पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ सुप्रीवेणोत्तरदिशिसीतापरिमार्गणायशत बलिप्रमुख कपिबलप्रेषणम् ॥ १॥ ततः संदिश्य सुग्रीवः वशुरं पश्चिम दिशम् || वीरं शतबलिं नाम वानरं वानरर्षभः ॥ १ ॥ उवाच राजा धैर्मज्ञः सर्ववानरसैत्तमम् || वाक्यमात्महितं चैव रामस्य च हितं तथा ॥ २ ॥ वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ॥ वैवस्वतसुतैः सार्धं प्रतिष्टस्व स्वमन्त्रिभिः ॥ ३ ॥ दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् || सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ ४ ॥ अस्मिन्कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये ॥ ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ ५ ॥ कृतं हि प्रियमस्माकं राघवेण महात्मना || तस्य चेतत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ ६ ॥ आर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यथरेत् ॥ तस्य स्यात्सफलं जन्म किं पुनः पूर्वकारिणः ॥ ७ ॥ एतां बुद्धिमवस्थाय दृश्यते जानकी यथा तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ८॥ अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः || असासु चागतप्रीती रामः परपुरंजयः ॥ ९ ॥ इमानि वनदुर्गाणि नद्यः शैलान्तराणि च ॥ भवन्तः परिमार्गन्तु बुद्धिविक्रमसंपदा ॥ १० ॥ तत्र म्लेच्छा पुलिन्दांच शूरसेनांस्तथैव च ॥ प्रस्थंलान्भरतांश्चैव कुरूंच सह मद्रकैः ॥ ११ ॥ काम्बोजान्यवनांश्चैव शंकानारट्टकानपि || बौहीकानृषिकांश्चैव पौरवानथ टैङ्कणान् ॥ १२ ॥ चीनान्पर्मचीनांश्च निहारांश्च पुनःपुनः ॥ अन्वीक्ष्य दरदांश्चैव हिमवन्तं ' तथैव च ॥ १३ ॥ लोध्रपद्मकषण्डेषु देवदारुवनेषु च || रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ १४ ॥ ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् || कालं नाम महासानुं पर्वतं तु गमिष्यथ ॥ १५ ॥ महत्सु तस्य शैलॅस्य निर्दरेषु गुहासु च ॥ " विचिनुध्वं महाभागां रामपत्नीं ततस्ततः ॥ १६ ॥ तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् || ततः सुदर्शनं नाम गन्तुमर्हथ पर्वतम् ॥ १७ ॥ [ किष्किन्धाकाण्डम् ४ | देशान् । कुरून् दक्षिणकुरून् । हिमवदन्तान् पुनः पुनरन्विष्य परिमार्गन्त्विति पूर्वेण संबन्धः ॥ ११ अथोत्तरदिशि शतबलिप्रेषणं त्रिचत्वारिंशे- ततः संदिश्येत्यादि ॥ १-३ || हिमशैलावतंसकां -हिमशैलालङ्कारां ॥ ४ ॥ कृतार्थाश्चार्थविदश्च कृता- – १३ ॥ पद्मकाञ्चन्दनविशेषाः । साहचर्यात् अर्थविदः तेषां वराः ॥ ५–९ ॥ इमानि वक्ष्यमा- ॥ १४–१६ ॥ तमतिक्रम्येति ॥ तं कालंनाममहा- णानि । नद्यः नदीः ॥ १० ॥ भरतान् इन्द्रप्रस्थादिप्र- गिरं अतिक्रम्य । ततः तस्मात् । सुदर्शनं पर्वसं ति० सर्वज्ञः देशवृत्ताभिज्ञः ॥ २ ॥ शि० प्रतिष्ठव समान कार्यकारित्वेनैकीभव ॥ ३ ॥ ति० विक्रान्तेतिशतबलस्य संबुद्धिः ॥ ४ ॥ ती॰ कृतार्थार्थविदांवराइत्यत्रसवर्णदीर्घआर्षः ॥ ५ ॥ रामानु० लोध्रपद्मकषण्डेष्वित्यत्र पद्मकशब्दश्चन्दनव्यतिरि- [ पा० ] १ घ. वानराधिपः . क. ग. ङ. च. वानरर्षभं. छ. झ. ट. वानरेश्वरः २ ख. ग. छ. झ. ज. ट. सर्वज्ञः. च. ज. मन्त्रज्ञः. ३ क. ख. ग. ङ. – ट. सत्तमः ४ च. मद्विधानां. ५ छ. झ. ट. प्रविष्टः सर्वमन्त्रिभिः. क. ग. च. ज. ञ, प्रतीक्षवस्वमन्त्रिभिः ६ झ. विक्रान्त ७ छ. झ ट पत्नींयशखिनीं. ८ क ख ग कार्येहि निर्वृत्ते. ९ ख बुद्धिंपुरस्कृत्ययथा- दृश्येतजानकी. क. घ. च. - ट. बुद्धिंसमास्थाय १० छ. झ. कांबोजयवनांश्चैव ङ. कांबोजान्पर्वतांश्चैव ११ छ. झ ञ ट शकानांपत्तनानिच १२ घ. बाहीकान्निषधांश्चैव. १३ क. ग. घ. कङ्कणान्. ङ. च. ज. ञ. कोकणान्. १४ क. ग. नगरांच. १५ घ. अन्विष्य बर्बरांश्चैव. ङ. -ट. अन्वीक्ष्यवरदांश्चैव. क. अन्विष्य १६ ख. छ. झ. ट. विचिन्वथ. १७ क. -ट. पर्वतंतं. १८ ङ. -ट. शैलेषुपर्वतेषु १९ क, ख, ग, ङ, छ, ज झ ट विचिन्वत २० ङ. द. रामपत्नीमनिन्दितां. २१ क, ख, ग. ङ. - ट. पर्वतंगन्तुमर्हथ,