पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.१५० 'श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः ॥ शैलच वसुधा चैव बाणेनैकेन दारिताः ॥ ८ ॥ धनुर्विस्फारयाणस्य यस्य शब्देन लक्ष्मण ॥ सशैला कम्पिता भूमि: सहायैस्तस्य किंनु वै ॥ ९ ॥ अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ | गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम् ॥ १० ॥ यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा ॥ प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ ११ ॥ इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह ॥ १२ ॥ सर्वथा हि मम भ्राता सनाथो वानरेश्वर ॥ त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ।। १३ ।। यस्ते प्रभावः सुग्रीव यच्च ते शौचमार्जवम् || अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ १४ ॥ सहायेन च सुग्रीव त्वया रामः प्रतापवान् ॥ वधिष्यति रणे शत्रून चिरान्नात्र संशयः ॥ १५ ॥ धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः ॥ उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥ १६ ॥ दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति ॥ वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ १७ ॥ · सदृशश्वासि रामस्य विक्रमेण बलेन च ॥ सहायो दैवतैर्दत्तश्विराय हरिपुङ्गव ॥ १८ ॥ किं तु शीघ्रमितो वीर निष्काम त्वं मया सह ॥ सान्त्वय स्वैवयस्यं त्वं भार्याहरणकर्शितम् ॥ १९ ॥ यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् || मया त्वं परुषाण्युक्तस्तंच त्वं क्षन्तुमर्हसि ॥२०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥ लक्षणे तृतीया । स्वयमेवार्थसाधकः । अहंतु तस्यप- | अर्ह | युक्तं युक्तियुक्तं ॥ १६ ॥ दोषज्ञः स्वदोषज्ञः । “रिकरमात्रमितिभावः ।। ७-१० ।। अतिक्रान्तं अति लोके हि समर्थः पुरुषः स्वदोषमपह्नुते नतुप्रकाशयति । क्रमणं । क्षमितव्यं क्षन्तव्यं ।। ११ - १५ ।। उपपन्नं न तथात्वमिति भावः ।। १७-१९॥ स्वोक्तपरुषवा- ति० सहायकृत्यं सहायसाध्यंकृत्यं । चेन पातालानितत्स्थ दैत्याश्च ॥ ८ ॥ तनि० इदंकृतापराधस्येतिपूर्वोपदिष्टार्थस्यानुष्ठानं । किंचिदिति । अधिकातिक्रमणस्यप्रसाद नेनानिवर्त्यत्वं । यदीति स्वल्पस्याप्य संभावनाचयोयते | विश्वासादिति बुद्धिपूर्वापराघव्या- वृत्तिः । प्रणयेनेति अतिक्रमस्याभासत्वात् । प्रेष्यस्येति बुद्धिपूर्वक वास्तवापराधेपिक्षन्तव्यमितिव्यजितं । क्षमितव्यमित्युक्त्या अक्ष- मणेप्रत्यवायोपिव्यञ्जितः । नकश्चिन्नापराध्यतीति विश्वासप्रणयपात्रभूतस्य स्वल्पापराघवेअयमपराधः सर्वत्रवर्जनीयइतिभावः । शि० प्रणयेन मृत्यविषयकस्वाभाविक स्नेहेन । क्षमितव्यं । कश्चिन्नापराध्यतीतिन । सर्वोपियत्किंचिदपराध्यतीत्यर्थः । तेना- पराधंदृष्ट्वा तवक्षमायाअभावेतवभृत्यस्नेहोनिर्विषयोभविष्यतीतिव्यजितं ॥ ११ ॥ शि० प्रश्रितेन स्नेहधुक्तेन । अतएवनाथेन अभिलाषप्रापकेणत्वयाममभ्राता सर्वथासनाथ: अभिलाषप्रापकसहितोऽभवदितिशेषः ॥ १३ ॥ तिं० शौचं इन्द्रियनिग्रहः । स० शौचं शुद्धान्तःकरणता ॥ १४ ॥ ती० दोषज्ञः विद्वान् | “ विद्वान्विपश्चिद्दोषज्ञः " इत्यमरः ॥ १७ ॥ तनि० शोका- भिभूतस्येत्यनेन रामःस्वभावतःपरुषभाषणंनवक्तीतिव्यज्यते । “ उच्यमानोपिपरुषंनोत्तरंप्रतिपद्यते इतिप्रसिद्धेरितिभावः । "" रामस्यभाषणंवा मयात्वमुक्तइत्यनेन उक्तानुवादस्यादोषत्वंव्यजितं । तच्चेति । सूचनस्यापि यद्भवेदित्यनुवादिताप्रयुक्त- मित्यर्थः ॥ अत्रेद॑वेदितव्यं । कार्याभिसन्धिसद्भावेजाग्रतिस्वामिनः श्रीरामस्यसंनिधिंप्रतिगन्तव्यत्वरांविस्मृत्यभोगप्रसंगसंगेनान्यपर त्वात्समयातिलङ्घनापराधंकृतवति महाराजे लक्ष्मणक्रोधवेगंनिरीक्ष्य मित्रश्रेष्ठेनहनुमता " कृतापराधस्यहितेनान्यंपश्याम्यहंक्षमम् । अन्तरेणाञ्जलिंबवालक्ष्मणस्यप्रसादनात् " इतिमहाराजाय हितोपदेशेकृतेसति महाराजोपिबुध्वा “ यदिकिंचिदतिक्रान्तं विश्वासा- प्रणयेनवा | प्रेष्यस्यक्ष मितव्यं मेनकश्चिन्नापराध्यति " इतिकथनेनभगवद्विषयेकृतापराधेनापि भागवतक्षमापणेकृतेसतितन्मुखेन भगवानपराधान्क्षमयते । ततोभगवदपचाररहितस्सन् तत्कैंकर्ययोग्योभवतीत्येन मर्थेविशदीचकार । तदनन्तरं " यच्चशोकाभि- भूतस्यक्रोधाद्रामस्यभाषितम् । मयावंपरुषाण्युक्तस्तच्चत्वंक्षन्तुमर्हसि " इतिलक्ष्मणस्तावदात्मीयपरुषवाक्यानांशोकविवशराम- [ पा० ] १ ङ.~-ट. गिरिव २ ङ. - ट. सहायैः किंनुतस्य ३ क. यात्रांतुरामस्य ४ क. ङ. छ. झ. ट. चेदमुवाचह. च. ज. ल. चैनमुवाचह. ५ ङ. छ. झ. ट. शौचमीदृशं. क. ग. घ. ज. ञ. शौचमुत्तमं च. शौर्यमुत्तमं. ६ ङ. छ. ट. सहायेन. ७ घ. सदृशश्चापि ८ छ. झ. ट. रामेण ९ ख. निष्कमख १० क्र. ख. ग. च. – ट. खवयस्यंच. ११क. ग. ङ. -ट. हरणदुःखितं. १२ ङ. ट. स्तत्क्षमस्वस खेमम.