पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३९] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । देरीमुखश्च बलवान्यूथपोभ्याययौ तदा ॥ वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ॥ २४ ॥ मैन्दश्च द्विविदश्वोभावश्विपुत्रौ महाबलौ | कोटिकोटिसहस्रेण वानराणामदृश्यताम् ॥ २५ ॥ गजश्च बलवान्वीरः कोटिभिस्तिसृभिर्वृतः ॥ आजगाम महातेजाः सुग्रीवस्य समीपतः ॥ २६ ॥ ऋक्षराजो महातेजा जाम्बवान्नाम नामतः ॥ कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः ॥ २७ ॥ मण्वान्नाम विक्रान्तो वानरो वानरेश्वरम् || आययौ बलवांस्तूर्ण कोटीशतसमावृतः ॥ २८ ॥ ततः कोटिसहस्राणां सहस्रेण शतेन च ॥ पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥ २९ ॥ ततः पद्मसहस्रेण वृतः शङ्कुशतेन च ॥ युवराजोङ्गद प्राप्तः पितृतुल्यपराक्रमः ॥ ३० ॥ ततस्तारातिस्तारो हरिर्भीमपराक्रमः || पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत ॥ ३१ ॥ ईन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत || एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ॥ ३२ ॥ ततो रैम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः ॥ अयुतेनावृतश्चैव सहस्रेण शतेन च ॥ ३३ ॥ ततो यूथपतिवींरो दुर्मुखो नाम वानरः ॥ प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ॥ ३४ ॥ १ कैलासशिखराकारैर्वानरैर्भीमविक्रमैः ॥ वृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत ॥ ३५ ॥ नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः ॥ कोटीशतेन संप्राप्तः सहस्रेण शतेन च ॥ ३६ ॥ तैंतो दैधिमुखः श्रीमान्कोटिभिर्दशभिर्वृतः ॥ संप्राप्तोभितस्तस्य सुग्रीवस्य महात्मनः ॥ ३७ शरभः कुमुदो वह्निर्वानरो रंह एव च ॥ एते चान्ये च बहवो वानराः कामरूपिणः ॥ ३८ ॥ आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च ॥ यूथपाः समनुप्राप्तास्तेषां संख्या न विद्यते ॥ ३९ ॥ अंगताच विशिष्टाच पृथिव्यां सर्ववानराः ॥ ४० ॥ 2 आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ॥ ४१ ॥ कुर्वाणा बेहुशब्दांच प्रहृष्टा बौहुशालिनः || शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥ ४२ ॥ १५७ २३ || सुप्रीवं समुपस्थितः प्राप्तः ॥ २४ ॥ अदृश्यतां | न्धः ॥ ३५ ॥ कोटिशतेनेत्याद्युपलक्षणे तृतीया अदृश्येतां ।। २५-२७ ॥ रुमण्वान्नाम विक्रान्तो ॥ ३६-३९ ॥ पृथिव्यां विशिष्टाच अप्राकृताः । वानरो वानरेश्वरमाययौ ॥ २८-३० ॥ ताराद्युतिः | देवयोनय इत्यर्थः । सर्ववानराश्च प्राकृतवानराश्च । नक्षत्रतुल्यप्रभः । तारः रुमायाः पितुरन्योयं ॥ ३१ आगता एव ॥ ४० ॥ आप्लवन्तः लङ्घयन्तः । अभ्र- —३४ ॥ कोटिसहस्रेणोपलक्षितैर्वानरैर्वृत इति संब- | गणा: मेघगणाः ॥ ४१ ॥ न्यवेदयन् आत्मानमिति शि० कोटिसहस्राणांवानराणां शतेनसहस्रेण लक्षेणेत्यर्थः । वृतः । पृष्ठतोनुगतः पश्चाञ्चलितः । किंच पृष्ठतोनुगताअनुचरा यस्यसगन्धमादनः प्राप्तः ॥ २९ ॥ शि० आठवन्तः वृक्षादीन्समुल्लङ्घयन्तः । लवन्तः शाखादीनुल्लङ्घयन्तः ॥ ३१ ॥ ति०. शिरोभिर्न्यवेदयन् बहुसंमर्दाद्दूरे स्थित्वानमस्कारेणैवात्मानंन्यवेदयन्नित्यर्थः । स० न्यवेदयन् स्वनामोत्कीर्तनपूर्व कंवरूपंनिवेदि- तवन्तः ॥ ३२ ॥ ति० धर्मज्ञः राजधर्मज्ञः ॥ ३३ ॥ ति० योबलज्ञः बलतत्वज्ञः । प्रतिपत्तुं कआगतः कोनागत इतिज्ञातुं । ईष्टे ईशोभवेत् । लिडर्थेलट् ॥ ३५ ॥ इत्येकोनचत्वारिंशः सर्गः ॥ ३९ ॥ [ पा० ] १ घ. दधीमुखश्च २ ङ. – ट. समवस्थितः ३ क. ग. ङ. ट. वीरस्तिसृभिः कोटिभिः, ४ ङ.ट. दशभि र्व्याप्ति: ५ छ. झ. ज. रुमणोनामतेजस्वी विक्रान्तैर्वानरैर्वृतः ङ. च. ज. रुमण्वान्नामतेजस्वी विक्रान्तैर्वानरैर्वृतः ट. रुमण्वान्ना- मतेजखी विक्रान्तोवानरेश्वरं. ६ घ. वानरेश्वरः ७ च. – ट. आगतोबलवान्. ८ ख. घ. समन्वितः ९ क. ङ. -ट. पितुस्तुल्य. १० क. ङ. — ट. हरिभिर्भीमविक्रमैः ११ ङ. झ ञ ट . पर्यदृश्यत १२ ङ. ज. ट. इन्द्रभानुः १३ ज. मीश्वरैस्तैः. ख. घ. मीश्वरस्तैः समावृतः १४ ग. रंभश्वसंप्राप्तः १५ ङ. च. ज. ज. संवृतः शैलवासिभिः १६ ग घ. तथा १७ छ. झ. दरीमुखः १८ ग. संप्राप्तोमातुलस्तस्य. छ. झ ट संप्राप्तोऽभिनदंस्तस्य क. ङ. च. ज. संप्राप्तोऽभिरतस्तस्य ञ संप्राप्तोहरि- भिस्तस्य. १९ ग. ङ. — ट. प्राप्तायेषां. २० क. ड. - ट. आगताश्चनिविष्टाश्च. घ. आंगताश्चावशिष्टाये. ग. आगता विनिविष्टाच, २१ क. बहुशःशब्दान्. २२ छ. झ. प्रकृष्टाबाहुशालिन: ट. प्रकृष्टबलशालिन: ख प्रहृष्टाबलशालिनः,