पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J सर्गः ५०] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८७ हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ॥ उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥ १० ॥ अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः || उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥ ११ ॥ सदृशं खलु वो वाक्यमङ्गदो यदुवाच हं ॥ हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ १२ ॥ पुनर्मार्गाम है शैलान्कन्दरांच देरींस्तथा ॥ काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ १३ ॥ यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना || विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सँर्वशः ॥ १४ ॥ ततः समुत्थाय पुनर्वानरास्ते महाबलाः ॥ विन्ध्यकाननसंकीर्णो विचेरुदक्षिणां दिशम् ॥ १५ ॥ ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् || शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः ॥ १६ ॥ तत्र कोद्रेवनं रम्यं सप्तपर्णवनानि च ॥ व्यचिन्वंस्ते हरिवरा : सीतादर्शनकाङ्क्षिणः ॥ १७ ॥ तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः || न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥१८॥ ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् || अवारोहन्त हरयो वीक्षमाणाः समन्ततः ॥ १९ ॥ अवरुह्य ततो भूमिं श्रींन्ता विगतचेतसः || स्थित्वा मुहूर्ते तत्राथ वृक्षमूलमुपाश्रिताः ॥ २० ॥ ते मुहूर्त सँमाश्वस्ता: किंचिद्भग्नपरिश्रमाः || पुनरेवोद्यताः कृत्स्त्रां मार्गितुं दक्षिणां दिशम् ॥ २१ ॥ हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः || विन्ध्यमेवोदितस्तावद्विचेरुस्ते ततस्ततः ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ १७/ पञ्चाशः सर्गः ॥ ५० ॥

विन्ध्यगुहादीनांदुरन्वेषतया तत्रान्वेषणेसत्येव सुग्रीवसंकेतितसमयातिपाते क्षुत्पिपासार्दितैर्हनुमदादिभिः ऋक्षबिला-

ख्यस्य कस्यचिन्महाबिलस्यावलोकनम् ॥ १ ॥ बिलद्वारे आर्द्रपक्षनानापक्षिदर्शनाज्जलानुमानेन तद्विलस्यगाढान्धकारावृत- त्वेनदुष्प्रवेशतयाऽन्योन्यहस्तावलंबनेन तत्प्रवेशः ॥ २ ॥ तथा योजनपरिमित देशातिक्रमे काञ्चनमषवृक्षादिभासाविद्योत- मानेऽद्भुतदेशे कस्याश्चिन्महातपस्विन्या अवलोकनम् ॥ ३ ॥ हनुमता साभिवादनं तांप्रति तादृशदेशिस्य तस्याश्चयाथातथ्य- विवित्सयाप्रश्नः ॥ ४ ॥ सह ताराङ्गदाभ्यां तु संगम्य हनुमान्कपिः ॥ विचिनोति स्म विन्ध्यस्य गुहाथ गहनानि च ॥ १ ॥ सिंहशार्दूलैजुष्टेषु शिलाश्च सरितस्तथा ॥ विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ॥ २ ॥ आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् ॥ तेषां तत्रैव वसतां स कौलो व्यत्यवर्तत ॥ ३ ॥ (6 अथ ऋक्षबिले स्वयंप्रभादर्शनं पञ्चाशे – सहेत्यादि ॥ १ ॥ नगेन्द्रस्य शार्दूलजुष्टेषु | विषमेषु विषमप्रदे- शेषु | शिलाः | महाप्रस्रवणेषु सरितश्च विचिनोति स्मेति पूर्वेणान्वयः ॥ २ ॥ कल: सुप्रीवोक्तमासः | मास: पूर्णो बिलस्थानां " इत्युत्तरत्राङ्गदवचनस्य स० कोटिं अग्रभागं । “ कोटिः स्यादप्रमात्रेपि " इतिकेशवः ॥ शि० दक्षिण पश्चिमां नैर्ऋत्यकोणस्थां । कोटिं शृङ्गं आसेदुः [ पा० ] १ ग. यथार्थ. २ ग. च. - ट. उच्यताहिक्षमंयत्तत्. ३ ख. ग. घ. छ. ज. झ. उवाचव्यक्तया ४ ख. चैवानुरूपं ५ छ. झ. ट. शिलास्तथा ६ ट वने. ७ छ. ज. अ. ट. संगताः ८ घ. संपूर्ण ९ क. – ट. लोध्रुवनं. १० ङ. छ. ट. बिचिन्वन्तो. क. ख.ग. विचिन्वन्तिस्महरयः ११ ङ. – ज. ज. ट. दृष्ट्वा. ग. गला. १२ छ. झ ट अध्यारोहन्त. १३ ख.घ. वीक्षमाणास्ततस्ततः, १४ ङ - ञ. भ्रान्ताः १५ ङ. – ज.ब.ट. स्थितामुहूर्ते. १६ क. समायस्ताः १७ क. किंचिद्भतपरिश्रमाः १८ छ. झ ञ ट प्रमुखास्तावत् ख. त्प्रमुखास्तत्र. १९ ग. ङ. ―ट. मेवादितः कृत्वा. २०ङ-ट. द्विचेरुश्चसमन्ततः २१ ङ. - ट. जुष्टाच. २२ ङ. छ. - ट. गुहाश्वपरितस्तथा च. गुहाञ्चसरितस्तदा २३ ग. –च. ज. कालोप्यत्यवर्तत. तूष्णींभाव इत्यर्थः ॥ ८–१२ || कन्दरान् भेदान् || १३ || विचिन्वन्तु वनं सर्व इति । भवन्त इति शेषः ।। १४–२२ ।। इति श्री गोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- ण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ ४९ ॥