पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ किष्किन्धाकाण्डम् ४ श्रीमद्वाल्मीकिरामायणम् । महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः ॥ अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ॥ ६९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ एकचत्वारिंशः सर्गः ॥ ४१ ॥ सुग्रीवेण दक्षिणदिशितत्तद्देशीय विशेषाभिधानपूर्वकंसीतान्वेषणाय हनुमन्नीलाङ्गदादिप्रेषणम् ॥ १ ॥ ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् || दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ १ ॥ नीलमग्निसुतं चैव हनुमन्तं च वानरम् ॥ पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥ २ ॥ सुहोत्रं च शरारं च शरगुल्मं तथैव च ॥ गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥ ३ ॥ मैन्दं च द्विविदं चैव विजयं गन्धमादनम् || उल्कामुखमसङ्गं च हुताशनसुतावुभौ ॥ ४ ॥ अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः ॥ वेगविक्रमसंपन्नान्संदिदेश विशेषवित् ॥ ५॥ तेषामग्रेसरं चैव महेद्रलमसङ्गगम् || विधाय हँरिवीराणा माँ दिशदक्षिणां दिशम् ॥ ६ ॥ ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ॥ कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥ ७ ॥ सहस्त्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ॥ नर्मदां च नदीं दुर्गा महोरगनिषेविताम् ॥ ८ ॥ ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् ॥ वरदां च महाभागां महोरगनिषेविताम् ॥ ९ ॥ मेखलामुत्कलां चैव दशार्णनगराण्यपि ॥ अश्ववन्तीमवन्तीं च सर्वमेवानुपश्यत ॥ १० ॥ महेन्द्रकान्तां इन्द्रप्रियां । निपुणेन नैपुण्येन ॥ ६९ ॥ | नीलमित्यादि । अत्रोक्त: सुषेणस्तारापितुरन्यः । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे वेगविक्रमसंपन्नप्रेषणे हेतुमाह - विशेषविदिति ॥२ मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चत्वा- रिंशः सर्गः ॥ ४० ॥ ५ ॥ असङ्गं अविलम्बगामि । वेगवदितियावत् । बलं सैन्यं । अग्रेसरं अंग्रचरं । विधाय ॥ ६ ॥ तान् अथ दक्षिणदिशि वानरप्रेषणमेकचत्वारिंशे–ततः समुद्देशान् ॥ ७ ॥ सहस्रशिरसमित्यादि । पूर्ववन्मध्य- प्रस्थाप्येत्यादि । अभिलक्षितान् दृष्टापदानान् ॥ १ ॥ देशापेक्षया विन्ध्यस्य दक्षिणत्वव्यपदेशः ।।८ - १०॥ ति० अभिलक्षितान् कार्यसमर्थत्वेननिर्णीतान् ॥ १ ॥ ति० हुताशनसुताविति । अग्नित्वव्याप्यंहुताशनत्वमित्यग्नि हुताशन- योर्भेदः ॥ स० हुताशनसुतौ अभिपुत्रौ । नीलस्यसेनानीवेनपृथगुक्तिः ॥ ४ ॥ ति० विशेषवित् अन्वेष्टव्यदेशं विशेषवित् ॥ स० विशेषवित् कपिगतपराक्रमविशेषाभिज्ञः ॥ ५ ॥ ति० अग्रेसरं मुख्यं । असंग्रहंइतिपाठे असंकोचप्रभुमित्यर्थः ॥ ६ ॥ रामानु० सहस्रशिरसमित्यादिनापूर्वभागस्थान्देशानुपदिशति ॥ स० अत्रदिक्कल्पनाचजंबूद्वीपमध्यदेशमारभ्येतिज्ञेयं । तेनकथं- किष्किन्धादक्षिणदेशस्थखंविन्ध्यादीनामितिशङ्कापरास्ता ॥ तस्यानागकन्यात्वात्तत्रतेषांसंचारोयुक्तः || ति० अाया पेक्षयादक्षिणत्वं तदाह सहस्रशिरसं सहस्रशिखरं ॥ भेदाः ॥ १० ॥ ॥ ति० गोदावरीं विन्ध्यपूर्वप्रदेशवर्तिगोदावरीं ॥ ९ ॥ मेखलादयोदेश- [ पा० ] १ क. सुरेन्द्रकान्तां. २ ङ. – ट. महौजसं. ३ ख. ग. शरभं. ङ. —ट. सुषेणं. ४ छ. झ. ट. मनङ्गंच. ५ क. ग. महाबलमथाङ्गदं. ङ. - ट. बृहद्वलमथाङ्गदं. ६ क. कपिवीराणां. ७ ङ. च. ज. ञ. मादिदेशाथदक्षिणां. ८ ङ. ज. च॰ सुदारुणाः, ९ ङ.—ट. रम्यां• १० ग. भोगावतीं. ११ क. न. वरारोहां. ज. महारोहां. १२ क. च. अब्रुवन्तब्रुवन्तींच. ङ. ञ. ठ॰ अब्रुवन्तीमवन्तींच. ख. ग. अवन्तीमब्रुवन्तींच. छ. झ. आब्रवन्तीमवन्तींच.