पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ १८० अहमेको हनिष्यामि प्राप्तं रावणमाहवे ॥ ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ १० ॥ वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिह || एक एवाहरिष्यामि पातालादपि जानकीम् ॥ ११ ॥ विमथिष्याम्यहं वृक्षान्पातयिष्याम्यहं गिरीन् ॥ धरणीं दारयिष्यामि क्षोभेयिष्यामि सागरान् ||१२|| अहं योजनसंख्यायाः प्लविता नात्र संशयः ॥ शतं योजनसंख्यायाः शतं समधिकं ह्यहम् ||१३|| भूतले सागरे वापि शैलेषु च वनेषु च ॥ पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥ १४ ॥ इत्येकैकं तदा तत्र वानरा बलदर्पिताः || ऊचुश्च वचनं तंत्र हरिराजस्य सन्निधौ ॥ १५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ षट्चत्वारिंशः सर्गः ॥ ४६ ॥ रामेणाखण्डभूमण्डलविज्ञानकारणं पृष्टेनसुग्रीवेण तंप्रति वालिदुन्दुभियुद्धादिकथनेन तन्मूलकस्व विषयकवालि विद्वेषा- दिनिवेदनादिपूर्वकं स्वस्य सकलभूवलयपरिवर्तनस्य तत्कारणत्वोक्तिः ॥ १ ॥ गतेषु वानरेन्द्रेषु रामः सुग्रीवमन्नवीत् ॥ कथं भवान्विजानीते सर्व वै मण्डलं भुवः ॥ १ ॥ सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् ॥ श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥ २ ॥ यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् || 'पॅरिकालयते वाली मलयं प्रति पर्वतम् ॥ ३ ॥ तँदा विवेश महिषो मलयस्य गुहां प्रति ॥ विवेश वाली तत्रापि मलयं तजिघांसया ॥ ४ ॥

पूर्वेणान्वयः ॥ ९॥ अहमित्यादि सागरानित्यन्तमे- | " तदा विवेशमहिष:, महिषो विनशेदिति " इति कान्वयं ।। १०–१२ ।। अहं योजनसंख्यायाः शतं पुनः पुनरुक्तेश्च रामेण विदितवृत्तान्तश्च न वचनम - प्लवितेत्येकस्य वचन। योजनसंख्यायाः शतं समधि- र्हति । तर्हि कथमुपपत्तिरितिचेत् उच्यते । पूर्व माया- कमित्यन्यस्य । हिः प्रसिद्ध ॥ १३ – १५ ॥ इति विवृत्तान्ताभिधानादत्र महिषवृत्तान्ताभिधानाच त. श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहा- दानीमुभावप्यागताविति वेदितव्यं । तत्र महिषः राख्याने किष्किन्धाकाण्डव्याख्याने पञ्चचत्वारिंशः कथंचित्स्वात्मानं गोपयित्वा वालिनि विनिर्गते पुन- सर्गः ॥ ४५ ॥ र्मत्तः कदाचिदागत्य वालिना हत इत्यविरोधः । | वक्ष्यत्येवमन्यत्रापि विषये । रावणेन सीतोपप्लवे अथ रामाय सुग्रीवेण स्वस्य सर्वभूमण्डलज्ञानम्- उद्युक्ते मन्दोदरीधान्यमालिन्यौ निवारिण्यौ । तत्रैका लकथनं षट्चत्वारिंशे—गतेष्वित्यादि ॥ १ ॥ प्रणता- त्मवान् प्रणतदेहवान् ॥ २ ॥ केचिदत्र दुन्दुभिशब्देन पूर्वमुक्ता अन्याः वानरसन्निधावनुवादे । तस्मादयमृषेः उपचारान्मायाव्येवोच्यते । मायाविनो वृत्तान्तस्या- स्वभाव इति बोध्यम् । परिकालयते पलाययति । नुवादादित्याहुः । तन्न । महिषाकृतिमित्यस्य विरोधात् । कलतेर्मितो वृद्धिरार्षी । तत्रापि गुहायामपि । तज्जि-

ति० एकैकः एकशइत्यर्थः ॥ १५ ॥ इति पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥

स० अव्ययानामनेकार्थत्वाद्वै इत्यर्थे । ततश्चइत्यब्रवीदित्यन्वयः ॥ १ ॥ स० प्रणतात्मवान् प्रणतश्चासावात्मादेहवसोस्या- स्त्रीतिसतथा । एकदेशिनेत्यादिनिर्देशान्न कर्मधारयादितिनजानिर्देशाच्चमत्वर्थीयनिषेधोऽनित्यइतिप्रणतात्मवानितिसाधुः मनोस्यास्तीत्यात्मवान् । प्रणतश्वासावात्मवांश्चेतिवा ॥ २ ॥ स० दुन्दुभिरितिजनक इत्यादिवत्कुलनाम | मायावीतितन्मात्रनामेति दुन्दुभेः पितृत्वात्कथं माया विनिपुत्रे तन्नामेतिनिरस्तं । अथवा पितृनाम्नालक्षणयापुत्रगृह्यते ॥ ति० अत्रदुन्दुभिशब्देनमहिषशब्दे- आत्मा- [ पा०.] १ क. ग. -ट. वधिष्यामि २ ङ. च. ज. ञ. निर्मथिष्याम्यहं. क. – घ. छ. झ. ट. विधमिष्याम्यहं. ३ क. – ङ. छं. जॅ. झ. ट. वृक्षान्दारयिष्याम्यहं. ४ ङ. च. ज. ज. गिरिं. ५ ख. शोषयिष्यामि ६ ङ. – ट. प्रवेयं. ७ क. ख. घ.. शतयोजन. ८ क. तथा. ९ ज. चापि १० क. ङ. – ट. इत्येकैकः ११ ङ. – ट. तस्य. क. ग. घ. तस्मिन्हरि १२ च. ट सुप्रीवश्च १३ छ. —ट, वचोमम १४ घ. यदाहि. १५ ङ. द, प्रतिकालयते. १६ क, ख, पर्वतंप्रति १७ क. यदा..