पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८५ न सन्ति महिषा यत्र न मृगा न च हस्तिनः ॥ शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ॥ न यत्र वृक्षा नौषध्यो न लेता नापि वीरुधः ॥ ९ ॥ स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुलपङ्कजाः ॥ प्रेक्षणीयाः सुगन्धाश्र भ्रमरैथापि वर्जिताः ॥१०॥ कण्डुर्नाममहाभागः सत्यवादी तपोधनः ॥ महर्षिः परमामर्षी नियमैर्दुष्प्रर्षणः ॥ ११ ॥ तस्य तस्मिन्वने पुत्रो बालः षोडशवार्षिक: ॥ प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ॥ १२ ॥ तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् || अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ॥ १३ ॥ तस्य ते काननान्तांश्च गिरीणां कन्दराणि च ॥ प्रभवानि नदीनां च विचिन्वन्ति समाहिताः ॥१४॥ तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् ॥ हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ १५ ॥ ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम् ॥ दृशुः क्रूरकर्माणमंसुरं सुरनिर्भयम् ॥ १६ ॥ तं दृष्ट्वा वानरा 'घोरं स्थितं शैलमिवारम् || गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् ॥ १७ ॥ सोपि तन्वानरान्सर्वा नष्टाः स्थेत्यब्रवीद्धली ॥ अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य ' संहितम् ॥ १८ ॥ तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा || रावणोयमिति ज्ञात्वा तलेनाभिजाघन ह ॥ १९ ॥ स वालिपुत्राभिहतो वाच्छोणितमुद्रमन् || असुरोऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः ॥ २० ॥ "तेपि तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः ॥ व्यचिन्वन्प्रायशस्तत्र सर्वं तद्भिरिगह्वरम् ॥ २१ ॥ १७ फलैर्वन्ध्याः । निष्फला इत्यर्थः ॥ ८-९ ॥ स्निग्ध- | | १२ || अशरण्यं अनाश्रयं । अभवदिति शेषः पत्रा इत्यादि । अत्रापि न सन्तीत्यनुषज्यत इति ॥ १३ ॥ नदीनां प्रभवानि गिरिगणमध्यप्रदेशाः केचित् । तन्न | भ्रमरैश्चापि वर्जिता इत्यस्यानन्वयात् । ॥ १४-१५ ।। सुरनिर्भयं सुरेभ्यो निर्भयं ॥ १६ ॥ किंतु भ्रमरैरप्यनुपभुक्तं स्थलपद्मिनीमात्रमित्यर्थः । गाढं परिहिताः दृढं परिहितवसनाः । अभवन सर्वेपि महातटाका: स्थलपद्मिनीवंगता इतिभावः । अन्यं देशं विविशुरिति पूर्वेणान्वयः ॥ १० ॥ देशस्य ॥ १७ ॥ संहितं दृढमित्यर्थः ।। १८–१९ ।। पर्यस्तः तादृशत्वे निमित्तमृषिरित्याह – कण्डुरित्यादिना ॥११॥ पातितः ॥ २० ॥ तस्मिन् असुरे | निरुच्छ्रासे मृत तत्र वने विषये । जीवितान्ताय तस्य नाशाय कुपितः इत्यर्थः । तस्मिन्नसुरे रावणभ्रान्त्या तत्समीपवने अथवा वन्ध्यानांफलमिवफलंयेषांते । अनुत्पन्नफलाइतियावत् ॥८॥ स० वनगोचराः वनविषयाः । यद्वा वनगौ: वनभूमिः तत्रचर- न्तीतितथा । स० वलयः वृक्षालिङ्गिताः । वीरुधः स्थललताः ॥९॥ स० शापानन्तरमित्यत्र शापात्पूर्वमित्युत्तरत्र स्निग्धपत्राइत्यादौ चशेषोज्ञेयः। नेत्यनुकर्षकृत्वाव्याख्यानं पद्मिनीमहत्त्वकथनाननुगुणमित्यनादरणीयं । भ्रमरैश्च विवर्जिताः वर्जितविरुद्धाः विवर्जिताः अ- त्यक्ताइत्यर्थः । अथवागतैः एकप्रसूनरसपानतुन्दिलैरिन्दिन्दिरैर्विवर्जिताः सुगन्धाः सुगन्धयः सुगन्धाः सुगन्धद्रव्याणि । पृथग्विशेष्यं । अतो “गन्धस्येत् —" इतीलंकथंने तिशङ्कानवकाशः ॥ १० ॥ ति० यत्रस्थले नेत्यनुकर्षः । भ्रमरैश्च विवर्जिताः विगतंवर्जितंया- सुताः संयुक्ताइत्यर्थः । तादृशाः फुल्लपङ्कजाश्चयत्रनसन्ति । यत्रवनेकण्डुर्नाममहर्षिरासीत् ॥ ११ ॥ शि० जीवितान्ताय वनप्रध्वं- साय ॥ १२ ॥ ती० नदीशब्देन निस्तोय नदी प्रदेशाउच्यन्ते । " निस्तोयाः सरितोयत्र " इतिपूर्वमभिधानात् ॥ विषम० प्रभूतानि उत्पत्तिस्थानानि ॥ १४ ॥ स० सुरनिर्भयं निर्गताभीर्यस्यसतथा | सुरेभ्योनिर्भयः सुरनिर्भयस्तं । सुनिर्भयमितिपाठः स्फुटार्थः । नकेवलंकर्मणासुरप्रायत्वादसुरोऽयं । अपितुपितुरपितजातित्वमित्याह - आसुरमिति | असुरस्यायमासुरः “तस्येदं” [ पा० ] १ क. –ट. वयो. २ क. ख. ग. ङ. - ट. भ्रमरैश्वविवर्जिताः ३ क. –ट, बालकोदशवार्षिक: ४ छ. झ ट. क्रुद्धस्तेन. ५ ग. महावनं ६ ग. कृत्स्रंपक्षि ७ ज. काननेतांतु. ख. काननंतत्तु छ. झ ञ ट काननान्तांस्तु ८ च, ज. ञ. प्रभूतानि. ९ ङ. च. ज. ञ. ट. चापि १० ख. ङ. - ट प्रविश्यतु. ११ ङ. - ट. दहशुभमकर्माणं. १२ ठ. मासुरं, १३ क. ख. सुरमर्दनं. १४ क. घोराः १५ ङ.ट. मिषासुरं. १६ क ख मारीचतनयोनष्टाः ग. तान्वानरान्दृष्ट्वाति- ष्ठ तेत्यब्रवीत्. १७ ख. संस्थितान्. क. दक्षिणं. छ. झ. ट. संगतं. १८ क. ग. झ. र. असुरोन्यपतत्. १९ क. ख. ग. ङ. — द. तेतु. २० ख० व्यचिन्वन्बहुशः. ग. विचित्यप्रायशः २१ ज. - ट तेगिरिगह्वरं. वा. रा. १४३