पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः ३७.]८.. श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सप्तत्रिंशः सर्गः ॥ ३७ ॥ सुग्रीवेण हनुमन्तंप्रति सकल दिगन्तपर्यन्तावस्थितसर्ववानरनिकरसमानयनाय दूतप्रेषणचोदना ॥ १ ॥ तैस्तैर्वानरैः सुग्रीवसंदेशश्रवणमात्रेण सत्वरं स्व स्वस्थानेभ्यः सुग्रीवसमीपंप्रत्यागमनम् ॥ २ ॥ पूर्वमेवनीलप्रेषितदूतैः सुग्रीवंप्रति नाना- फलमूलाधुपायनसमर्पणपूर्वकं सर्ववानरागमन निवेदनम् ॥ ३ ॥ १५१ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना || हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ॥ १ ॥ महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ॥ मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ २ ॥ तरुणादित्यवर्णेषु आजमानेषु सर्वतः || पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ॥ ३ ॥ आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे ॥ पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ॥ ४ ॥ अञ्जनाम्बुदसंकाशा: कुँअरप्रतिमौजसः ॥ अञ्जने पर्वते चैव ये वैसन्ति प्लवङ्गमाः ॥ ५ ॥ मनःशिलागुहावासा वानराः कनकप्रभाः || मेरुपार्श्वगंताश्चैव ये धूम्रगिरिसंश्रिताः ॥ ६॥ तरुणादित्यवर्णाश्च पर्वते च महारुणे | पिबन्तो मधु मैरेयं भीमवेगा: प्लवङ्गमाः ॥ ७ ॥ वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ॥ तापसानां च रम्येषु वनान्तेषु समन्ततः ॥ ८ ॥ तांस्तान्समानय क्षिप्रं पृथिव्यां सर्ववानरान् || सामदानादिभिः कैल्पैराशु प्रेषय वानरान् ॥ ९ ॥ प्रेषिताः प्रथमं ये च मया दूँता महाजवाः ॥ त्वरणार्थं तु भूय॒स्त्वं हरीन्संप्रेषैयापरान् ॥ १० ॥ ये प्रसक्ताच कामेषु दीर्घसूत्राश्च वानराः || इहानयस्व तान्सर्वा शीघ्रं तु मम शासनात् ॥ ११ ॥ क्यानां रामोक्तत्वशङ्का मा भूदिति स्वेनैवोक्तत्वमुपपाद- | अस्तगिरिपर्यन्तपर्वतेष्वित्यर्थ: । आदित्यभवने उद- यन् स्वापराधं शमयति- यश्चेति ॥ भाषितं सीतोद्देशेन यगिरौ । पद्माः चन्दनविशेषाः मनःशिलागुहावासा: श्रवणासह्यं विलापं ।। २० ।। इति श्रीगोविन्दराजवि- मनःशिलामयगुहावासाः | महारुणे महारुणाख्ये । रचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि | यत्र यच्छब्दो नास्ति तत्राध्याहर्तव्यः । कल्पैः उपा- न्धाकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ ३६ ॥ यैः । समानय तदर्थं प्रेषय ॥ २९ ॥ प्रेषितदूत- अथ सर्ववानरसमानयनं सप्तत्रिंशे – एवमित्यादि | त्वरणार्थोक्तिः स्वस्य प्रकृतकार्ये पूर्वमेव सावधानतां ॥ १ ॥ महेन्द्रादय एव पञ्चशैलाः । पश्चिमायां लक्ष्मणाय द्योतयितुं || १० || दीर्घसूत्राः चिरक्रियाः दिशि ये स्थिताः तेषु ये वानराः स्थिताइतियोजना । उद्योगं कुर्वाणा इव कालयापका इत्यर्थः ॥ ११ ॥ क्रोधमवेक्ष्यतदनुरूपाणिवाक्यान्युक्तानीतिसोपाधिकत्वमुपपाद्यसोपाधिकखापराध निवृत्त ये सुमित्रात्मजस्सुग्रीवं प्रसादयन्सापराधेषु श्रीवैष्णवेषुपश्चात्तापेनकृतप्रायश्चित्तेष्वपराधान्निवृत्तेषुच सत्सु सापराधत्वदशायांखाचरितानामपचाराणांव्युदासार्थतेप्रसादनीया इतिशास्त्रार्थप्रकटनकृतवानितिभावः ॥ २० ॥ इतिषत्रिंशः सर्गः ॥ ३६ ॥ स० पाण्डुशिखरेमन्दरे | इतिपञ्चशैलेषु ॥ २ ॥ ति० पश्चिमस्यामित्या ॥ ३ ॥ ती० आदित्योस्मिन्भवतिप्रादुर्भवतीत्या- दिव्यभवनमुदयाद्रिः ॥ ति० आदित्यभवनेगिरौ उदयाचलास्ताचलयोरित्यर्थः ॥ पद्माचलोगिरि विशेषः ॥ ४ ॥ ति० तापसा- श्रमरम्येषु रम्यतापसाश्रमेषु । यद्वा तैरम्येष्वितिवनविशेषणं ॥ ८ ॥ ति० क्षिप्रमानयेत्युत्तेकिंमयैवगन्तव्यमित्याशङ्कयाह- सामदानादिभिरिति । आदिना दुष्टेदण्डः | कल्यैः उपायैः ॥ कतक० आनय आनाययेत्यर्थः ॥ ९ ॥ शि० दीर्घसूत्राः [ पा० ] १ ङ. ट.. वचनंचेदमब्रवीत्. क. ख. सचिवंवाक्यमब्रवीत्. २ ङ. – ट. नित्यशः. क. ग. घ. सर्वशः ३ ग.घ. पश्चिमस्यांच. क. ड. —ट. पश्चिमस्यांतु. ४ ङ. च. छ. झ. न. ट. पद्माचलवनं. ५ घ. येश्रिताः ६ छ. झ. ट. कुञ्जरेन्द्र महौ- जसः ७ ग. येचसन्ति ८ क. ङ. ट. महाशैलगुहा. ९ घ. काञ्चनप्रभाः १० क. गतायेच. ११ क. ग. ङ. च. ज. ट. येचधूम्रगिरिंश्रिताः. छ. येचधूम्रगिरिस्थिताः १२ क. ङ.. - ट. येमहारुणे. १३ ङ. - ट. तापसाश्रमरम्येषु. झ. ट. तांस्तांस्त्वमानय. १५ ङ. छ. ञ. ट. कल्पैर्वानरैर्वेगवत्तरैः . ग. कल्पैराशुप्रेरय. १६ ङ. छ. झ. ट. ज्ञाताः १७ छ. झ ट. संप्रेषयहरीश्वरान्. ख. ङ. च. ज. न. हरीन्प्रेषयचापरान्. १८ छ. झ. द. ताशीघ्रंसर्वानेवकपीश्वरान्. १९ ग. लंगम. १४ क. ग. छ.