पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । शतैः शतसहस्रैश्च कोटिभिव प्लवङ्गमाः ॥ अयुतैश्यावृता वीराः शङ्कुभिश्च परन्तप ॥ ३१ ॥ अर्बुदै रर्बुदशतैर्मध्यैश्चान्तैश्च वानराः ॥ समुद्रश्च परार्धेश्च हॅरयो हरियूथपाः ॥ ३२ ॥ आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः ॥ मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः ॥ ३३ ॥ ते त्वाम भिगमिष्यन्ति राक्षसं ये सबान्धवम् ॥ निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम् ॥३४॥ तंतस्तमुद्योगमवेक्ष्य बुद्धिमान्हरिप्रवीरस्य निदेशवर्तिनः ॥ बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥ १५५ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ रामसुग्रीवयोर्मिथः सहर्षसंभाषमाणयोः सतोः शतबलिप्रमुखैर ने कैर्वानरसेनापतिभिः नानादेशनिवासिभिर्नानाजाति- संख्याबलवर्णविशिष्टैर्धरणीतलचालक निज चरणाभिघातसमुत्थितरेणुभिः सूर्यच्छायामाच्छादयद्भिः स्वस्वसैन्यैः सह रामसु- ग्रीवसमीपमेत्यचरणप्रणामः ॥ १ ॥ इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ॥ बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ १ ॥ यदिन्द्रो वर्षते वर्ष न तच्चित्रं भवेत्केचित् || आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ॥ २ ॥ चन्द्रमा 'रँश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् ॥ त्वद्विधो वाऽपि मित्राणां 'प्रतिकुर्यात्परंतप || ३ || एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् || जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥ ४ ॥ त्वत्सनाथः सखे संख्ये जेतासि सकलानरीन् || त्वमेव मे सुहन्मित्रं साहाय्यं कर्तुमर्हसि ॥ ५ ॥ शतैरित्यादि । अत्र केचित्पमध्याहर्तव्यं । केचित् | परार्धमाहुर्यथोत्तरं दशगुणं तथा ज्ञेयं || हरियूथपा प्लवङ्गमा: शतैः कपिशतैः । आवृता आगमिष्यन्ति । इत्येतत्प्रथमान्तविशेषणत्वेन सर्वत्र संबध्यते ॥ ३१ - केचिच्छतसहस्रैरावृता आगमिष्यन्ति । केचित्कोटि- ३४ || प्रबुद्धनीलोत्पलतुल्यदर्शन: विकसितनीलो- भिरावृता आगमिष्यन्ति केचिदयुतैरावृता आगमिष्य- | पलदर्शनीयवर्णः ॥ ३५ ॥ इति श्रीगोविन्दराजविर- न्ति । केचिच्छङ्कभिः । केचिदर्बुदैः । केचिन्मध्यैः । चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि- केचिदन्तैरावृता आगमिष्यन्ति । केचिद्धरयः |न्धाकाण्डव्याख्याने अष्टत्रिंशः सर्गः ॥ ३८ ॥ समुद्रैरावृता आगमिष्यन्ति । केचित्परार्वैरावृता आगमिष्यन्तीति योजना । संख्यालक्षणमुक्तं ज्योतिः- अथ सर्ववानरसेनासमागम एकोनचत्वारिंशे- शास्त्रे — “ एकं दशशतमस्मात्सहस्रमयुतं ततः परं | इति ब्रुवाणमित्यादि ॥ १ ॥ त्वद्विधः त्वादृशः सत्पु- लक्षम् | प्रयुतं कोटिमथार्बुदवृन्दे खर्व निखर्व च ॥ रुषः । मित्राणां प्रतिकुर्यात् प्रत्युपकारं कुर्यात् । न तस्मान्महासरोजं शङ्कु सरितांपतिं त्वन्तम् । मध्यं | तच्चित्रमिति संबन्धः । शोभनं प्रत्युपकाररूपं | सुहृत् ती० शतसहस्रंलक्षं । शतलक्षंकोटिः । अयुतं दशसहस्रं । कोटिलक्षं शङ्कः । शङ्कसह अस्माद्दशगुणोन्तः । अस्माद्विंशतिगुणः समुद्रः । अस्मात्रिंशद्भुणः परार्धः ॥ ३१ ॥ ३२ ॥ इत्यष्टत्रिंशः सर्गः ॥ ३८ ॥ [ पा० ] १ छ. झ. ट. वर्तन्तेकोटिभिस्तथा २ क अर्बुदैर्न्यर्बुदशतैः ३ छ. झ. समुद्राश्चपरार्धाच ४ ग. हरिभिर्हरि. क. येचान्येहरि. ५ ङ. -ट. मेघपर्वतसंकाशामेरुविन्ध्यकृतालयाः ६ ग. ज. लामनु. ७ छ. झ. राक्षसंयोद्धुमाहवे. ८ छ. झ. ट. युद्धे. ९ क. – ट, ततस्समुद्योगं. १० च. – ट. वीर्यवान्. ११ ङ च ज नीलोत्पलदर्शनस्तदा १२ ङ. ―ट. भविष्यति. क. ग. भवेद्भुवि. १३ ङ. छ. झ. ट. रजनीकुर्यात्प्रभयासौम्य. १४ क. ग. छ. झ ट प्रीतिंकुर्यात् १५ क. एतत्त्वयि १६.ग. निर्मलं. १७ त्वमेवमेइत्यर्धस्थाने क. पाठे. त्वंमेभ्रातासखाचत्वंप्रियः सौम्यसुहञ्चमे । त्वमेसुग्रीववैदेयाः साहाय्यं कर्तु- मर्हसि । इत्येकःश्लोकोदृश्यते. अर्बुदाद्दशगुणंमध्यं ।