पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् [ किष्किन्धाकाण्डम् ४ अहोभिर्दशभिर्ये' हि नागच्छन्ति ममाज्ञया || हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ १२ ॥ शतान्यथ सहस्राणां कोट्यश्च मम शासनात् ॥ प्रयान्तु कपिसिंहानां दिशो मैम मते स्थिताः ॥१३॥ मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् || घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ १४ ॥ ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः || आनयन्तु हरीन्सर्वास्त्वरिताः शासनान्मम ॥ १५ ॥ तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ॥ दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान् ॥ १६ ॥ ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः ॥ प्रयाताः प्रहिता राज्ञा हेरयस्तत्क्षणेन वै ॥ १७ ॥ ते समुद्रेषु गिरिषु वनेषु च सरस्सु च ॥ वानरा वानरान्सर्वात्रामहेतोरचोदयन् ॥ १८ ॥ मृत्युकालोपमस्याज्ञां राजराजस्य वानराः || सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ १९ ॥ ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः ॥ तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥ २० ॥ अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे स्थिताः ॥ तप्तहेममहाभासस्तस्मात्कोट्यो दश च्युताः ॥ २१ ॥ कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् || ततः कोटिसहस्राणि वानराणामुपागमन् ॥ २२ ॥ फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ॥ तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ २३ ॥ अँङ्गारकसमानानां भीमानां भीमकर्मणाम् || विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम् ॥ २४ ॥ क्षीरोदवेलानिलयास्तमालवनवासिनः || नारिकेलाशनाश्चैव तेषां संख्या न विद्यते ॥ २५ ॥ वनेभ्यो गहरेभ्यश्च सरियश्च महाजवाः ॥ आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥ २६ ॥ ये तु त्वरयितुं याता वानराः सर्ववानरान् || ते वीरा हिमँवच्छेलं दहशुस्तं महाद्रुमम् ॥ २७ ॥ तसिन्गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा ॥ सर्वदेवैमनस्तोषो बभौ दिव्यो मनोमः ॥ २८ ॥ अन्ननिष्यन्दजातानि मूलानि च फलानि च ॥ अमृतास्वादकल्पानि दहशुस्तत्र वानराः ॥ २९ ॥ तदन्नसंभवं दिव्यं फैलं मूलं मनोहरम् ॥ यः कश्चित्सकृदश्वाति मासं भवति तर्पितः ॥ ३० ॥ १५२ शतानीति बहुसंख्याभिधानं लक्ष्मणाय वानरासंख्ये- | ततः तस्माद्धेतोः । तस्मागिरेः अञ्जनगिरेः । निर्ययुः यत्वद्योतनाथ ॥१२ - १४ || गम्यत इति गतिः वास- | ॥ २० - २४ ॥ अत्रापतन् द्रुतमित्यनुषज्यते । संख्या स्थानं । पृथिव्यां सर्वान्हरीन् आनयन्तु इति संबन्धः न विद्यतइति उत्तरत्र संख्याकीर्तनं प्रधानाभिप्रायेण ।। १५–१६ ॥ पतत्रिज्योतिरध्वगाः पक्षिनक्षत्रमा- ॥ २५ – २६ || तुशब्दो हनुमत्प्रेरितवानरव्यावर्तकः । र्गगाः सन्तः । विष्णुविक्रान्तं पदं आकाशं । प्रयाताः नीलेन पूर्व प्रेरिता इत्यर्थः । तेषामेव लक्ष्मणसन्निधाने ॥ १७–१९ ॥ यत्र येन हेतुनाराघवो वर्तते समागमनं । सद्यो हनुमत्प्रेरितानां तदसंभवात् । तं स्वभावतो विलंबेन कार्यकारिणः । तान्शीघ्रमिहानय ॥ ११ ॥ रामानु० आनेतृबहुसंख्याभिधानमानेतव्या नामसंख्यातत्वंल- क्ष्मणायद्योतयितुं ॥ १३ ॥ शि० गतिज्ञाः तत्तत्स्थानाभिज्ञाः । गतिं तत्तन्निवासं । गत्ला । गतिशब्दः कर्मसाधनः ॥ १५ ॥ ति० मृत्युकालोपमस्य निग्रहविषयेइतिशेषः ॥ १९ ॥ कतक० माहेश्वरोयज्ञः महेश्वरदेवत्यः | दिव्योश्वमेधः । सर्वदेवानांमन- स्तोषोयत्रसः ॥ २८ ॥ ती० अन्ननिष्यन्दजातानि होमद्रव्याज्यादिस्रवणाज्जातानि । तत्र यज्ञायतने ॥ २९ ॥ इतिसप्तत्रिंशः सर्गः ॥ ३७ ॥ ^ [ पा० ] १ क. ख. ग. ङ. –ट. र्येच. २ छ. ज. झ. ट. सहस्राणि ३ छ. झ. ट. निदेशेममयेस्थिताः ४ ग. ङ. च. ज. ञ. ज्ञावा. ५ छ. झ.ट. हरयस्तुक्षणेनवै. ६ घ. कपिराजस्य. ७ घ. सुग्रीवस्यवचः श्रुत्वा ८ डट. भयशंकिताः. ९ ङ. ट. न्महाबलाः १० क. ग. छ. ट. रताः ११ ङ. -ट. संतप्तहेमवर्णाभाः १२ ङ. - ट. वानराणांसमागमन्. १३ ङ. च. जं. ञ. अङ्गारसमवर्णानां ख. अङ्गारनिकराभाणां. १४ क. ग. ङ. च. ज. सहस्राण्यापतन्. १५ घ. शक्यते १६ क. ग. वानराश्चमहौजसः. ङ. – ट. सरिद्रयश्चमहाबलाः १७ छ ज झ ट . हिमवच्छेले. १८ क. ङ. च. छ. झ ञ ट. पुण्ये. १९ क. सर्वदेवप्रियकरो. २० ङ. -ट. बभूवसुमनोरमः २१ क. ग. डट. अमृतवादुकल्पानि २२ क. छ. झ. ट. फलमूलं.