पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसन्निभम् || बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ॥ १२ ॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि | शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः ॥ १३ ॥ शङ्खभेरीनिनादैश्च हेरिभिश्चाभिनन्दितः ॥ निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ॥ १४ ॥ स वानरंशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः ॥ परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥ १५ ॥ स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् || अवातरन्महातेजा : शिबिकाया: सलक्ष्मणः ॥ १६ ॥ आसाद्य च ततो रामं कृताञ्जलिपुटोभवत् ॥ कृताञ्जलौ स्थिते तस्मिन्वानराश्राभवंस्तथा ॥ १७ ॥ तटाकमिव तैदृष्ट्वा रामः कुमलपङ्कजम् ॥ वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥ १८ ॥ पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ॥ प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ॥ १९ ॥ परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥ तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ॥ २० ॥ धर्ममर्थं च कामं च यस्तु काले निषेवते ॥ विभज्य सततं वीर स राजा हरिसत्तम ॥ २१ ॥ हित्वा धर्म तैथार्थ च कामं यस्तु निषेवते ॥ स वृक्षाग्रे यथा सुप्तः _पंतितः प्रतिबुध्यते ॥ २२ ॥ अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः || त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥ २३ ॥ उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन || संचिन्त्यतां हि पिङ्गेश हरिभिः सह मत्रिभिः ॥ २४ ॥ एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ २५ ॥ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ॥ त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया || तव देव प्रसादाच आतुश्च जयतां वर ॥ २६ ॥ कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥ २७ ॥ एते वानरमुख्याच शतशः शत्रुसूदन ॥ प्राप्ताश्रादाय बलिनः पृथिव्यां सर्ववानरान् ॥ २८ ॥ अक्षाश्रावहिताः शूरा गोलाला राघव ॥ कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ २९ ॥ देवगन्धर्व पुत्राश्च वानराः कामरूपिणः ॥ स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥ ३० ॥ — हरिभिः वाहकहरिभिः ॥ १२ – १६ ।। तथाऽभवन् | तुशब्द: । धर्मेण राजधर्मेण ॥ २३ – २५ ॥ प्रनष्टे- कृताञ्जलिपुटा अभवन् ।। १७–१८ ॥ पूर्व दूराद- त्यादिसार्धश्लोकमेकं वाक्यं । देव त्वत्प्रसादात्तवभ्रातुः जलिः कृतः संप्रति समीपे पादयोः पतनं ॥ १९- २२ ॥ त्रिवर्गफलभोक्ता यथाकालं धर्मार्थकामरूप- प्रसादाञ्च कपिराज्यादिकं पुनश्च प्राप्तं ॥ २६ – २७ ॥ अयथाकालानुष्ठानवैषम्यं द्योतयति | आदाय आहूय ॥ २८-३० ॥ - फलभोक्ता स० एत आगच्छत । इत्युच्चैः समुदाहरत् । लक्ष्मणसंवादकालेदूरस्थत्वादितिभावः ॥ ति० एहि एतेत्यर्थः ॥ ति० स्त्रीदर्श - नक्षमाः स्त्रीसमूहेपिराजदर्शनक्षमाः । अत्याप्ताइतियावत् ॥ स० स्त्रीदर्शनक्षमाइत्यनेन तारादिविसर्जनंनैतद्दर्शनाभावार्थे किंतुरामं प्रतिगमनार्थमेवेतिसूचयति ॥ स० राज्यश्रियंप्राप्यनिर्ययौ । अनेन नपूर्ववचतुर्भिर्जगामेतिसूचयति ॥ १४ ॥ ति० वानरा- श्चतथाभवन् कृताञ्जलिपुटाअभवन्नित्यर्थः ॥ १७ ॥ ति० आहादकत्वात्तटाकोपमा । तदुपमेयं वानराणांमहत्सैन्यं ॥ स० कुट्मलपङ्कजं कुट्मलात्मकानिपङ्कजानिय स्मिंस्तादृशतटाकमिवस्थितंतत्सैन्यं दृष्ट्वासुग्रीवेप्रीतिमानभूत् । निश्शब्दत्वात्तटाकसाम्यो- क्तिः | संपुटाकारत्वात्कुट्मलपङ्कजमित्युक्तिः ॥ १८ ॥ ति० वृक्षाग्रेसुप्तः पतितः सन्यथाप्रतिबुध्यते तथाकामपरोराज्यभ्रष्टः सन्प्रतिबुध्यतइत्यर्थः ॥ २२ ॥ शि० कृतमुपकारंयोनप्रतिकुर्यात् सपुरुषाणांमहात्मनांदूषकः महात्मविघातदोषंलभतइत्यर्थः ॥ ति० पुरुषाणांमध्येस एवदूषकः धर्मनाशकइत्यर्थः ॥ २७ ॥ [ पा० ] १ ङ. – ट, बहुभिः. ग. महद्भिः २ घ ङ. - ट बन्दिभिवाभि ३ घ. शतैर्भमैः ४ ग. आसाद्यतु. ५ ग घ. ङ. छ. – ट. तंदृष्ट्वा च संदृष्ट्वा ६ ङ. ज. - ट. निषण्णंतं. ७ ङ. च. ज.ट. रामोऽब्रवीत्ततः. ग. रामस्ततोऽब्रवीत्. ८ क॰ ग. ङ. च. ज॰—ट. कालेयस्तु. ९ ख. ततोर्थंच. १० क. पतन्नप्रतिबुध्यते. ११ ग. झ. ट. भोक्ताच. १२ ङ.—ट. शत्रुनिषूदन. ख. शत्रुनिबर्हण १३ छ. झ. ट. पुरुषाणांहि १४ ग. छ. झ. ट. ऋक्षाश्चवानराः ख. ऋक्षाचवानराघोराः ङ. च. ज. ज. ऋक्षाश्चप्रहिताः क. घ. ऋक्षाचावाहिताः.