पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

^१४८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ स हि प्राप्तं न जानीते कालं कालविवरः || विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥ ८ ॥ • देहधर्म गतस्यास्य परिश्रान्तस्य लक्ष्मण || अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ॥ ९ ॥ नच रोवतात गन्तुमर्हसि लक्ष्मण || निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥ १० ॥ ' सेवयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ || अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ ११ ॥ ' प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ॥ महान्रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ॥ १२ ॥ रुमां मां कपिराज्यं च धनधान्यवसूनि च ॥ रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ १३ ॥ समानेष्यति सुग्रीवः सीतया सह राघवम् || शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ॥ १४ ॥ शतकोटिसहस्राणि लङ्कायां किल राक्षसाः ॥ अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ १५॥ अहत्वा तांश्च दुर्धर्षात्राक्षसान्कामरूपिणः ॥ नैं शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ १६ ॥ ते नै शक्या रणे हन्तुमसहायेन लक्ष्मण | रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ १७ ॥ एवमाख्यातवान्वाली से ह्यभिज्ञो हरीश्वरः ॥ आगमस्तु न मे व्यक्तः श्र्वात्तस्माद्रवीम्यहम् ॥ १८ ॥ त्वत्सहार्येनिमित्तं वै प्रेषिता हरिपुङ्गवाः ॥ आनेतुं वानरान्युद्धे सुबहून्हरियूथपान् ॥ १९ ॥ 'तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान् || राघवस्यार्थसिद्ध्यर्थं नै निर्याति हरीश्वरः ॥ २० ॥ दश वर्षाणि अहोऽमन्यत दिनममन्यत । घृताचीशब्दे- | घटयिष्यति । निहत्वेत्यत्रल्यबभाव आर्षः ॥ १४- नात्र मेनकैवोच्यते । मेनकासङ्गस्य बालकाण्डेमिधा- १६ ॥ ते न शक्या इति च्छेदः । ते राक्षसाः । नात् ॥ ७–८ ॥ देहधर्म गतस्य शरीरस्वभावं हन्तुं न शक्या: । रावणो विशेषेणासहायेन सुग्रीवेण प्राप्तस्य | कामं कामवर्तनं ॥ ९ ॥ अपराधमङ्गीकृत्य हन्तुं न शक्यः ॥ १७ ॥ तर्हि रावणवृत्तान्तः

सान्त्वयित्वा इदानीं विचार्यमाणे अपराधएव नास्ती- सर्वोप्याख्यायतामित्यंत्राह - एवमिति ॥ आगमः

· त्याह – नचेति ॥ निश्चयार्थं निश्चयरूपमर्थं सुप्रीवा- स्वयमवगमः । श्रवात् श्रवणात् । अत्र सुग्रीवेण भिप्रायमिति यावत् ॥ १० – ११ || संरम्भः अभि- युद्धाय निर्गमकाले तारयाङ्गदोक्तरामसुग्रीवसख्यकर- • निवेशः ॥ १२ ॥ धनधान्येत्यत्र धनशब्दो हस्तिरथा- | णेभिहिते एतादृशो रावणः सुग्रीवो दुर्बलः तं कथं रामो- वादिपरः । वसुशब्दो रत्नपरः ॥ १३ ॥ समानेष्यति । वलम्बत इति वालिनोक्तमिति ज्ञेयं ॥ १८-२० ।। संबन्धउक्तः । तथाप्येतद्वचनात् घृताची संबन्धोपितस्यज्ञेयइत्याहुः ॥ ७ ॥ ति० देहधर्मा: आहारनिद्रामैथुनानि । पशुधर्मइति पाठेप्ययमेवार्थः ॥ ९ ॥ ति० कथमयंरावणंह निष्यतीत्यत्रतत्साहाय्य कसाध्यत्वात्तद्वधस्येत्याह- शतेति । एषासंख्याविवक्षितैव दशकोटि:समुद्रः शतकोटिर्मध्यं । मध्यानांसहस्रं तथाषष्टिसहस्राधिकत्रिलक्षाणि । तदुपरिषट्त्रिंशत्सहस्राणि । तदुपरितावन्ति शतानीत्यर्थः ॥ १५ ॥ शि० कामरूपिणइत्यनेन लङ्कायामुक्तसंख्याकराक्षसस्थित्यसंभवाभावः सूचितः ॥ तेनकार्यवशादेवत- च्छरीराणांमहत्त्वमितिव्यक्तं ॥ १६ ॥ ति० तावतांवधेपरमशूरस्यापिसहायापेक्षास्तीत्याह – तेइति । यस्मादसहायेनरामेण ते हन्तुमशक्याः यस्माद्रावणश्चक्रूरकर्मा क्रूरपराक्रमः | तस्माद्विशेषतः सुग्रीवेणसहायेनप्रयोजनमस्ति । तत्समप्रतिसेनाघटनस्यसुग्री- वाधीनत्वात्सर्वेषां मनुष्यावध्यत्वाच्चेतिभावः । यत्तुतीर्थ : सुग्रीवेणसहायेनतेराक्षसाहन्तुमशक्याः रावणश्चहन्तुमशक्यइत्यन्वयंकृत्वा वालीकिलोक्तवान्रावणवधाय सुग्रीवंवृथाप्रार्थयतेरामः तस्यासावशक्यइतिकथांचकल्पयति तदपार्थकं । रामस्यसहायापेक्षासमर्थन- स्यैवप्रस्तुतत्वात् ॥ १७ ॥ ति० नन्वेषारक्षस्संख्यात्वया कथंज्ञातात त्राह — एवमिति । आगमस्तुनमेव्यक्तः रावणस्यैवंबलप्राप्ति- प्रकारस्तु नमयाज्ञातः । संख्यामात्रं प्रसंगात्पूर्वश्रुतं । तस्यश्रवणात्तन्मुखतोवाक्यश्रवणात् ॥ १८ ॥ [ पा० १ ख. ग. ङ. झ. ट. देहधर्मगतस्य क. पशुधर्मगतस्य. २ क, ख. ङ. ~ ज. रामःक्षन्तुमिहार्हति ३ ख. रोषवशात्तात. ४ क. लोकयात्रामविज्ञाय ५ क. सत्वयुक्ताच. ङ. च. ज. ज. सत्ववन्तोहि ६ ड – ट. सुग्रीवार्थ. ७ छ. श. ट. मांचाङ्गदराज्यं. ८ छ. झ. ट. हत्वातंराक्षसाघमं. क. ङ. च. ज. ज. हत्वातंरावणं. ग. हत्वारावणमाहवे. ९ ख. ट. रक्षसां. १० क. -घ. नशक्यंरावणं. चट. अशक्यंशवणं. ङ. अशक्योरावणो ११ ङ. च. ज. नशक्यो १२ ङ. सवभिज्ञः. १३ क..ख. श्रवणात्तद्रवीम्यहं. ङ. च. ज. ज. श्रवणात्तुब्रवीम्यहं. ग. छ. झ.ट. श्रवात्तस्यब्रवीम्यहं. १४ च.~~ट. निमित्त॑हि. १५ क. ङ. – ट. हरिपुङ्गवान्. १६ ग, तांस्तु. १७ क. सिद्ध्यर्थनौदासीन्यंगतोहरिः.