पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४१ हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् ॥ सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥ ५ ॥ देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः ॥ दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः ॥ ६ ॥ चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् ॥ मैरेयाणां मधूनां च संमोदितमहापथाम् || [ विन्ध्यमेरुगिरिप्रख्यैः प्रासादैर्नैकभूमिभिः ॥ ७ ॥] ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ॥ ८ ॥ अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च || गवयस्य गवाक्षस्य गैजस्य शरभस्य च ॥ ९ ॥ विद्युन्मालेच संपाते: सूर्याक्षस्य हनूमतः || वीरवाहो: सुबाहोश्च नैलस्य च महात्मनः ॥ १० ॥ कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा || दधिवक्रस्य नीलस्य सुपाटलसुनेत्रयोः ॥ ११ ॥ एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् ॥ ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥ १२ ॥ पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च ॥ प्रभूतधनधान्यानि स्त्रीरत्तैः शोभितानि च ॥ १३ ॥ पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम् || वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् ॥ १४ ॥ शुलैः प्रासादशिखरैः कैलासशिखरोपमैः ॥ सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम् ।। १५ ।। महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमृतसन्निभैः ॥ दिव्य पुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः ॥ १६ ॥ हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः ॥ दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ।। १७ ।। सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः ॥ अवार्यमाणः सौमित्रिर्महाश्रमिव भास्करः ॥ १८ ॥ सप्त कक्ष्या धर्मात्मा नानाजनसमाकुलाः ॥ प्रविश्य सुमहद्भुतं ददर्शान्तःपुरं महत् ॥ १९ ॥ हैमराजतपर्य हुभिश्च वरासनैः ॥ महार्हास्तरणोपेतैस्तत्रतंत्रोपशोभितम् ॥ २० ॥ प्रविशन्नेव स ततं शुश्राव मधुरस्खैरम् || तन्त्रीगीतसमाकीर्ण समगीतपदाक्षरम् ॥ २१ ॥

गृहाः । पद्मानां आलेपविशेषाणां । गिरिनद्यः गिरि- | तिरम्यपदद्वयनिर्वाहः । यद्वा वानरेन्द्रगृहं वानरेन्द्र- नदीः । व्यत्ययेन द्वितीया ॥४–११॥ महासाराणि यो: ऋक्षरजोवालिनोः गृहभूतं । इदानीं सुत्रीवस्य अतिदृढानि ॥ १२ - १३ | पाण्डुरेण सालेन गृहं प्रविवेशेतिसंबन्धः ॥ १४ – २० । सः लक्ष्म- सुधाधवलितप्राकारेण । दिव्यपुष्पफलैर्वृक्षैरित्यनेन णः । ततं वीणादिवाद्यजातं | मधुरस्खरं मधुरश्रुतियु- इन्द्रदत्ता:स्वर्गीयावृक्षा उच्यन्ते । पूर्वमुक्तावृक्षा भौमा इत्यवगन्तव्यं। पूर्व वानरेन्द्रगृहं रम्यमित्युक्त- क्तं । तन्त्रीशब्देन तन्त्रीध्वनिर्लक्ष्यते । तद्रूपैर्गीतैः स्यानेकविशेषणव्यवधानेन सुप्रीवस्यगृहंरम्यमिति समाकीर्ण । समगीतपदाक्षरं समतया तत्रीगीतस- पुनर्निर्गमनं | स्वरूपतोरम्यं उक्तविशेषणैश्च रम्यमि- | मतया गीतानि कण्ठैर्गीतानि पदान्यक्षराणि स० सुरभिश्चासौगन्धश्चयेषांतेषां | मधूनां पुष्परसानां । “मधुः पुष्परसः" इतिविश्वः ॥ ७ ॥ ति० पाण्डुरेणशैलेनप- रिक्षिप्तं स्फटिकशिलामयवप्रेणवेष्टितं ॥१४॥ शि० सर्वेकामाः मनोरथायेभ्यस्तानिफलानियेषांतैः । किंच सर्वान्कामान्फलन्ति निष्पादयन्ति तैर्वृक्षैश्च ॥ १५ ॥ शि० यानासनसमावृताः यानैः विमानादिभिः । आसनैः चित्रकंबलाद्यास्तरणविशिष्टपर्य ङ्कादिभिः । किंच यानानांविमानादीनांआसनानि चित्रकंबलादीनितैः समावृताः पूर्णाः । सप्तकक्ष्याः द्वारः प्रविश्य सुमहगुप्तं वानरैरत्यन्तंसंरक्षितं । अन्तःपुरं धर्मात्मालक्ष्मणोददर्श ॥ १९ ॥ ७ ग. छ. झ. ट. गन्धमाल्य. [ पा० ] १ ङ. ल. नानारत्नोपशोभितां. २ क. रतिशोभितां. ३ छ ज झ ट गन्धितां. ४ इदम क. घ. ङ. - न. पाठेषुदृश्यते ५. ङ. शरभस्यगजस्यच. ६ च. ज. बलस्यच. ग. नलस्यपनसस्यच. ८ क. ग.ट. शैलेन. ९ ङ. च. ञ. सर्वकालफलैः १० क. ङ. च. ज. - ट. यानासनसमावृताः ख. ग. यानासनसमा- कुलाः. ११ च. छ. झ. ददर्शसुमहद्रुतं. ग. प्रविश्यबलिभिर्गुप्तं १२ तत्रसमावृतं. १३ क. ग. ट. मधुरखनं. १४ क. ख. ङ. ट. समतालपदाक्षरं.