृतानि रत्नमयजालकानि । जालकगवाक्षयोर्भेद ति० यानानि शिबिकादीनि ॥३५॥ स० वदस्व वद " भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषुवदः " इत्युक्तेरात्मनेपदता । प्रकाशमानासतीवदेत्यर्थः ॥ ४१ ॥ इतिपञ्चाशः सर्गः ॥ ५० ॥ [ पा० ] १ झ ञ. ट. न्यभ्यवहाराणि २ च. माल्यानि, ङ. ज. झ. ट. यानानि. ३ ख.न्वैश्वानरोपमान्. ४ ख. वनरास्तत्रजातरूपस्य ५ ङ. च. ज. ञ. तेपितत्र. ६ क वने. ७ छ. झ ट तत्रमहाप्रभाः ङ. च. ज. ञ. तत्रमहाप्रभां. ८ छ. झ. तांचतेददृशुस्तत्रचीर ख. तांदृष्ट्रयस्तत्रचीर. क. ग. वानरास्तत्रचीर. ९ ख. ज. ञ. ट. व्यवतिष्ठन्त. १० ग. कस्यचवा ११ क. घ. – ट. चेमानि. ख. चैतानि १२ छ. झ. ट. चीरकृष्णाजिनांबरां. १३ नष्टचेतनाः १४ क. ख. ग. ङ. च. ज. ज. कस्येमे. १५ ग. ङ. च. ज. - ट. न्यभ्यवहाराणि १६ ङ. ट. सुरभिगन्धयः १७ क, ख. घ. विमलोदके, १८ छ. झ. ट. सौवर्णादृश्यन्ते. क. ग. घ. सौवर्णैश्चरन्ति. ङ. च. ज. ज. सौवर्णैः सहतिष्ठन्ति.
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९२
दिखावट