पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४. जहारात्मविनाशाय 'वैदेहीं राक्षसाघमः ॥ वञ्चयित्वा तु पौलोमीमनुहादो यथा शेचीम् ॥ ६ ॥ नॅचिरात्तं निष्यामि रावणं निशितैः शरैः ॥ पौलोम्याः पितरं दृतं शतऋतुविाहवे ॥ ७ ॥ एतस्मिन्नन्तरे चैवँ रजः समभिवर्तत ॥ उष्णां तीव्रां सहस्रांशो छायद्गगने प्रभाम् ॥ ८ ॥ दिशः पर्याकुलाश्चासत्रजसा तेन मूर्छता || चचाल च मही सर्वा सशैलवनकानना ॥ ९ ॥ ततो नगेन्द्रसंकाशैस्तीक्ष्णदर्महाबलेः ॥ कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवङ्गमैः ॥ १० ॥ निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः ॥ कोटीशैतपरीवारैः कामरूपिभिरावृता ॥ ११ ॥ नादेयैः पार्वतीयैश्च सामुद्रश्च महाबलैः ॥ हरिभिर्मेनिदैरन्यैश्च वैचारिभिः ॥ १२ ॥ तरुणादित्यवर्णैश्च शशिगौरव वानरैः ॥ पद्मकेसरवर्णैश्च श्वेतैरुकृतालयैः ॥ १३ ॥ कोटीसँह स्त्रैर्दशभिः श्रीमान्परिवृतस्तदा || वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत ॥ १४ ॥ ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिता || अनेकैदशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥ १५ ॥ तथापरेण कोटीनां सहस्रेण समन्वितः ॥ पिता रुमायाः संप्राप्तः सुग्रीव श्वशुरो विभुः ।। १६ ।। पद्मकेसर संकाशस्तरुणार्कनिभाननः ॥ बुद्धिमान्वानरश्रेष्ठः सर्ववानरसत्तमः ॥ १७ ॥ अनीकै हुसाहस्रैर्वानराणां समन्वितः ॥ पिता हनुमतः श्रीमान्केसरी प्रत्यदृश्यत ॥ १८ ॥

  • गोलालमहाराजो गवाक्षो भीमविक्रमः ॥ वृतः कोर्टिसहस्रेण वानराणामदृश्यत ॥ १९ ॥

ऋक्षाणां भीमवेगानां धूत्रः शत्रुनिबर्हणः ॥ वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥ २० ॥ मेहाचलनि भैर्घोरैः पनसो नाम यूथपः ॥ आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥ २१ ॥ नीलाञ्जन चयाकारो नीलो नौमाथ यूथपः ॥ अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥ २२ ॥ ततः काञ्चनशैलाभो गवयो नाम यूथपः ॥ आजगाम महावीर्य : कोटिभिः पञ्चभिर्वृतः ॥ २३ ॥ शोभनहृदयः ॥ २५ ॥ जहारेति इन्द्रेण ईप्सितां त्यनन्तरं ॥ १० ॥ ततः सेनासमुदायव्याप्त्यनन्तरं । पौलोमीं तत्पितुः पुलोमस्यानुमत्यानुहादो जहार । नादेयैः नदीतीरवनभवैः । पार्वतीयैः पर्वतोत्पन्नैः। इन्द्रस्त्वनुमन्तारं पुलोमं हत्वा तां पुनरानीयोदवहदिति पौराणिकी कथा ज्ञेया || ६-७ ॥ समभिवर्तत वनचारिमि: आवृतेति पूर्वेणान्वयः ॥ ११ - १४ ॥ समभ्यवर्तत । मूर्छता व्याप्नुवता ।। ८-९॥ अथं तारायाः पिता सुषेणः ||१५|| रुमायाः पिता तारः सेनासमुदायव्याप्तिमाह - इ-तत इति ॥ ततः रजोव्या- || १६–२० ॥ कोटिभिः कोटिसंख्याकैः ॥ २१ - ति० य आत्मविनाशाय मैथिलींजहार मारीचेनमांवञ्चयित्वा तंनचिरात् शीघ्रं | अरिहा इन्द्रइववधिष्यामि । पौलोम्याः पित- रमिवेत्यनेन रावणकृतोजानक्यतिकमाभावः सूचितः ॥ ६ ॥ स० शशिगौरैः चन्द्रवद्धवलैः । तस्यापिकलङ्कित्वात्तदपेक्षयाधा- वल्यंवक्तं॒श्वेतैरित्युक्तं ॥ ति० हेमा हेमाचलः ॥ १३ ॥ शि० महाबलनिभैः महाबलेनप्रकाशमानैः ॥ २१ ॥ रामानु० सु- ग्रीवंसमुपस्थित मितिपाठः || शि० दरीमुखोयूथपः सुग्रीवंसमुपस्थितःसन् अभ्याययौ ॥ २३ ॥ [ पा० ] १ ग. छ. झ. ट. मैथिलीं. २ च. ज. ज. दिवि. ३ ख. अचिरात्तं. ४ क. ख. ग. ङ. - ट. वधिष्यामि. ५ क, ग.—ज. ज. ट. रिवारिहा. ६ ग. भीमरजः ७ घ. - ञ. उष्णंतीनं. झ. उष्णतीत्रां. ८ छ. झ. ट. वासंस्तमसातेन. ९ ग. च. –झ. मूर्चिछताः. १० घ. वसुमती. ११ ङ. च. ज. ञ. शतवृतैश्चान्यैः ख. शतवृतैश्चैवप्रच्छन्नाकामरूपिभिः. १२ छ. झ. ट. वानरैर्हरियूथपैः . १३ क. ग. च. – ट. पार्वतेयैश्च १४ ग. मेघसंकाशैर्ऋक्षैश्च. घ. मेघसंकाशैरन्यैश्च १५ क. ख. ग. ङ. —ट. वनवासिभिः १६ छ. झ. ट. हेमकृतालयैः १७ ग. सहस्रैर्बहुभिः १८ ङ. - ट. अनेकैर्बहुसाहस्रैः. १९ ग. तथाशतेन. २० घ. श्वशुरःप्रभुः ख. श्वशुरोमहान् २१ ङ. च. ज. ञ. गोलाङ्गूलाधिपः श्रीमान्, ग. गोलाङ्गूलो महावीर्यः २२ ग. कोटिसहस्राणांशतेनसमदृश्यत. २३ ङ. छ. ट. महाबलनिभैः• २४ ग. महावीर्यः पञ्चभिः, २५ ङ. - ट. नामैषयूथुपः, ख. नामाथवीर्यवान्. २६ क. घ. पञ्चभिःकोटिभिः,