सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३ सर्गः ३८ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । तानि मूलानि दिव्यानि फलानि च फलाशनाः ॥ औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥३१॥ तैसाच्च यज्ञायतनात्पुष्पाणि सुरभीणि च ॥ आनिन्युर्वैनरा गत्वा सुग्रीवप्रियकारणात् ॥ ३२ ॥ ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् || संचोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ॥ ३३ ॥ ते तु तेन मुहूर्तेन यूँथपाः शीघ्रगामिनः || किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥ ३४ ॥ ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः ॥ तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ ३५ ॥ सर्वे पेरिगताः शैलाः समुद्राश्च वनानि च ॥ पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ ३६ ॥ एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ॥ प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम् ॥ ३७॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥ ३८ ॥ अष्टत्रिंशः सर्गः ॥ ३८ ॥ सुप्रीवेण सौमित्रिणासहशिबिकारोहणेन रामसमीपमेत्यतत्पादयोःप्रणामः ॥ १ ॥ रामेणपरिष्वङ्ग पूर्वस्वाज्ञयासमुपवि- टंसुग्रीवंप्रति संग्रहेणराजनीतिप्रदर्शन पूर्वक मुद्योगसमयसंप्राप्तिनिवेदनेन स्वकार्योद्यमनचोदना ॥ २ ॥ सुग्रीवेणश्रीरामंप्रति स्व विषयकतत्प्रसादप्रशंसनपूर्वक स्वोद्यमसूचकनानादेशसमागतासंख्येयकपिसेनासमागमननिवेदनेन तत्परितोषणम् ॥ ३ ॥ प्रतिगृह्य च तत्सर्वमुपायनसुपाहृतम् || वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ १॥ विसर्जयित्वा स हरीशूरांस्तान्कृतकर्मणः ॥ मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ २ ॥ स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् || अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संग्रहर्षयन् || किष्किन्धाया विनिष्काम यदि ते सौम्य रोचते ॥ ३ ॥ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥ सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ॥ ४ ॥ एवं भवतु गॅच्छावः स्थेयं त्वच्छासने मया ॥ ५॥ तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् ॥ विसर्जयामास तदा तौरामन्याश्च योषितः ॥ ६ ॥ ऍतेत्युच्चैर्हरिवरान्सुग्रीवः समुदाहरत् ॥ ७ ॥ तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ॥ बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः ॥ ८ ॥ तानुवाच ततः प्राप्तान्राजार्कसदृशप्रभः ॥ उपस्थापयत क्षिप्रं शिविकां मम वानराः ॥ ९ ॥ श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ॥ समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ॥ १० ॥ तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः || लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ॥ ११ ॥ प्रसिद्धं ॥ २७–३७॥ इति श्रीगोविन्दराजविरचिते अथ रामेण सुग्रीवसमागमोष्टत्रिंशे– प्रतिगृह्ये- श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका - त्यादि ॥ उपायनं उपदां ॥ १-६ ।। एत आगच्छत ण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥ ।। ७-११ ।। - ति० विनिष्कामेति । प्रार्थनेलोट् ॥ ३ ॥ [ पा०] १ ग. ददृशुः २ झ. हरिपुङ्गवा: ३ ग. तस्मात्सु. ४ ग. र्वानरश्रेष्ठाः ५ क. - ट. त्वरितं. क. ङ. श्र. ज. अ. त्वरितंयूथपाः. ग. त्वरितमागच्छन्नग्रतस्तदा ६ च तेनतेनमुहूर्तेन. ७ ङ. च. झ ञ ट . कपयः शीघ्रचारिणः. ८ घ, ङ. छ. ट. फलमूलंच. ग. फलमूलानि ९ ङ. - ट. परिहृताः १० ज. परितश्चवनानिच. ङ. च. छ. झ ञ ट . सरितश्चवनानिच. ११ क. तच्छ्रुत्वातुततो. ख. एतच्छ्रुत्वावचोहृष्टः ञ. पूर्वश्रुत्वा १२ ग. घ. छ. झ ट जग्राहचप्रीतः क. च. ज. ब. जग्रा हसुप्रीतः १३ घ. किष्किन्धातोऽभि. १४ ग. ड–ज. ट. विनिष्कामो. १५ ङ. - ट. गच्छामः १६ ङ. छ. झ ञ ट ताराद्याश्चैव. १७ छ. झ. ट. एहीत्युच्चैः १८ ग घ. हरिवरः सुग्रीवः १९ घ. येच. २० घ. शीघ्रंसौमित्रिमिदमब्रवीत्. वा. रा. १३९