पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ॥ दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ५७ ॥ तत्र वैखानसा नाम वालखिल्या महर्षयः || प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ५८ ॥ अयं सुदर्शनों द्वीपः पुरो यस्य प्रकाशते ॥ यस्मिंस्तेजव चक्षुश्च सर्वप्राणभृतामपि ॥ ५९॥ २२ शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च ॥ रावणः सह वैदेया मार्गितव्यस्ततस्ततः ॥ ६० ॥ काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः ॥ आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥६१॥ पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च ॥ सूर्यस्योदयनं चैव पूर्वा द्वेषा दिगुच्यते ॥ ६२ ॥ तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च ॥ रावणः सह वैदेया मार्गितव्यस्ततस्ततः ॥ ६३ ॥ ततः परमगम्या स्यादिक्पूर्वा त्रिदशावृता || रहिता चन्द्रसूर्याभ्यामदृश्या तिर्मिंरावृता ॥ ६४ ॥ शैलेषु तेषु सर्वेषु कन्दरेषु वैनेषु च ॥ ये च नोक्ता मया देशा विचेया तेषु जानकी ॥ ६५ ॥ ऐतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः || अभास्करममर्यादं न जानीमस्ततः परम् || ६६ ॥ अधिगम्य वैदेहीं निलयं रावणस्य च || मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ६७ ॥ ऊर्ध्व मासान्न वस्तव्यं वसन्वध्यो भवेन्मम || सिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥६८॥ तु तु मेरोरेव शिखरे द्वितीयं पदं न्यस्तं । मेरुशिखरस्य | यस्मिन् द्वीपे प्रकाशते । अयं द्वीपः सुदर्शनो नामेत स्वर्गत्वात् । भूमावेकं स्वर्गे द्वितीयं तृतीयं ब्रह्मलोक योजना ॥ ५९ ॥ शैलस्य उदयशैलस्येत्यर्थः ॥ ६० इति पौराणिकीगाथा ।। ५६ ॥ दिवाकरः जम्बूद्वीपमु – ६१ ॥ हि यस्मादेतदुद्यपर्वतः । द्वारशब्दापेक्षया त्तरेण जम्बूद्वीपोत्तरभागे । “ एनपा द्वितीया " इति नपुंसकत्वं । पृथिव्याः भुवनस्य च पूर्व द्वारं कृतं द्वितीया । परिक्रम्य महोच्छ्रयं तत् सौमनसं शिखरं प्रथमद्वारत्वेन ब्रह्मणः सृष्टयादौ कल्पितं । सूर्यस्य प्राप्येति शेष: । दृश्यो भवति मेरोदक्षिणपार्श्ववर्तिनां परितो भ्रमणाय प्रथमं एतदुदयनं च कृतमुस्थानं दृश्यो भवतीत्यर्थः ॥ ५७ ॥ वैखानसाः ब्रह्मनखो- कल्पितं । तस्मादेषा पूर्वा दिगुच्यते ॥ ६२ ॥ त्पन्नाः । वालखिल्याः ब्रह्मरोमोत्पन्नाः “ ये नखास्ते तस्येत्यादि । सम्यगन्वेषणाय पुनरुक्तिः ॥ ६३ ॥ वैखानसाः | येवालास्ते वालखिल्या: " इति श्रुतेः त्रिदशावृता त्रिदशाधिष्ठिता । दिक् उदयाचलप्रदेश- ॥ ५८ ॥ अयं उदयपर्वतपार्श्वस्थो द्वीपः सुदर्शनो रूपा । ततः परं उदयाः परं | अगम्या || ६४ ।। । सुदर्शनसंज्ञान्वयाह – यस्येति । यस्य तेजसः । पुरः सन्निधौ । सर्वप्राणभृतामपि चक्षुः प्रकाशते विषयग्रहणशक्तं भवति । तत्तेजः सूर्याख्यं । नाम । उपसंहरति - शैलेष्विति ॥ ये मया नोक्तास्तेषु शैला- दिषु विचेया || ६५ ॥ अमर्याद ग्रामनगरादिमर्या- दारहितं । केवलान्धकारभूतमित्यर्थः ॥६६-६८॥ । रवेदिबन्धसहितः ॥ ५१ ॥ ति० अस्तानन्तरमुत्तरेणजंबूद्वीपंपरिक्रम्य तन्महोच्छ्रयं शिखरंसौमनसाख्यं प्राप्यस्थितोदिवाकरोजंबू- द्वीपवर्तिनांभूयिष्ठंदृश्योभवति । सौमनसेशिखरेइत्यर्थः ॥ इदंसत्ययुगाभिप्रायं । त्रेतायांक्षीरसागरमध्यगस्यद्वापरेसुरोमध्य कलौलङ्कामध्यगस्य जंबूद्वीपस्थ मनुष्यदृश्यतायाअन्यत्रोक्तत्वात् ॥ ५७ ॥ ती० अयंसुदर्शनोद्वीपः शोभनदर्शनोऽयंद्वीपःप्रकाशते । अयमितिश्शृङ्गग्राहिकयानिर्देशाज्जंबूद्वीपउच्यते । यद्वासुदर्शनाकारत्वात्सुदर्शन शब्देनजंबूद्वीपउच्यते ॥ स० सुदर्शन: तन्नामकस- रोवरचिह्नितोद्वीपःप्रकाशते ॥ ५९ ॥ ति० चोहेतौ । यतोभुवनस्यप्रकाशनहेतोः सूर्यस्योदय नमवेक्ष्यपूर्व प्रथमं । पृथिव्याएतद्वार ऊर्ध्वस्थानांपृथिवीप्रवेशस्यद्वारं । पृथ्वीस्थानांभुवनस्य ब्रह्मभुवनस्यप्रवेशद्वारं । एतत् उदयगिरिरूपंकृतं । अतएषापूर्वादिगुच्यते ॥ ६२ ॥ इतिचत्वारिंशः सर्गः ॥ ४० ॥ [ पा ] १ ख. घ. महोच्छ्रितं. २ ख. घ. ज. तस्यशैलस्य. ३ क. ख. घ. ङ. च. ज. ञ. कुञ्जेषु. छ. झ. ट. पृष्ठेषु. ४ क. ज. तस्यपूर्वासन्ध्या. ५ क. ख. सापूर्वादिकू. च. छ. ज. ट. सादिक्पूर्वा. ग. दिक्पूर्वाहि. ६ ख ङ. - ट. तमसावृता. ७ ङ. च. ज. र. नदीषुच. ८ ज. येयेचोक्ता. ट. येचनोक्तामयोद्देशाः ९ कं. एतच्चवानरैः १० ज. सिद्धार्थाचनिवर्तवं.