पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३३ ] - श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । न कामतत्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः ॥ न देशकालौ हि ने चार्थधर्मावपेक्षते कामरतिर्मनुष्यः ॥ ५५ ॥ तं कामवृत्तं मम सन्निकृष्टं कामाभियोगाच्च निवृत्तलज्जम् ॥ क्षमस्व तावत्परवीरहन्तस्त्वछ्रातरं वानरवंशनाथम् ॥ ५६ ॥ महर्षयो धर्मतपोभिकामाः कामानुकामाः प्रतिबद्धमोहाः ॥ अयं प्रकृत्या चपलः कपिस्तु कथं न संज्जेत सुखेषु राजा ॥ ५७ ॥ इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम् ।। पुनः सखेलं मदविह्वलं च भर्तुर्हितं वाक्यमिदं बभाषे ।। ५८ ।। उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम || कामस्यापि विधेयेन तवार्थप्रतिसाधने ॥ ५९ ॥ आगता हि महावीर्या हरयः कामरूपिणः ॥ कोटीशतसहस्राणि नानानगनिवासिनः ।। ६० ।। तँदागच्छ महाबाहो चारित्रं रक्षितं त्वया || अच्छलं मित्रभावेन सतां दारावलोकनम् ॥ ६१ ॥ तारया चाभ्यनुज्ञातस्त्वरया चापि चोदितः ॥ प्रविवेश महाबाहुरभ्यन्तरमरिन्दमः ।। ६२ ।। ततः सुग्रीवमासीनं काञ्चने परमासने || महार्हास्तरणोपेते ददर्शादित्यसन्निभम् || ६३ ॥ दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् || दिव्यमाल्याम्बरधरं महेन्द्र मिव दुर्जयम् || ६४ । दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् ॥ संरैव्धतररक्ताक्षो बभ्रुवान्तकसन्निभः ।। ६५ ।। १४५ सुग्रीवं यस्मिन् जने कामेन असक्तं अनवरतं अवबद्धं | कामवशा: किमुत पृथग्जन इत्याह - महर्षय इति ॥ जानामि । तं च स्त्रीजनं जानामीतियोजना ॥ ५४॥ धर्मतपसी अभिकामयन्त इति धर्मतपोभिकामाः । लक्ष्मणसंरम्भोपशमनाय स्वप्रागल्भ्येन लोकस्थितिं कामस्याभिलाषस्य अनु पञ्चात् कामो येषां ते कामा- दर्शयति – न कामतत्रे इत्यादिना || त्वं यथा येन नुकामाः । प्रतिबद्धमोहाः नियतस्त्रीव्यामोहाः ॥५७|| कारणेनं । मन्युवशं प्रपन्नः तेन कारणेन | कामत | सखेलं सलीलं ॥ ५८–६० चारित्रं रक्षितं त्वया रतिक्रीडादौ । तव बुद्धिर्नास्ति | कामतन्त्राभिज्ञश्चेत्ता अन्तःपुररूयवलोकनमनुचितमिति बहिरेव तिष्ठता दृशं न द्विष्या इति भावः । किं कामतन्त्रप्रवणः त्वया सदाचारः सम्यगनुष्ठित इत्यर्थः । शरणागतर- किमपि न जानातीत्यत्राह- इ-न देशकालाविति ॥५५॥ क्षणाचारस्त्वया सम्यगनुष्ठित इति वा । अच्छलं. मम सन्निकृष्टं समीपस्थं । अतएव कामवृत्तं काम- अदोषावहं || ६१॥ तारयेत्यादिश्लोकचतुष्टयमेकं वाक्यं । व्यापारमिति क्रमेण योजना ॥ ५६ ।। महर्षयोपि समावृतं परिवृतं । संरब्धतरः कुपिततरः । अतएव 1 यस्मिञ्जने अवबद्धंजानामीति स्त्रीजनंजानामीतिवायोजना ॥ ५४ ॥ ति० ममसंनिकृष्टं स्वभार्यायाममसमीपेकामवशाद्वर्तमानं । कामाभियोगः कामावेशः । क्षमखेति । परवशप्रवृत्तापराघत्वात्स्वभ्रातृत्वाञ्चक्षमैवात्रयोग्यानतुकोपइत्याशयः ॥ स० कामवृत्तं स्वेच्छाचारिणं । अतएवममसंनिकृष्टं मच्छय्यासक्तं । वातरं सखित्वात् । एतादृशंसुग्रीवमुद्दिश्यक्षमस्व ॥५६॥ ति० काम- वशत्वंनास्यैवेत्याह—महर्षय इति । कामे कामभोगे अनुकामोऽभिलाषोयेषांते । अतएवस्त्रीषुप्रतिबद्धमोहाः । कपिः तत्रापिराजा ॥ ५६ ॥ ति० चारित्रंरक्षितंझटित्यन्तः पुरगमनेन । अच्छलं छलमधर्मः । सनेत्यर्थः । मित्रभावेननतुविकारेण ॥ शिo यतः चारित्रं सखाप्रबोधनीयइतिमर्यादा । त्वयारक्षितं । तत् तस्मात् । आगच्छ अन्तः प्रविश । ननुतत्प्रवेशेअनुचितपरस्त्रीदर्शनंभ- विष्यतीत्यतआह— मित्रभावेनदारावलोकनं सतां अच्छलं नाधर्मः ॥ ६१ ॥ ती० प्रमदाभिः समं इतिच्छेदः । प्रमदाभि- स्सम॑सु॒ग्रीवंददर्श । ततः संरब्धतररक्ताक्षोबभूवेतिसंबन्धः || ६५ ॥ इतित्रयस्त्रिंशः सर्गः ॥ ३३ ॥ [ पा० ] १ ङ. च. छ. झ ञ ट . यथार्थधर्माववेक्षते. २ क. ख. ङ. -ट. विमुक्तलज्जं. ३ छ. झ. य. तपोभिरामाः ४ छ. झ. ट. सखेदंमद विहलाक्षी. न. सखेलंमदविहलाक्षी ५ घ. महावीर्याः कपयः ६ घ. अथागच्छ. ७ ख. महेन्द्रवरुणो- पमं. ग. महेन्द्रसदृशद्युतिं. ८ ग. झ. ट. मालाभिः ९ क. घ. ङ. छ. - ट. समंततः १० ग. तंदृष्ाक्रोधताम्राक्षः बा. रा. १३८