पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ट्ठे श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ ॥ तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः ॥ भत्र परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥ १० ॥ तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् ॥ कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥ ११ ॥ ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् || अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥ १२ ॥ अनेन त्वां हरिश्रेष्ठ चिह्वेन जनकात्मजा || मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति ॥ १३ ॥ व्यवसायश्च ते वीर सत्वयुक्त विक्रमः ॥ सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे ॥ १४ ॥ सँ तं गृह्य हरीश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः ॥ वन्दित्वा चरणौ चैव प्रस्थितः ध्रुवगोत्तमः ॥१५॥ स तत्प्रकर्षन्हरिणां बैलं महद्धभूव वीरः पवनात्मजः कपिः ॥ गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः ॥ १६ ॥ अतिबल बलमाश्रितस्तवाई हरिवरविक्रम विक्रमैरनल्पैः ॥ पवनसुत यथाभिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ 2 येन ॥ अन्ते इतिकरणं बोध्यं । कार्यसाधने विषये H " गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणं निश्चितार्थः निश्चितकार्यसाधकः । हनुमानपि निश्चि- इत्युक्तेः ॥ १२ ॥ भवद्वचनमेवालं किमर्थमेतद्दीयते तार्थकरः ॥ ९ ॥ अस्य कार्यफलोदयः अस्य संब- तत्राह — अनेनेति ॥ पश्यति द्रक्ष्यति ॥ १३ ॥ न्धिनी कार्यसिद्धिः । ध्रुवः निश्चितः ॥ १० ॥ हनुमन्तं प्रशंसति - व्यवसाय इति ॥ सत्वयुक्तो व्यवसायोत्तरं व्यवसायेन उत्तरं श्रेष्ठं । कृतार्थ: विक्रमः बलं च विक्रमश्चेत्यर्थः ।। १४-१५ ।। प्रकर्षन संवृत्त इक् । अमन्यतेतिशेषः ॥ ११ ॥ राजपुत्र्याः नयन् | हरिणामित्यत्र दीर्घाभावआर्षः ॥ १६ ॥ अभिज्ञानं अभिज्ञायतेनेनेत्यभिज्ञानं । ननु व्यक्तसक- | पुनरपि गच्छन्तंप्रति रामवचनं – अतिबलेति ॥ लघनस्य वन्यवृत्त्या वर्तमानस्य कुतोङ्गुलीयकमिति अतिबलेति संबुद्धिः । हरिवरविक्रम सिंह श्रेष्ठविक्रम चेत् इदमेकमेतत्कार्यार्थ रक्षितवान् । अतएवाङ्गुली- यमुन्मुच्येति नोक्तं । यद्वा रामनामाङ्कितमङ्गुलीयकं सीतायाः कदाचिद्रावणागमनात्पूर्व प्रणयपरत्वेन रामेण स्वीकृतमिति बोध्यम् । यद्वा भार्यास्नेहेन कनि- सुप्रीवतुल्यविक्रमेति वा । श्लोकान्ते इति रामोऽब्रवी- दिव्यध्याहायै ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- ठिकायां सदा मुद्रिका धार्यत इति देशाचारः । यद्वा ण्डव्याख्याने चतुञ्चत्वारिंशः सर्गः ॥ ४४ ॥ विवाहकाले जनकेन दत्तमिदं वरालङ्कारत्वेन । शि० कार्य साधने निश्चितः अर्थतरः अत्युपायोयेनसः । योहनूमान् तस्मिन्हनूमति सर्वथा सर्वप्रकारेण । निश्चितः अर्थोजान की दर्शनं येनसः हरीश्वरः सुग्रीवः । अस्तीतिशेषः । एतेनसुग्रीवस्ययाथार्थ्यवेदितृत्वंव्यञ्जितं ॥ किंच हरीश्वरोहनुमतिनिश्चितार्थोस्ति । हनूमां- स्तुनिश्चितार्थतरः । एतेनहनुमतोज्ञानाधिकलंसूचितं । पूर्वकल्पे त्वरार्थस्याविवक्षयानेयंव्यञ्जनेतिबोध्यं ॥ ९ ॥ ति० प्रस्थितस्य भत्रीप्रस्थापितस्य । परिज्ञातस्य परीक्षितस्य । परिगृहीतस्य श्रेष्ठतयेतिशेषः । कार्यस्यफलोदयः सीतादर्शनप्राप्तिरूपः । स ध्रुवः निश्चितार्थः ॥ १० ॥ ति० ततः निश्चित कार्यसाधकत्वादेवहेतोः ॥ स० अभिज्ञानं प्रत्यभिज्ञानद्वारा विश्वासजनकं ॥ १२ ॥ ति० तत् अभिज्ञानपदार्थ ॥ १५ ॥ स० हरिणां हरीणां ॥ यद्वा हरः मनःयेषामस्तितेहरिणः मनस्विनः तेषां । जन्यजन- कयोरभिमन्यमानाभिमानिनोः " ब्रह्मादिकंमुखं " " महतचतुर्मुखात्" इत्यादिवदैक्यव्यपदेशात् हरिणांमनस्विनामित्यर्थस्संभव- तीतिज्ञेयं ॥ १६ ॥ ति० कतकेनतुचतुस्त्रिंशत्संख्य श्लोकः सर्गोऽयमुक्तः ॥ १७ ॥ इतिचतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ [ पा० ] १ ग. छ. झ. ट. तदेव. २ छ. झ. ट. संहृष्ट:. ३ क्र. ग. छ. झ. ट. सतगृह्य ४ ङ. च. छ. झ, ञ. ट, कृत्वा. ५ क. चरणावेव. ६ क. ग. ङ. छ. ट. लवगर्षभः ७ च. झ. ट. महद्वलंबभूव.