सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । काममेषामिदं कार्यं विदितं मैम तत्वतः । तथापितु यथातत्वमाज्ञापयितुमर्हसि ॥ ८ ॥ ईति ब्रुवाणं सुग्रीवं रामो देशरथात्मजः || बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् ॥ ९ ॥ ज्ञायतां मैम वैदेही यदि जीवति वा न वा ॥ सच देशो महाप्राज्ञं यस्मिन्वसति रावणः ॥ १० ॥ अधिगम्य तु वैदेहीं निलयं रावणस्य च ॥ प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया ॥ १९ ॥ नाहमसिन्प्रभुः कार्ये वानरेश न लक्ष्मणः ॥ त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ १२ ॥ त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् || त्वं हि जानासि यत्कार्य मम वीर न संशयः ॥ १३ ॥ सुहृद्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् || भवानसद्धिते युक्तः सुकृतार्थोर्थवित्तमः ॥ १४ ॥ एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् || अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः ॥ शैलाभ मेघनिर्घोषमूर्जितं वगेश्वरः ॥ १५ ॥ सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम ॥ देशकालनयैर्युक्तः कार्याकार्यविनिश्रये ॥ १६ ॥ वृतः शतसहस्रेण वानराणां तरखिनाम् || अधिगच्छ दिशं पूर्वी सशैलवनकाननाम् ॥ १७ ॥ तंत्र सीतां च वैदेहीं निलयं रावणस्य च ॥ मार्गध्वं गिरिशृङ्गेषु वनेषु च नंदीषु च ॥ १८ ॥ नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ॥ कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् १९ सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ॥ महीं कालमहीं चैवं शैलकाननशोभिताम् ||२०|| ब्रह्ममालान्विदेहांच मालवान्काशिकोसलान् ॥ मागधांश्च महाग्रामान्पुण्ड्रान्वङ्गांस्तथैव च ॥ पैंत्तनं कोशकाराणां भूमिं च रजताकराम् ॥ २१ ॥ १५९ कालोचितं ॥ ७ ॥ एषां कार्य एभिः कर्तव्यं । मम | यद्भिर्भवद्भिः भागीरथ्यादिकं प्राप्य एतत् पूर्वोक्तं विदितं मया विदितं ॥ ८-१३ ॥ सुहृद्विनीत इति सर्वे | विचेतव्यमिति संबन्धः । अत्रेदमवधेयं । शरा- च पाठः ।। १४–१५ । कार्याकार्यविषये विनिश्चये |वती नाम काचिन्नदी हिमवद्विन्ध्यमध्यदेशे वलया- देशकालनयैः देशोचितनीतिभिः कालोचितनीतिभि- कारेण प्रवहति । तदपेक्षया प्राचीदिगिदानीं विचेयत्वे- श्वेत्यर्थः। देशकालानुगुणनयप्रवर्तनं कर्तव्यमित्यर्थः नोच्यते नतु किष्किन्धापेक्षया नापि मेर्वपेक्षयेति ॥ १६–१८ । नदीमित्यादि रजताकरामित्यन्त- यामुनं महागिरिं यमुनासंबन्धिनंपर्वतं । मह्यादयो मेकंवाक्यं । प्राप्येति शेषः । ततस्ततः सीतां मृग- देशविशेषाः । मागधान् मगधदेशान् । महाग्रामान् स० रावणनिवास उपलब्धश्वेत्तत्र किंकार्य किंरावणोहन्तव्यउतेहानेतव्य इत्यतआह-अधिगम्येति । अधिगम्य विज्ञाय | अनन्तरंतत्कालोचितंविधास्यामि ॥ ११ ॥ शि० यस्मिन्देशेरावणोवसतिसदेशः वैदेही जीवतिनवाइतिचय दिय स्मिन्क्रालेज्ञायतांत- स्मिन्कालेवैदेहीमभिगम्यरावणस्यनिलयंप्राप्तकालंविध्वंसाश्रयमित्यर्थः । श्लोकद्वयमेकान्वयि ॥ १०–११ ॥ ती० सुहृद्वितीयः लक्ष्मणापेक्षयाद्वितीयत्वं ॥ ननुमेरोः पूर्वदिगवस्थितोदयाचल पर्यन्त मन्वेष्टुंप्रेषितान्वानरान्प्रतिमेरोर्दक्षिणदिगवस्थितभागीरथ्या- दिनदी पर्वताद्यन्वेषण विधानंकथमुपपद्यतइतिचेत् हेमाचलविन्ध्यमध्यदेशवर्त्यार्यावर्तापेक्षयाप्राच्यादि विभागोविवक्षितः । नतुमे - र्वपेक्षया । स्वावस्थितमाल्यवदपेक्षयावेतिनदोषः ॥ १४ ॥ ति० विज्ञः त्वमितिशेषः ॥ १६ ॥ ति० निलयंरावणस्यनिलयंस्थानं | यद्वा चतुर्दिक्षुरावणवासस्थानमनेनसूचितं ॥ १८ ॥ ति० मार्गध्वमितिसामान्यतोनियोगः । विशेषेणाह – नदीमित्यादि द्वितीयान्तानांप्राप्येतिशेषः ॥ यामुनो गिरिःयमुनोत्पत्तिस्थानभूतः कालिन्दगिरिः ॥ १९ ॥ ति० महीकालमयौनद्यौ ॥ २० ॥ ति० कोशकाराणांभूमिं कौशेयकतन्तूत्पादकजन्तूत्पत्तिस्थानभूतांभूमिं । रजताकरां रजतखनिं ॥ २१ ॥ [ पा० ] १ च. श. ञ. काममेवमिदं. २ क. ख. घ. वीर. ३ क. ङ. – ट. यथायुक्तं. ४ क. ख. ङ. — ट. तथा. ५ ग. बुद्धिमतांवरः ६ क.ग. -ट. सौम्य. ७ ख. वीर. ८ ग. ङ–ट. वानरेन्द्र ९ ख. त्वमेव. १० छ. झ. मेकार्ये ११ ख. छ. प्राप्तकाल. १२ ग. सकृतार्थो. छ. झ. सुहृदाप्तो. १३ क. ङ. च. ज. मेघनिर्घोषंजीमूतं. १४ ख. छ. झ. ञ. ट. प्लवगेश्वरं. १५ छ. झ. ञ. ट. सूर्यनिभैः . १६ छ. झ. ट. विज्ञःकार्य. १७ ङ. च. ज. अ. ततः. १८ ख. च. – ट. दुर्गेषु. १९ ङ. नदेषुच. २० क. घ.—छ. झ. ञ, ट. चापि. २१ ङ. छ. झ.ज. ट. पुण्ड्रांस्त्वङ्गांस्तथैवच. ख. पुण्ड्रान्वङ्गाश्च सर्वशः २२ छ. झ.ट.भूमिंच,