पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृ॑तम् । सर्वरत्न मयैश्वित्रैरवगाढा नगोत्तमैः ॥ जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४६ ॥ नित्यपुष्पफेलास्तत्र नगाः पत्ररथाकुलाः || दिव्यगन्धरसस्पर्शा: सर्वकामान्त्रवन्ति च ।। ४७ ॥ नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥ ४८ ॥ १७५ मुक्तावैडूर्यचित्राणि भूषणानि तथैव च ॥ स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च ॥ सर्वर्तुसु खसेव्यानि फलन्त्यन्ये नगोत्तमाः ।। ४९ ॥ महार्हाणि च चित्राणि मान्यन्ये नगोत्तमाः || शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥ ५० ॥ मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ॥ पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ ५१ ॥ स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः ॥ गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा ॥ रमन्ते संहितास्तत्र नारीभिर्भास्करप्रभाः ॥ ५२ ॥ 'सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ॥ सर्वे कामार्थसहिता वसन्ति सहयोषितः ॥ ५३ ॥ गीतवादित्रर्निर्घोषः सोत्कृष्टहसिखनः ॥ श्रूयते सततं तत्र सर्वभूतमनोहरः ॥ ५४ ॥ तंत्र नामुदितः कश्चिन्नास्तिक चिदसत्प्रियः || अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ।। ५५ ।। समतिक्रम्य तं देशमुत्तरः पयसां निधिः ॥ ५६ ॥ तत्र सोमँगिरिर्नाम मध्ये हेममयो महान् || इन्द्रलोकगता ये च ब्रह्मलोकगताच ये ॥ देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥ ५७॥ स तु देशो विसूर्योपि तस्य भासा प्रकाशते || सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता ॥ ५८ ॥ भगवानपि विश्वात्मा शंभुरेकादशात्मकः || ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ ५९ ॥ भान्तीति शेषः ॥ ४५ ॥ नगोत्तमैः पर्वतश्रेष्ठैः । | लवणसमुद्रः । अस्तीति शेषः ॥ ५६ ॥ तत्र लवणस- अवगाढा: प्रविष्टा इति निम्नगाविशेषणं ॥ ४६ ॥ मुद्रे | मध्ये मध्ये देशे | ये दिवं गता इत्यनुषज्यते पत्ररथाकुलाः पक्षिभिराकुलाः । सर्वकामान् सर्वाभी- ॥ ५७ ॥ स देश: विसूर्योपि रात्रौ विगतसूर्योपि । ष्टान् ॥ ४७–४८ ॥ सर्वर्तुसुखसेव्यानि हेमन्ताद्य- तस्य सोमगिरेर्भासा प्रकाशते । कथमिव । सूर्यलक्ष्म्या तुष्वपि सुखेन सेवितुं योग्यानि ॥ ४९–५२ ॥ अभिविज्ञेयः ज्ञातव्यपदार्थको देश: | तपता विवस्व - सहयोषितः योषित्सहिताः ॥५३॥ सोत्कृष्टहसितस्वनः तेव ॥ ५८ ॥ विश्वासा विश्वशरीरकः । भगवान् उत्कृष्टहासशब्दसहितः ॥ ५४ ॥ असत्प्रियः अविद्य- षाड्गुण्यपरिपूर्णो वासुदेव: । " एवमेव महाञ्शब्दो मानाङ्गनः । गुणाः सुखादयः ॥ ५५ ॥ पयसां निधिः मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य कतक० दिव्यगन्धेति ॥ इतउत्तरंकेचिलोका: " रमन्तेसततंतत्रनारीभिर्भास्वरप्रभाः ” इत्यन्ताः प्रक्षिप्ताः । प्राचीनपुस्तके. ध्वनुपलंभात् ॥ ४७ ॥ रामानु० नगोत्तमाः वृक्षश्रेष्ठाः ॥ ४८ ॥ शि० कामार्थसहिताः इच्छाविषयीभूतार्थै विद्यमानास्सन्तः रतिपरायणाः भवन्तीतिशेषः ॥ ५३ ॥ स० तत्रेत्यनेन बुद्धिसंनिहितत्वादत्रेत्युक्ति: । अव्ययानामनेकार्थत्वादत्रे त्यस्य तत्रेत्यर्थक- वंद्रष्टव्यं । अत्रेवेतिलुप्तोपमानंवा । अत्र किष्किन्धायां । असप्रियोयथानास्ति तथेत्यर्थः । ति० असत् अविद्यमानं प्रियंयस्यता- दृशः || शिo असत्प्रियः असत्कर्म विषयकप्रीति विशिष्टः । अत्र उत्तरकुरुषु ॥ ५५ ॥ ति० अत्रसुमेर्वन्वेषणंनोक्तं । तत्ररक्षसां वासासंभवादियाहुः । मध्ये उत्तरसमुद्रमध्ये ॥ ५७ ॥ रामानु० ब्रह्मर्षिपरिवारित इत्येतच भगवाञ्शंभुरित्यत्राक्सिंबध्यते । [ पा० ] १ क. रत्नमयैर्दिव्यैः २ ग. फलाश्चात्र. ३ च. छ. ज. न. सर्वान्कामान् ४ क. ख. ग. नानारूपाणि ५ क. ङ. — ट. यान्यनुरूपाणि ६ क. च. – ट. महार्हमणिचित्राणि ७ ङ. छ. झ. ट, फलन्त्यन्ये. ८ ख. फलन्त्यन्येनगोत्तमाः. क. फलन्त्यत्रवनेमाः ९ ग. फलानिच १० झ. ट. संततंतत्र. ११ च. - झ ट भीस्वरप्रभा • १२ ग. सर्वेचकृत. १३ ग. च. ज. निर्धुष्टाःसोद्धष्टहसितस्वराः । श्रूयन्तेसततंतत्र सर्वभूतमनोरमाः १४ ख. घ. सोद्धष्ट. १५ झ. स्खरैः . न. खरः. १६ झ. ञ. ट. मनोरमः १७ ङ. –झ. ट. नात्र. १८ ङ. – ट. तमतिक्रम्यशैलेन्द्रमुत्तरः १९ ख. हेमगिरिर्नाम. २० क. च. ज. ज. ट. गतं. २१ ग. स्वयालक्ष्म्याहि ख. सूर्यलक्ष्म्याहि २२ क. ग. च. – ट. भगवांस्तत्र,