पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ हनूमतिकार्यसाधकतांनिश्चितवतासुग्रीवेणतंप्रतितत्पराक्रमप्रशंसन पूर्वकं विशेषतः सीतान्वेषणचोदनं ॥ १ ॥ तेन हनुमति कार्यसाधकतामनुमिमानेनरामेणसीताप्रत्ययायतस्मिन्नभिज्ञानत्वेन निजनामाङ्किताङ्गुलीयकदानम् ॥ २ ॥ हनूमता रामचरण: प्रणामपूर्वकंवानरसेनयासहसीतान्वेषणायप्रस्थानम् ॥ ३ ॥ विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् || सहि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥ १ ॥ अब्रवीच हनुमन्तं विक्रान्तमनिलात्मजम् || सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम् ॥ २ ॥ न भूमौ नान्तरिक्ष वा नाम्बरे नामरालये || नाप्सु वा गैतिसङ्गं ते पश्यामि हरिपुङ्गव ॥ ३ ॥ सासुराः सहगन्धर्वा: सेनागनरदेवताः || विदिताः सर्वलोकास्ते संसागरधराधराः ॥ ४ ॥ गतिर्वैगश्च तेजश्च लाघवं च महाकपे ॥ पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥ ५ ॥ तेजसा वापि ते भूतं समं भुवि न विद्यते ॥ तद्यथा लभ्यते सीता तत्त्वमेवोपपादयः ॥ ६ ॥ त्वय्येव हनुमन्स्वस्ति बलं बुद्धिः पराक्रमः || देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥ ७ ॥ ततः कार्यसमासङ्गमवगम्य हनूमति || विदित्वा हनुमन्तं च चिन्तयामास राघवः सर्वथा निश्चितार्थोयं हनूमति हरीश्वरः ॥ " निश्चितार्थकरश्चापि हनुमान्कार्यसाधने ॥ ९ ॥ ८॥ १० १७७ अथ निश्चितकार्यसाधनसामर्थ्याय हनुमते अङ्गु- गतिविलम्वं । नपश्यामि ॥ ३–४ ॥ गतिः अप्रति- लीयकदानं चतुश्चत्वारिंशे — विशेषेणत्वित्यादि ॥ हतगतिः ॥ ५ ॥ भूतं जन्तुः । तत् तस्मात्कारणात् । हनुमति विषये । अर्थं वक्ष्यमाणार्थ । उक्तवान् । तत् सीतान्वेषणं । उपपादय संपादय || ६ || नयप- विशेषार्थकथनेहेतुमाह- इस हीति । अर्थसाधने विषये | ण्डितेत्यनन्तरमितिकरणंबोध्यं । इत्यब्रवीदिति पूर्वे- निश्चितार्थः ॥ १ ॥ संग्रहेणोक्तमर्थं विस्तरेण दर्शयति णान्वयः ॥ ७ ॥ ततः सुप्रीववचनात् । हनूमति ——अब्रवीञ्चेत्यादिना ॥ २ ॥ भूमौ सजातीयप्रतिप- कार्यसमासङ्गं कार्यविषयासक्तिं । अवगम्य अस्मिन् बहुलायां । अन्तरिक्षे निरालम्बे मेघादिसंचारमार्गे । सुग्रीवेण स्वकार्यभारो निक्षिप्त इति ज्ञात्वेत्यर्थः । अम्बरे वातचक्राक्रान्तप्रदेशे । अमरालये प्रबलाधिष्ठिते स्वयमपि हनुमन्तं कार्यसाधकं विदित्वाचिन्तयामासं स्वर्गे । अप्सु तिर्यक्संचारानर्हासु वा । गतिसङ्गं || ८ || चिन्ताप्रकारमाह - सर्वथेत्यादिना श्लोक- रामानु० हनुमत्यर्थमुक्तवान् निक्षिप्तवान् । घातूनामनेकार्थत्वात्कर्माधिकरणवाचिपदसमभिव्याहृतोवचिर्निक्षेपेवर्तते ॥ ती० अर्थ प्रयोजनं । उक्तवान् निक्षिप्तवानित्यर्थः । " वायुपुत्रसमीपंतुगत्वातंवाक्यमब्रवीत् । शृणुमद्वचनं वीरहनुमन्मारुतात्मज । अय- मिक्ष्वाकुदायादोराजारामःप्रतापवान् । सर्वात्मा सर्वलोकेशोविष्णुर्मानुषरूपधृत्" इति । अहेतुमाह - सहीति । यस्मात्कार- णात् सुग्रीवः अर्थसाधनेविषये तस्मिन्ह रिश्रेष्टेनिश्चितार्थ: । अयंभावः । सीतान्वेषणाय सर्वास्वपिदिक्षुवानरान्नियुज्य हनुमतस्स- र्वोत्तमत्वादनेनैवकार्यसिद्धिर्भविष्यतीतिनिश्चित्यतत्प्रशंसापूर्वकंतंप्रत्यर्थमुक्तवानिति ॥ १ ॥ ती० अन्तरिक्षे पतत्रिमेधंसंचारप्र देशे । अंबरे तदुपरिसिद्धविद्याधरादिसंचरणप्रदेशे ॥ स० गतिसङ्गंगमनव्यवधानकरं । अन्तरिक्षं पक्षिमार्ग: । अंबरं व्योम | अमरालयः स्वर्गः । यद्वा अंबरे अमरालयेइतिसामानाधिकरण्येनान्वयः । अथवा अप्सुआलये सर्वप्रलये । हेअमर अविना- शिन् । गतिसङ्गं ज्ञानप्रतिबन्धं । " प्रलयकालेपिप्रतिभातपरावरः " इत्युक्तेः । ना पुमान् अहं नपश्यामीतिभावः ॥ ३ ॥ स० पितुः वायोः । गत्या गतिः सदृशी । वेगेनवेगः । तेजसातेजः । लाघवेनलाघवं चेत्यन्वयोद्रष्टव्यः ॥ ५ ॥ ति० ततः एवंसुग्रीव वचनात् । कार्यसमासङ्गं कार्यसिद्धिसंबन्धं | अवगम्य स्वयंचतत्सामर्थ्याद्यनुभवेनतस्मिन्कार्यसाधकत्वं विदित्वा । चात्तद्गम्यदेश- एवसीतांविदित्वा चिन्तयामास । अस्मिन्स्वकर्तव्यसमर्पणंयुक्तमितिविचारयामास | शि० अवगम्यहनूमति अवगम्यः सर्वका- र्यसाधकत्वेनसर्वैर्ज्ञातव्यः । सचासौहनुमानितिकर्मधारयः । तस्मिन् | हनुमन्तंचिन्तयामास तद्गुणान्सस्मारेत्यर्थः ॥ ८॥ स० हनुमान् निश्चितार्थतरः । इदंच "अत्यन्तमन्तरङ्गखात्प्रधानाङ्गंहिमारुतिः” इत्युक्तेः प्रधानाङ्गत्वायुक्तमितिभावः । [पा० ] १ ङ. च. ज. ज. सविशेषेण. २ ङ, छ. ज. ञ. न्हरिश्रेष्ठो. ३ ज. गतिभनं. ४ घ. सामरा: च. ज. ससुरा:. ५ क. सनागहरिदेवताः. छ. सनागोरगदेवताः ६ ङ. च. झ ञ ट नसमंभुवि ७ ग. ङ च छ. ञ ट तलमेवानुचि- न्तय. ८ क. ग. छ. झ ट . हनुमन्नस्ति. ङ च ज ञ, हनुमन्सन्ति ९ ङ. च. ज. ज. विदित्वाचहनूमन्तं १० ग. छ. झ. ट. निश्चितार्थतरश्चापि क. निश्चितार्थतरश्चायं.

वा. रा. १४२