सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः ॥ ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्र: सुविशालनेत्रम् ।। ६६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ १४६ [ किष्किन्धाकाण्डम् ४ - चतुस्त्रिंशः सर्गः ॥ ३४ ॥ लक्ष्मणेनसुग्रीवंप्रति रामप्रत्युपकारानुद्यम हेतुनाकृतघ्नताप्रतिपादनपूर्वकं तदकरणे रामबाणेन तस्वचालिमार्गानुसरणो- क्तिः ॥ १ ॥ तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् || सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ॥ १ ॥ क्रुद्धं निश्श्वसमानं तं प्रदीप्तमिव तेजसा || भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् ॥ २ ॥ उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ॥ महान्महेन्द्रस्य यथा स्खलंकृत इव ध्वजः ॥ ३ ॥ उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः || सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव ॥ ४॥ संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः | बभ्रुवावस्थितस्तत्र कल्पवृक्षो महानिव ।। ५ ।। रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् || अब्रवीलक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥ ६ ॥ सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः ॥ कृतज्ञः सत्यवादी च राजा लोके महीयते ।। ७ ।। यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् || मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥ ८ ॥ शतमश्वानृते हन्ति सहस्रं तु गवानृते ॥ आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते ॥ ९ ॥ पूर्व कृतार्थो मित्राणां न तत्प्रतिकरोति यः ॥ कृतघ्नः सर्वभूतानां स वध्यः प्लवेगश्वर ॥ १० ॥ गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः ॥ दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवङ्गम ॥ ११ ॥ ब्रह्मने च सुरापे च चोरे भगवते तथा ॥ निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १२ ॥ अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर || पूर्व कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ १३ ॥ रक्ताक्षश्च ।। ६२ – ६६ ॥ इति श्रीगोविन्दराजविर- अश्वानृते अश्वविषयानृते । शतं हन्ति शताश्वहनन- चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि- दोषभाग्भवेदित्यर्थः । एवं गवानृते गोविषयानृते । न्धाकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ सहस्रं हन्ति सहस्रगोहननदोषभाग्भवेत् । पुरुषा नृते आत्मानं स्वजनं हन्ति । आत्मस्वजनहननदोष- भाग्भवेदित्यर्थः । महापुरुषरामविषयानृते तु सर्वह- ननदोषभाग्भवेदिति भावः ॥ ९ ॥ तत् मित्रकार्यं अथ सुग्रीवं प्रति रामसंदेशकथनं चतुर्खिशे— तमप्रतिहतमित्यादि ॥ १ ॥ महेन्द्रस्य ध्वज इव उत्पपात । स्वलंकृत इत्युभयविशेषणं ॥२ – ३ ॥ अनूत्पेतुः पश्चादुत्पेतुः ॥ ४ ॥ संरक्तनयनः मदेनेति- न प्रतिकरोति पुनर्न करोति ।। १० ।। ब्रह्मणा स्वा- शेषः ।। ५–७ ।। अधर्म इति च्छेदः ॥ ८ ॥ पुरुष: यंभुवमनुना ॥ ११ ॥ निष्कृतिः प्रायश्चित्तं रामानु० महेन्द्रस्यध्वजोयथास्खलङ्कृतः तथास्खलङ्कृतःहरिश्रेष्ठः सौवर्णमासनंहित्वा महाध्वजइवोत्पपातेतिसंबन्धः ॥ ३ ॥ ति० संचचार संमुखमाजगाम | अवस्थितोबभूवेत्यस्य लक्ष्मणइतिशेषः । कल्पवृक्षोपमयासर्वहितत्वंव्यङ्ग्यं ॥ ५ ॥ ति० प्र- थममात्मानंहन्ति आत्मघातदोषभाकू । निजंपुण्यलोकं नाशयतिवा । तथाखजनस्यपित्रादेः पुण्यलोकंचनाशयति ॥ ९ ॥ ति० ब्रह्मणा हिरण्यगर्भेण । अयं लोकः पूर्वोक्तः । सर्वलोकनमस्कृतः ब्रह्मवदेवसर्वस्मर्तृसंमतइत्यर्थः ॥ ११ ॥ [ पा० ] १ क. ङ. ज.–ट. सविशाल २ ङ. ञ. उत्पतन्तंसमुत्पेतुः ३ क. घ. -ट. पूर्ण. ख. तूर्णं. ४ ङ. –ट, श्रीमान्संचचार. ख. श्रीमान्मदलोल: ५ ग. घ. सहसंच ६ क. ग. - द. गोघ्नेचैवसुरापे. ७ छ. झ ञ, चौरे.