पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ धर्मलोपो महांस्तावत्कृते ह्यप्रतिकुर्वतः ॥ अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥ ४७ ॥ मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् ॥ तद्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम् ॥ ४८ ॥ तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम् || यत्कार्यं कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि ॥ ४९ ॥ सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरैस्वभावम् ॥ तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः ॥ ५० ॥ न कोपकालः क्षितिपालपुत्र नै चातिकोपः स्वजने विधेयः ॥ त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोदुम् ॥ ५१ ॥ कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे ॥ कस्त्वद्विधः कोपवशं हि गच्छेत्सत्त्वावरुद्धस्तपसः प्रसूतिः ॥ ५२ ॥ जानामि रोषं हरिवीरबन्धोर्जानामि कार्यस्य च कालसङ्गम् ॥ जानामि कार्ये त्वयि यत्कृतं नस्तच्चापि जानामि यदत्र कार्यम् ॥ ५३ ॥ तच्चापि जानामि यथाऽविषह्यं बलं नरश्रेष्ठ शरीरजस्य ॥ जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य ॥ ५४ ॥ 66 ।। ४६ ।। कृते उपकारविषये | अप्रतिकुर्वतः महान् | कामार्तत्वादितिभावः । त्वदर्थकामस्य । त्वत्प्रयो- धर्मलोपो भवेत् । प्रत्युपकाराकरणाद्गुणवतो मित्रस्य | जनपरस्य | जनस्य सुग्रीवस्य ॥ ५१ ॥ गुणप्र- नाशे सति महानर्थलोपोभवेत् । चकारात्कामलोपञ्च कृष्टः उत्कृष्टवीर्यगुणः । अपकृष्टसत्त्वे हीनबले । ||४७।। उक्तमर्थमुपपादयति — मित्रं हीति | सत्यधर्म - सत्त्वावरुद्धः व्यवसाययुक्तः । द्रव्यासुव्यवसायेषु रायणं अर्थगुणश्रेष्ठं हि । अत्र गुणशब्दः सत्त्वमस्त्री तु जन्तुषु " इत्यमरः । तपसः शान्तिरू- कामवाची । अर्थकामयोर्मूलत्वान्मित्रं ताभ्यां श्रेष्ठं पस्य | प्रसूति: उत्पत्तिस्थानं ॥ ५२ ॥ मद्रोषमेव हि । तादृशं मित्रं त्यजता सुग्रीवेण तहूयं अर्थकाम- जानासि नतु तद्धेतूनित्यत्राह – जानामीति ॥ हरिवी- द्वयं । परित्यक्तं तु परित्यक्तमेव । धर्मेतुनव्यवस्थितं । रबन्धोः रामस्य । रोषं जानामि रोषममोघस्वरूपं धर्मोपि परित्यक्तइत्यर्थः ॥ ४८ ॥ तत् तस्मात् | जानामीत्यर्थः । कार्यस्य च कालसङ्गं उद्योगरूपका- कार्यतत्त्वज्ञे कार्ये धर्मार्थकामविलोपहेतुभूते मित्र- र्यस्य कालविलम्बनं च जानामि । जानामि कार्य परित्यागलक्षणे कार्ये । एवं प्रस्तुते सति यदुत्तरं यत्कृतं नः । यत् वालिवधरूपं कार्य । नः अस्माकं कार्यमस्माभिः कार्य कर्तव्यं । तत् उदाहर्तुं वक्तुं कृतं त्वयि विद्यमानं तदपि जानामि । यदत्र कार्य अर्हसि ॥ ४९ ॥ धर्मार्थयोः समाधिना संबन्धेन अस्मिन्नुपकारे अस्माभिर्यत्सीतान्वेषणादिकं कर्तव्यं युक्तं । गतार्थे प्रयोजनयुक्ते । नरेन्द्रकार्ये विषये तच्चापि जानामि ॥ ५३ ॥ हे नरश्रेष्ठ शरीरजस्य विश्वासयुक्तं ॥ ५० ॥ न कोपकाल: सुप्रीवस्य | कामस्य बलं यथा अविषह्यं तच्चापिजानामि । अद्य राज्यस्थैर्यार्थ । सामान्यापरिषत्यस्यतादृशः । भूत्वेतिशेषः ॥ ४४ ॥ शि० अर्थगुणैः अर्थसाधनीभूतवात्सल्यादिभिःश्रेष्ठं सर्वो- त्कृष्टं । सत्यधर्मपरायणं सत्यस्यधर्माणांवेदविहितकर्मणांच परायणं परमाश्रयः । तत्तत्फलादिदातेत्यर्थः । तत् मित्रं वद्भत्रप- रित्यक्तं । अतएवधर्मे नैवव्यवस्थितं । सनातनोधर्मस्त्यक्तइत्यर्थः । तत् तस्माद्धेतोः । द्वयं उभयलोकसुखंपरित्यक्तं । परित्यक्त- मित्युभयान्वयि ॥ ४८ ॥ ति० धर्मार्थसमाधियुक्तं तत्संबन्धयुक्तं | अगतार्थे भ्रष्टप्रयोजने। मनुजेन्द्र कार्ये तद्विषये । विश्वा- सयुक्तंयथातथा भूयः पुनः | उवाच ॥ ५० ॥ ति० अपकृष्टसत्वे हीने । सत्त्वावरुद्धः सहजसत्त्वगुणावरुद्ध विपरीतव्यापारः । सत्त्वाविरुद्धइतिपाठे सहजगुणाविरुद्धव्यापारः । अतएव तपसः प्रसूतिः ॥ ती० सत्त्वावरुद्धः रजस्तमसोरन नुप्रवेशाय सत्त्वगुणेन निरुद्धः ॥ शि० सत्त्वावरुद्धः विशुद्धसत्त्वमयः । अतएवतपसोविचारस्यप्रसूतिः ॥ ५२ ॥ ती० कामेन असक्तं सुग्रीवं । अद्य [पा० ] १ क. कृत्येष्वप्रति. २ क. श. ट. तत्कार्ये ३ ङ. ञ. मधुरस्वभावा. ४ क. कृतार्था. ङ. – ज. ञ. ट. गतार्था. ५ क. घ. -झ. ट. नचापि ६ ख. ग. ङ. च. छ. झ ञ ट. कोपं. ७ ङ. छ. ज. जनेऽवरुद्धं.