पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ॥ रावणः सह वैदेद्या मार्गितव्यस्ततस्ततः ॥ ३१ ॥ पर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः || मार्गितच्या दरीमन्तः पर्वताच वनानि च ॥ ३२ ॥ ततः समुद्रद्वीपांच सुभीमान्द्रष्टुमर्हथ || ३३ ॥ ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ॥ ३४ ॥ तत्रासुरा महाकाया छायां गृह्णन्ति नित्यशः ॥ ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ ३५॥ तं कालमेघप्रतिमं महोरगनिषेवितम् || अभिगम्य महानादं तीर्थेनैव महोदधिम् ।। ३६ ॥ ततो रक्तजलं भीमं लो॒हितं नाम सागरम् ॥ गुंता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ ३७॥ गृहं च वैनतेयस्य नानारत्तविभूषितम् || तत्र कैलाससंकाशं विहितं विश्वकर्मणा ॥ ३८ ॥ तत्र शैलनिभा भीमा मन्देहानाम राक्षसाः ॥ शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥ ३९ ॥ ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति ॥ निहि॑ता ब्रह्मतेजोभिरहन्यहनि राक्षसाः ॥ अभितप्ताश्च सूर्येण लम्बन्ते स पुनः पुनः ॥ ४० ॥ ततः पौण्डरमेघाभं क्षीरोदं नाम सागरम् ॥ गैंता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ॥ ४१ ॥ तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः || दिव्यगन्धैः कुसुमितै राजतैश्च नगैर्वृतः ॥ ४२ ॥ १६१ - ऊर्मिमन्तमित्यर्धं ॥ ऊर्मिमन्तं समुद्रं इक्षुसमुद्र- मित्यर्थः । अभिगच्छतेति शेष: । " लवणेक्षुसुरास- पि॒िर्दधिदुग्धजलैः समं ” इति समुद्रक्रमः ॥ ३४ ॥ इसमुद्रस्य दुर्गमत्वंदर्शयति — तत्रेति ॥ तत्र इक्षु- समुद्रे ॥ ३५ ॥ तीर्थेनाभिगम्य उपायेनाभिगम्य । “ तीर्थ मन्त्राद्यपाध्यायशास्त्रेष्वम्भसि पावने । पात्रोपायावतरणेषु " इति वैजयन्ती ॥ छायाग्राहि- परिहारेण गन्तव्यमित्यर्थः । यद्वा तीर्थेनावतरणेन मन्तव्यं नान्येन । तेन छायाग्राहि परिहारो भविष्य- तीति भावः ॥३६॥ ततो गताः इक्षुसमुद्रान्निर्गताः । तां कूटशाल्मलीं लोहितं नाम सागरं मधुसमुद्रं च । द्रक्ष्यथ ॥ ३७ ॥ तत्र शाल्मलिद्वीपे ॥ ३८ ॥ तत्र ।। ३०–३१ ॥ प्लक्षद्वीपपर्वतादीनाह – पर्वतेति ॥ | मधुसमुद्रे ॥ सूर्यस्योदयनं प्रतीत्यतः परं निहता इत्यर्धे । निष्कुटाः उद्यानविशेषाः ॥ ३२ ॥ अथेक्षुसमुद्रद्वीपा- ततः परं अभितप्ताश्चेत्यर्धं | लम्बन्ते वर्तन्त इत्यर्थः । नाह—तत इति ॥ ३३ ॥ इक्षुसमुद्रविशेषं वक्तुमा- ब्रह्मतेजोभिः गायत्रीप्रभावैः ॥३९-४०॥ ततः पाण्डु- रेति । अत्र मधुसमुद्रानन्तरं सर्पिर्दधिसमुद्रयोः कुश- क्रौञ्चद्वीपयोञ्च वक्तव्यत्वेपि तान्विहाय क्षीरोदप्राप्त्य- भिधानं तदुभयप्राप्तिमन्तरेण क्षीरोदप्राप्तेरसंभवात् । अतः अनुक्तावपि तावुक्तावेव समुद्रौ द्वीपौ चेति बोध्यं । यद्वा लवणसमुद्रं तन्मध्यद्वीपांञ्चोक्त्वा लक्ष- द्वीपशाल्मलिद्वीपकुशद्वीप पा इक्षुसुरासर्पि- घिसमुद्रांश्च तत्रेण दर्शयति-त - ततः समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथेति ॥ ततः ऊर्मिमन्तमित्यादिना इक्षुसमुद्रस्य विशेषणमुक्त्वा ततो रक्तजलमित्यादिना सुरासमुद्रस्य स्वरूपमुक्त्वा ततः शाल्मलिद्वीपवृत्तान्तं प्रदर्श्य अन्यत्र विशेषाभावात् क्षीरसमुद्रगमनं निर्दि- शति - ततः पाण्डुरमेघाभमित्यादिना ॥ ऊर्मिभिर्मु- शि० सुभीमबहुनिष्कुटाः भयङ्करानेकावनप्रदेशयुक्ताः ॥३२॥ ति० समनुज्ञाताः समनुज्ञातच्छायाद्वारकग्रहणसामर्थ्या दिमन्तः । छायागृहीतप्रांणिभक्षणानुमतिकाश्च ॥ ३५ ॥ ति० सूर्यस्योदयनंप्रति । सूर्योदयंप्राप्योर्ध्वमुखाः सूर्येणयुध्यमानाः सूर्येणाभितप्ताः | तन्मण्डलब्रह्मतेजोभितप्ताः । ब्रह्मतेजोभिरहन्यहनित्रैवर्णिकप्रवर्तितैर्ब्रह्मविद्याते जोभिर्निहताः सन्तः सुरोदजलेपतन्ति । ततः पुन- रुज्जीवितालंबन्तेस्म । शैलशृङ्गेष्वितिशेषः ॥ कतक० शैलशृङ्गेषुलंबन्तइत्यादिश्लोकद्वयंप्रक्षिप्तं । “तानिरक्षांसिमन्देहारुणेद्वीपेप्रक्षि- पन्ति " इतिश्रुतावरुणद्वीपेतत्प्रक्षेपोक्तेरत्रारुणद्वीपप्रसक्त्यभावात्प्राचीन पुस्तकेष्वदर्शनाच ॥ ४० ॥ कतक० ततः पाण्डुरेति । . [ पा० ] १ छ. . ट. सुभीमबहु. २ ग. – ट. महारौद्रं ३ ग. कालमेघप्रतिनिभं ४ ग. अतिक्रम्य. घ. अधिगम्य. ५.क.. ड.ट. गला. ६ छ. झ. प्रेक्ष्यथ. ७ ग महतीं. ८ ख. रत्नोपशोभितं. ९ क. घोराः १० ङ. तेषुङ्गेषु ११ निहता ब्रह्मतेजोभिः. अभितप्ताश्चसूर्येण इत्यनयोरर्धयोः पौर्वापर्ये ग. ङ. – ट. पाठेषुदृश्यते. ग. रहिताः १२ ङ. ट. अभितप्ताः स्म १३ क. पाण्डरसंघातं. १४ इ.ट. गत्वा. क. ततो. वा. रा. १४०