पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः ४१ ] रक्षिता पनगैर्घोरस्तीक्ष्णदंष्र्महाविषैः ॥ ३७ ॥ सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः ॥ निर्याय मार्गितव्या च सा च भोगवती पुरी ॥३८॥ तंत्र चानन्तरा देशा ये केचन सुसंवृताः ॥ ३९ ॥

  • तं च देशमतिक्रम्य महानृषभसंस्थितः ॥ सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥ ४० ॥

'गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् || दिव्यमुत्पद्यते यत्र तञ्चैवाग्निसमप्रभम् ॥ ४१ ॥ नँ तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च केदाचन ॥ रोहिता नाम गन्धर्वा घोरीं रक्षन्ति तनम् ॥ ४२ ॥ तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः ॥ शैलूषो ग्रामणीः शित्रुः शुभ्रो बभ्रुस्तथैव च ॥ ४३ ॥ रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम् || अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ॥ ४४ ॥ तैंतः परं न वः सेव्यः पितृलोकः सुदारुणः ॥ राजधानी यमस्यैषा कष्टेन तमसा वृता ॥ ४५ ॥ एतावदेव युष्माभिवरा वानरपुङ्गवाः || शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥ ४६ ॥ सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ॥ गतिं विदित्वा वैदेयाः सन्निवर्तितुमर्हथ ॥ ४७ ॥ यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ॥ मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥ ४८ ॥ ततः प्रियँतरो नास्ति मम प्राणाद्विशेषतः ॥ कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥ ४९ ॥ अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः ॥ मनुजपतिसुतां यथा लभध्वं तंदधिगुणं पुरुषार्थमारभध्वम् ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १६७ यति ॥ शरणं गृहं । ३६ – ३७ || निर्याय | त्पुरुषात् । प्रियतरो नास्ति । मम प्राणाद्विशेषतः अगस्त्यभवनान्निर्गत्य ॥ ३८ ॥ ये अनन्तराः अव्यव- हिता देशाः । तेमार्गितव्या इति शेषः ॥ ३९ ॥ तं च देशमतिक्रम्य तस्माद्देशात्परत इत्यर्थः । ऋषभ- संस्थितः ऋषभतुल्य संस्थानः ॥ ४० ॥ गोशीर्षकं गोरोचनासदृशवर्ण | पद्मकं पद्मदलसवर्ण | हरि- श्यामं तमालदलवर्ण । अग्निसमप्रभं अग्निसदृशवर्ण । एवंविधं दिव्यं चन्दनं यत्रोत्पद्यते स ऋषभः पर्वतो ण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥ वर्तत इतिपूर्वेणान्वयः ।। ४१ - ४८ ॥ ततः तस्मा- सः प्रियतर इतिशेषः ॥ ४९ ॥ तद्धिगुणं तदनुगुणं । पुरुषार्थ पुरुषव्यापारं । अत्र संयमिनीपर्यन्तममिधा- नात् सप्तद्वीपसागरगमनमर्थसिद्धं । एवमुत्तरसर्गयो- रपिबोध्यं ॥ ५० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका, रावणस्य जनस्थानवत्सर्पाणामपिभोगवत्याख्यपुरंभूमावण्यस्तीति वासुकेर्भुवउपर्यपियोगवैभवात्स्थितिरितिचेतएवावगन्तव्यं । यथाग- स्त्यस्यकुञ्जरपर्वतावच्छिन्नेविश्वकर्म निर्मित भवनेनक्षत्रपदेमलये पञ्चवटीदक्षिणभागेचवासस्तथेतिध्येयं ॥ ३७ ॥ स० गोशीर्षकं गो- मेदमणिः | पद्मकं पद्मरागमणिः | हरिश्यामं इन्द्रनीलमणिः । चन्दनं चेत्येतावत्पदार्थजातंतथा अग्निसमप्रभंमाणिक्यंच यत्रो- पद्यतेत चैवेतिपूर्वोत्तरत्नापेक्षयाऽस्य विशेषंसूचयति ॥ यद्वा गोशीर्षादयस्सर्वेचन्दनप्रभेदाः ॥ ४१ ॥ स० मत्तुल्यविभवस्सन् सुर्खयथा भवति तथाविहरिष्यति । तस्मै मदर्घराज्याधिपत्यंदास्यामीत्यभिप्रायः ॥ ४८ ॥ इत्येकचत्वारिंशः सर्गः ॥ ४१ ॥ [[ पा० ] १ क. ग.ट. महाघोरो. २ क. घ. ततश्चानन्तरं. गं. छ. झं. ततश्चानन्तरोद्देशाः ३ छ. झ. ट. समावृताः ४. ग. तांश्चदेशान तिक्रम्य ५ च. ज. नृषभपर्वतः. ग. नृषभसंज्ञकः. छ. झ. ट. नृषभसंस्थितिः ६ ख. घ. गोशीर्षकंचपद्मंच. ७. ङ. च. ज... झ. ञ. नृच. ८ च.ट. स्प्रष्टव्यंतु. ९ ख कथंचन १० छ. झ. ट. घोरं. ११ क. ख. झ. ट. शिक्षः. ङ. च. ज. न. भिक्षुः १२ ङ. - ट. शुको. ग. घ. शुभो १३ क. ख. ङ. -ट. स्ततः. १४ ङ. च. ज. ञ. नातः परंनरैः सेव्यः घ. ततः परंनगन्तव्यः १५ क. ग. ङ. च. ज. ज. सेव्याः पितृलोकाः सुदारुणा: १६ क. ख. ङ. ट. यच. १७ ख. घ. प्रियतमो. १८ च. ज. यथोपलभ्य. १९ ख ङ च ज ञ ट तदनुगुणं,