पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ वैन्द्यास्ते तु तपःसिद्धास्तपसा वीतकल्मषाः ॥ प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ||३४|| हेमपुष्करे सछन तस्मिन्वैखानसं सरः | तरुणादित्यसका सैविचरितं शुभैः ॥ ३५ ॥ औपवाह्य कुबेरस्य सार्वभौम इति स्मृतः ॥ गजः पर्येति तं देशं सदा संह करेणुभिः ॥ ३६ ॥ तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् || अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ ३७ ।। गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते || विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयंप्रभैः ॥ ३८ ॥ तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ॥ ३९ ॥ उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥ ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च ॥४०॥ उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ४१ ॥ ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः ॥ नीलवैडूर्यपत्राभिर्नयस्तत्र सहस्रशः ॥ ४२ ॥ रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः | तरुणादित्य संदृशैर्भान्ति तत्र जलाशयाः || ४३ ॥ महार्हर्मेणिपत्रैश्च काञ्चनप्रभकेसरैः ॥ 'नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ ४४ ॥ निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ॥ उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४५ ॥ 66 ॥ ३३ ॥ तपःसिद्धाः अणिमाद्यष्टैश्वर्यसिद्धियुक्ताः | उभयतीरजा कीचकाः । अन्योन्यसंग्रथिततया ॥ ३४-३५ ।। औपवाह्य : राजार्ह वाहनं । " राजा- गमनसाधनभूताः सन्त: सिद्धान् परं तीरं नयन्ति र्हस्त्वौपवाह्यः ” इत्यमरः || ३६ || अथ महामेरुपर्य - प्रत्यानयन्ति च ॥ ४० ॥ उत्तराः कुरवः उत्तरकुरुसं न्तेलावृतप्रदेशानुपदिशति - तत्सर इति ॥ उत्तरत्र ज्ञिका: देशा: । वर्तन्त इति शेषः । कृतपुण्यानां “ हिमवन्तं च मेरुं च समुद्रं च तथोत्तरं " इति प्रतिश्रयाः आश्रयभूता: आवासभूताः ॥ ४१ ॥ वक्ष्यमाणत्वादत्र मेरुकीर्तनप्रसक्तिरेव नास्तीति न ततः कृतपुण्यप्रतिश्रयत्वाद्धेतोः । कृतपुण्यभोग्यभूमि- भ्रमितव्यं । व्योम वर्तत इति शेषः । व्योम्नो नष्टच- त्वात् उक्तविशेषा नद्यः सन्तीति भावः । पद्मिनीभिः न्द्रदिवाकरादित्वं नियतमार्गवर्तिनां चन्द्रसूर्यादीनां पद्मलताभिः । कृतोदकाः पर्याप्तोदकाः । “ युगपर्या- मेरुनिकटे किरणसंचाराभावात् । तदुक्तं विष्णुपुराणे तयोः कृतं " इत्यमरः ॥ ४२ ॥ रक्तेत्यविभ- यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः । ऋते |क्तिकनिर्देश: । रक्तैरुत्पलवनैर्हिरण्मयैरुत्पलवनैः । हेमगिरिर्मेरोरुपरि ब्रह्मणः सभां ” इति ॥ ३७ | तरुणादित्यसदृशैरुत्पलवनैश्चेत्यर्थः । तत्रात्र तेष्वेतेषु स देशः अर्कस्य गभस्तिभिरिव स्थितैः स्वयंप्रभैः कुरुष्वित्यन्वयः ॥ ४३ ॥ महार्हमणयो नीलरत्नानि स्वतःसिद्धज्ञानैः तपःसिद्धैः प्रकाशते ॥ ३८ ॥ तत्तुल्यपत्रैः ॥ ४४ ॥ निस्तुलाभिः वर्तुलाभिः । निम्नगा वर्तत इति शेषः ॥ ३९ ॥ तस्याः शैलोदायाः । वर्तुलं निस्तुलं वृत्तं " इत्यमरः । महाधनैः उभयोस्तीरयोः कीचका नाम वेणवः सन्ति । ते बहुमूल्यैः । उद्भूतपुलिना: उन्नतपुलिनाः । निम्नगा: द्रमन्नादन्यः ॥ ३१ ॥ ति० वैखानसं वैखानसानामिदं ॥ ३९ ॥ ति० तत्सरोतिक्रम्यवर्तमानं व्योम | कियानवकाशः चन्द्रादि- सर्वज्योतिर्गणप्रकाशरहितः । शि० अनादिमत आदिरहितं । नित्यमित्यर्थः ॥ ३७ ॥ ति० नापिसान्धकारमित्याह – गभस्ति- भिरिवेति । चन्द्रादिज्योतींष्यभिभूयार्कंगभस्तिसदृशैः स्वीयैर्गभस्तिभिः प्रकाश्यते । केते यैर्गभस्तिभिः प्रकाश्यतेतत्राह – विश्राम्यद्भि रिति । सुखोपविठैःखतपस्सिद्धैः । अतएवदेवकल्पैः सूर्यादिदेवतुल्यैः स्वयंप्रभैश्च सूर्यादिवत्सदेशः प्रकाश्यते । यत्तु तत्रचन्द्रादीनांसं- चाराभावएवेतितन्न । अग्रेसुप्रसिद्धचन्द्रादिसंचार व दुत्तरकुरूणांत दूर्ध्वमुपदेशानुपपत्तेः ॥ ३८ ॥ ती० कृतपुण्यप्रतिश्रयाः पुण्या- नांप्रतिश्रयाः आश्रयभूताःज्योतिष्टोमादयः तेकृतायैस्तेकृतपुण्यप्रतिश्रयाः ॥ ४१ ॥ ति० कृतोदकाः कृतोदककार्याः ॥ ४२ ॥ [ पा० ] १ ङ. च. झ ञ ट वन्दितव्यास्ततः सिद्धा. क. ग. वन्द्यास्तुते. २ ज संपन्नं ३ क. ग. ङ. - ट. तत्रवै- खानसं. ४ ख. घ. श्रुतः ५ ख हस्तिक रेणुभिः ६ ख अनक्षत्रगतं. ७ ख. घ. – ज. ञ ट अनादिमत्. ८ ख. ग. घ. तैश्चयान्तिपतौरंसिद्धाः प्रत्यानयन्तिच. ९ ख. ङ. छ. झ. ट. पत्राढ्याः. ग. पद्माभा: च. ज. ज. पद्माढ्याः घ. चापि ११ घ. झ ट संकाशाभान्ति ख. च. ज. संकाशः. १२ छ. झ. द. मणिरनैश्च १३ ख. नीलनीरजषण्डैश्च. १४ क॰ ख, घ, छ. ज. उद्भूतपुलिनाः १५ ग. जातरूपमयाःशुभाः• 66 १० ख. श्वारु. '