पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः ॥ सदेवासुरगन्धर्व वशे स्थापयितुं जगत् ॥ १९ ॥ न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् ॥ पूर्वोपकारं सरता कृतज्ञेन विशेषतः ॥ २० ॥ तस्य मूर्ध्ना ग्रणम्य त्वं सपुत्रः ससुहृज्जनः ॥ राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे ॥ २१ ॥ न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितम् ॥ मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ अङ्गदादिभिःकिष्किन्धांप्रवेशितेन राजमार्गेऽद्भुततमनानाभवनादिकमवलोकयतासता सुप्रीवगृहंप्रविष्टेनलक्ष्मणेनान्तः- पुरस्त्रीणांमञ्जीरादिशिञ्जितश्रवणजलज्जयाज्यास्वनेनसकलदिग्वलयपूरणपूर्वकं कुत्रचिदेकान्तदेशेऽवस्थानम् ॥ १॥ ज्याघोष- श्रवणचकितेनसुग्रीवेण लक्ष्मणसंनिधिंप्रेषितयातारया सकलवानरसेनासमानयनायसुग्रीवकृतनीलनियोजननिवेदनादिना क्षमापणपूर्वकंलक्ष्मणप्रसादनम् ॥ २ ॥ तारासान्त्वनेन किंचिच्छान्तरुषालक्ष्मणेन तदनुमत्याऽन्तःपुरप्रवेशेन सुग्रीवदर्श- नम् ॥ ३ ॥ अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा ॥ प्रविवेश मुँहां धोरां किष्किन्धां रामशासनात् ॥ १ ॥ द्वारस्था हरयस्तत्र महाकायां मदाबलाः ॥ बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ २ ॥ निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् ॥ बभूवुर्हरयस्खस्ता न चैनं पर्यवारयन् ॥ ३ ॥ स तां रत्नमयीं श्रीमान्दिव्यां पुष्पितकाननाम् || रम्यां रत्नसमाकीर्णो ददर्श महतीं गुहाम् ॥ ४ ॥ तं त्राह — नियुक्तैरिति ॥ १८ ॥ कथमिदं हितं तत्राह | हाराख्याने किष्किन्धाकाण्डव्याख्याने द्वात्रिंशः - अमिक्रुद्ध इति ॥ १९ ॥ हेत्वन्तरमाह- - न स सर्गः ॥ ३२ ॥ इति ॥ २० ॥ अञ्जलिं बद्धृत्युक्तं विवृणोति - तस्ये- ति || स्वसमये तिष्ठ तद्वशे च तिष्ठ ॥ २१ ॥ सुरेन्द्र- अथान्तः पुरं प्रविष्टस्य लक्ष्मणस्य तारया प्रसादनं वर्चसः सराघवस्य सलक्ष्मणस्य | अस्य रामस्य । त्रयस्त्रिंशे – अथेत्यादि । प्रतिसमादिष्टः प्रत्याहूतः । मानुषंबलं दिव्यास्त्रादिबलमन्तरेण केवलं स्वाभाविकं अङ्गदेनेतिशेषः ॥ १–२ ॥ न चैनं पर्यवारयन् बलं । ते मनो ज्ञास्यतिहि' जानात्येव । सालगिरिभे- भयेन लक्ष्मणमुपगन्तुं नाशक्नुवन्नित्यर्थः ॥ ३॥ दुनादौ दृष्टचरत्वादितिभावः ॥ २२ ॥ इति | रत्नमयीं रत्ननिर्मितां । रत्नसमाकीर्णी आपणस्थरत्नैः श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ता- समाकीर्णी | हर्म्याः धनिनां वासाः । प्रासादा: देव शि० नियुक्तैः युक्तार्थबोधनेनियोजितैः । पार्थिवोऽवश्यंहितंवाच्यः । इतएवभयंत्यक्त्वाऽवभृतं हितत्वेन निश्चितं । वचोब्रवीमि ॥ १८ ॥ स० यः पुमान्पुनःप्रसाद्योभवेत्सकोपयितुंनक्षमः । विशेषतस्तु पूर्वोपकारंस्मरता कृतज्ञेन कार्यज्ञेन । अकृतज्ञेनतुकोप- यितुंक्षमइत्यपिबोधयितुंस्मरताकृतज्ञेनेत्युक्तिः ॥ २० ॥ ती० तद्वशइतिप्रथमान्तपाठः साधुः । सप्तम्यन्तपाठे स्वसमयइत्यत्रवर्त- मानइतिशेषः ॥ २१॥ ति० अपोहितुं उपेक्षितुं । सराघवस्य सलक्ष्मणस्य । अस्य रामस्य । मानुषंमनुष्यमतिक्रान्तंबलं । तेमनोज्ञा- स्यति जानायेव । वालिवधादिनेतिभावः ॥ शि० सराघवस्य रामसहितस्य । अस्य लक्ष्मणस्य | मानुषं मः इयत्तायाः अनु षः विध्वंसः यस्मिंस्तद्वलंतेमनोज्ञास्यति ॥ २२ ॥ इतिद्वात्रिंशः सर्गः ॥ ३२ ॥ शि० रत्नसमाकीर्णो रत्नैः अनेकविधोत्तमपदार्थैर्व्याप्तां ॥ ४ ॥ [ पा० ] १ ग. सहबन्धुभिः २ ग. शक्यं. ३ क. सलक्ष्मणस्यास्य ४ घ. शुभां. ५ क. घ. – ट. रम्यां. ६ ग॰ ङ. छ. –ट. दिव्यांश्रीमान्. &