पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४७ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १८३ सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः || प्रदेशान्प्रविचिन्वन्ति सशैलव नकाननान् ॥ ३ ॥ विचित्य दिवस सर्वे सीताधिगमने धृताः ॥ समायान्ति स्म मेदिन्यां निशाकालेषु वानराः ॥ ४ ॥ सर्वर्तुकामान्देशेषु वानराः सैफलान्दुमान् | आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहस्सु ते ॥ ५ ॥ तदहः प्रथमं कृत्वा मासे भैँस्रवणं गताः ॥ कपिराजेन संगम्य निराशाः कॅपियूथपाः ॥ ६ ॥ 'विचित्य तु दिशं पूर्वी यथोक्तां सचिवैः सह ॥ अदृष्ट्वा विनतः सीतामाजगाम मेहाबलः ॥ ७ ॥ उत्तरां च दिशं सर्वा विचित्य स महाकपिः ॥ आगतः सह सैन्येन वीरः शतबलिस्तदा ॥ ८ ॥ सुषेणः पश्चिमामाशां विचित्य सह वानरैः ॥ समेत्य मासे संपूर्ण सुग्रीवमुपचक्रमे ॥ ९ ॥ तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ॥ आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥ १० ॥ विचिताः पर्वताः सर्वे वनानि गैहनानि च ॥ निम्नगाः सागरान्ताच सर्वे जनपदाच ये ॥ ११ ॥ गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः ॥ विचिताश्च महागुल्मा लताविततसंतताः ॥ १२ ॥ गहनेषु च देशेषु दुर्गेषु विषमेषु च || सत्वान्यतिप्रमाणानि विचितानि हतानि च ॥ १३ ॥ [" ये चैव गहना देशा विचितास्ते पुनःपुनः ॥ ] उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रक्ष्यति वानरेन्द्रः ॥ नदीदुर्गान् नदीमिर्दुर्गमान् ॥ २ – ३ || धृताः | दर्शयति — विचित्येत्यादिना । सचिवैः सहायभूतैः तत्पराः ॥४॥ विचित्येतिश्लोकोक्तं विवृणोति — सर्वे- ति || सर्वर्तुकामान् काम्यन्त इति कामाः पुष्पफला- दयः । सर्वर्तुसंभवफलपुष्पादियुक्तानित्यर्थः । सफलान् वानरैरुपभुज्यमानत्वेन सफलान् । दुमानासाद्य | सर्वेवर एकमासान्तर्गतसर्वदिनेषु । रजनीं रज- न्यामेव । शय्यां चक्रुः । अनेनाहारविश्रमादिकमहस्सु नास्तीत्यवगम्यते ॥ ५ ॥ तदहः प्रस्थानदिनं । प्रथमं कृत्वा तदारभ्य मासे पूर्णे सति । निराशाः सीतान्वे- षणे निरुत्साहाः सन्तः । कपिराजेन संगम्य तस्मै स्वागमनं निवेद्येत्यर्थः । प्रस्रवणं माल्यवन्तं । गताः ॥ ६ ॥ एवं सामान्येन वानरागमनमुक्त्वा प्रत्येकं च ॥७-८॥ उपचक्रमे उपागतः ॥ ९ ॥ प्रस्त्रवणपृष्ठस्थं प्रस्रवणाप्रस्थं । रामेण सहासीनं । रामेण सहितमित्यर्थः ॥ १० ॥ वनानि क्षुद्रवनानि । गहनानि महावनानि । सागरान्ताः समुद्रतीराणि ॥ ११ ॥ लताविततसंतताः लताभिर्वितता: व्याप्ताः संतताः निरन्तरा इति महा- गुल्मविशेषणं ॥१२॥ गहनेषु दुष्प्रवेशेषु | नाना द्वीपे- वित्यर्थः । दुर्गेषु दुःखेनगन्तव्येषु । निम्न्नोन्नतेष्वि- त्यर्थः । अतिप्रमाणानि अतिमात्रशरीराणि । विचि- तानि । किमयं रावणः उत नेतीति भावः ॥ १३ ॥ उदारसत्त्व : श्रेष्ठसत्त्वोऽभिजनो वंशो यस्य स उदार- सत्त्वाभिजनः । महाबलवतः पुत्र इति सीतादर्शने शि० सर्वेवानराः दिवसं विचित्य पृथक्पृथग्गत्वाअन्वीक्ष्य | निशाकालेषुमेदिन्यां सर्वसंमतिविषयीभूतभूमौ । समायान्ति सङ्घीभूयप्राप्नुवन्ति ॥ ४ ॥ ती० तेवानराः सर्वेष्वहस्सु दिवसेषु । सीतांविचित्य सर्वर्तुकान् सार्वकालिकपुष्पफलयुक्तान् । सफलान् तत्तत्कालीनफलयुक्तांश्चद्रुमानासाद्य फलादिभक्षणार्थी || ति० सर्वर्तुकान् नित्यसंनिहितसर्वर्तुयुक्तान् । तादृशवृक्षवत्त्वंच देशस्यरामप्रसादात् ॥ ५ ॥ स० महाबलइत्यनेन विनतगत दिशिनसीतास्तीतिसूचयति ॥ ७ ॥ शि० विविच्य विचित्यं ॥ ८ ॥ ति० सागरान्ताः सागरमध्यवर्तिद्वीपाः ॥ ११ ॥ ति० लताविततैः लताप्रतानैः । संतताः समन्ताध्याप्ताः । तादृशामहागुल्माः लतागृहविशेषाः ॥ १२ ॥ शि० सवानि अन्वेषणप्रतिबन्धकीभूतप्राणिजातानि । हतानिविचितानिच ॥ १३ ॥ स० यांदिशं [पा० ] १ क. ख. घ. समाख्यातान्. २ क. ख. घ. वानरपुङ्गवाः ३ क. च. छ. ज. ञ ट तत्रदेशान्विचिन्वन्ति ४ ख.–ट. सर्वर्तुकांश्चदेशेषु. ५ ख. ग. छ. – ट. सफलदुमान् ६ ख. प्रस्रवणाचले. ७ ङ. च. ज. अ. ट. कपिकुञ्जराः, ८ घ. विचित्यच. ९ घ. महाकपिः १० ङट दिशमप्युत्तरां. ख. उत्तरांतु. ११ क. ग. सीतां. १२ च. – झ. ट. विविच्य. १३ ङ. च. ज.―ट. पूर्णेतु. १४ ग. नगराणिच. १५ क. ग. सागराश्चैव १६ ख. ग. जनपदास्तथा १७ घ. विविधाः सर्वाः सशैलवनकाननाः ग. ङ. -ट. विचितास्सर्वायाश्च ते परिकीर्तिताः क. विचितास्सर्वाः सशैलवनकाननाः, १८ इदम क. - ट. पाठेषुदृश्यते. १९ च. - ट. हनूमान्समैथिलींज्ञास्यति.