सर्गः ३५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १४७ ननु नाम कृतार्थेन त्वया रामस्य वानर || सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥ १४ ॥ से त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः ॥ न त्वां रामो विजानीते सर्प मण्डूकराविणम् ॥१५॥ महाभागेन रामेण पापः करुणवेदिना ॥ हरीणां प्राषितो राज्यं त्वं दुरात्मा महात्मना ॥ १६ ॥ कृतं चेन्नाभिजानीषे रामस्याष्टिकर्मणः || सद्यस्त्वं निशितैर्वाणैर्हतो द्रक्ष्यसि वालिनम् ।। १७ ।। न च संकुचितः पन्था येन वाली हतो गतः || समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ १८ ॥ न नूनमिक्ष्वाकुवरस्य कार्मुकच्युताञ्शरान्पश्यसि वज्रसन्निभान् || ततः सुखं नाम निषेवसे सुखी न रामकार्य मनसाऽप्यवेक्षसे ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ पञ्चत्रिंशः सर्गः ॥ ३५ ॥ तारया सुग्रीवायक्रुध्यतो लक्ष्मणस्य हेतुत्तयापुनःसान्त्वनम् ॥ १ ॥ तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा || अब्रवीलक्ष्मणं तारा ताराधिपनिभानना ॥ १ ॥ नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ॥ हरीणामीश्वरः श्रोतुं तव वऋाद्विशेषतः ॥ २ ॥ नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ॥ नैवानृतकथो वीर न जिह्मश्च कँपीश्वरः ॥ ३ ॥ - उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ॥ रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥ ४ ॥ • रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् ॥ प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ॥ १५ ॥ सुदुःखं शयितः पूर्व प्राप्येदं सुखमुत्तमम् || प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ ६ ॥ घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण || अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥७॥ ।। १२–१३ ।। कृतमिच्छता उपकारंस्मरता ||१४|| | न्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्या- मण्डूकराविणं मण्डूकग्रहणार्थ मण्डूकवद्रौति तमिव ने किष्किन्धाकाण्डव्याख्याने चतुत्रिंशः सर्गः ॥३४॥ वञ्चकं त्वां न जानातीत्यर्थः ॥ १५ - १८ ॥ राम- सन्दिष्टं वाक्यमभिधाय प्रकृतकार्योचितं स्ववाक्य- अथ पुनस्तारया लक्ष्मणसान्त्वनं पञ्चत्रिंशे-तथा माह - न नूनमिति || इक्ष्वाकुवरस्य कार्मुकच्युतान् ब्रुवाणमित्यादि ॥ १ ॥ वक्तव्यः परुषमितिशेषः बाणान् वज्रसन्निभान् न पश्यसि नाद्राक्षीः । नूनं ततो ॥ २ ॥ जिह्नः कुटिलः || ३ || विस्मृत इति कर्तरि नाम तस्मात्खलु । सुखं निषेवसे सुखी सन् रामकार्य निष्ठा । अन्यैर्दुष्करं तं उपकारं न विस्मृत इति मनसापि नावेक्षस इति योजना ॥१९॥ इति श्रीगोवि- | योजना ॥ ४–६ ॥ विश्वामित्रो घृताच्यामासक्तो ति० मण्डूकराविणं स्वगृहीत स्वमुखस्थमण्डूकशब्देनशब्दवन्तंसर्प यथाजनोऽनवलोकनान्मण्डूकमेवजानीतेनतुसर्प तथातव स्वरूपं रामोनाज्ञासीदितिभावः । कश्चित्तु मण्डूकग्रहणार्थंसपमण्डूकवद्रौति । तेनस्वरेणखगणइतिविस्रब्धः खसमीपमागतो - मण्डूकस्तेनगृह्यते । एवंवश्च कंत्वांनाज्ञासीदित्यर्थइत्याह । तत्तुतथालोकाप्रसिद्ध्योपेक्ष्यं ॥ १५ ॥ शि० किंच समये सम्यक्शुभाव- हकार्येतिष्ठ कुर्वित्यर्थः ॥ १८ ॥ इतिचतुस्त्रिंशः सर्गः ॥ ३४ ॥ • स० कृतमुपकारंजानातीतिकृतज्ञः सनभवतीत्यकृतज्ञः । तादृशोनैव । शठः गूढद्वेषी | अनृतकथः मृषावादी | जिह्यः . कुटिलः ॥ ३ ॥ स० यत् यस्मात् । अन्यैर्दुष्करंरामेणकृतं उपकारमुद्दिश्य यंवीरः सुग्रीवः । विस्मृतः भावेक्तः । विगत॑स्मृतं • यस्यसतथा । विस्मरणवानितियावत् । नापि नैवभवतीत्यर्थः । अतोपिनकृतघ्नइत्यर्थः ॥ ४ ॥ ति० यद्यपि पूर्वबालकाण्डेमेनका- [[पा० ] १ ज यस्त्वं. २ ङ. च. ज. कृतंत्वनाभि झ. कृतंचेन्नाति ३ डट. राघवस्यमहात्मनः ४ घ ङ. च. ज. अ. कार्मुकाच्युतान्. क. ग..ट. कार्मुकाच्छरांश्युतान्. झ. कार्मुकाच्छरांश्चतान्. ५ क. काकुत्स्थं. ६ ज. मैवं. ७ क. हरीश्वरः ८ क. कृतंपूर्वे. ९ ख प्रसादात्सौमित्रे. १० ङ. छ. - ञ. सुदुःखशयितः ११ क. ङ च ज ञ मुनिर्यथा.
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५१
दिखावट