पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ८॥ सर्वथा सुकरं मित्रं दुष्करं परिपालनम् || अनित्यत्वाच्च चित्तानां प्रीतिरल्पेऽपि भिद्यते ।। ७ ।। अतोनिमित्तं त्रस्तोऽहं रामेण तु महात्मना ॥ यन्ममोपकृतं शक्यं प्रतिकर्तु न तन्मया सुग्रीवेणैवैमुक्तस्तु हैनुमान्हरिपुङ्गवः ॥ उवाच खेन तर्केण मध्ये वानरमन्त्रिणाम् ॥ ९ ॥ सर्वथा नैतदाश्चर्य यस्त्वं हरिगणेश्वर || नै विसरसि सुस्निग्धमुपकारकृतं शुभम् ।। १० ।। राघवेण तु वीरेणं भयमुत्सृज्य दूरतः ॥ त्वत्प्रियार्थी हतो वाली शऋतुल्यपराक्रमः ॥ ११ ॥ सर्वथा प्रणयात्क्रुद्ध राघवो नात्र संशयः ॥ भ्रातरं संग्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम् ॥ १२ ॥ त्वं प्रमत्तो न जानीषे कालं कालविदां वर || फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शँरच्छिवा ॥ १३ ॥ निर्मलग्रहनक्षत्रा द्यौ: प्रनष्टबलाहका || प्रसन्नाथ दिशः सर्वाः सरितश्च सरांसि च ॥ १४ ॥ प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव ॥ त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ।। १५ ।। आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् ॥ वचनं मर्षणीयं ते राघवस्य महात्मनः ॥ १६ ॥ कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् ॥ अन्तरेणाञ्जलिं बचा लक्ष्मणस्य प्रसादनात् ||१७|| नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् || अंत एव भयं त्यक्त्वा ब्रवीम्यवधूतं वचः ॥ १८ ॥ ति ॥ ६ ॥ मित्रस्यास्थानकोपसंभावनायां लोकन्या- श्चित्तेन तदा तस्य परिहार: स्यात् । न तथाभूः किंतु यमाह—सर्वथेति ।। अल्पे वैषम्य इतिशेषः ॥ ७ ॥ निश्चयेन कृतापराधोसि । तेन अञ्जलिं बवा लक्ष्मणस्य महामना रामेण मम यदुपकृतं तन्मया प्रतिकर्तुं न प्रसादनादन्तरेण प्रसादनंविना । अन्यत् क्षमं अपरा- शक्यं । अतोनिमित्तं अस्मान्निमित्तात् । त्रस्तोहमिति धपरिहारक्षमं साधनं । न पश्यामि । अञ्जलिः संबन्धः ॥ ८ ॥ तर्केण ऊहेन ॥ ९ ॥ उपकारकृतं परमा मुद्रा क्षिप्रं देवप्रसादिनी " इतिशास्त्रात् । उपकारकारिणं ॥ १०–१५ ॥ पुरुषान्तरात् लक्ष्म- लक्ष्मणस्येत्यनेन तदीयंप्रत्यञ्जलिरेव भगवद्पचारप- णात् । आगतमितिशेषः । अत्र मर्षणीयत्वे बहवो रिहारक इत्युक्तं । त्वदभिमुद्दिश्येतिवत् । ते इत्यने । हेतव उपन्यस्यन्ते । हृतदारस्य परुषवचनं मर्षणीयं । नात्राधिकारिनियमो नास्तीत्युच्यते । अञ्जलिमिये- एवमार्तस्येत्यादौ । राघवस्य महात्मनः परमात्मनः कवचनेन सकृत्करणमेवालमित्युक्तं । बजेत्यनेन सर्वस्वामिन इत्यर्थः ॥ १६ ॥ अथापराधप्रायश्चित्तं देशकालनियमाभावः सूचितः । बद्धा लक्ष्मणस्य विद्धाति — कृतेति ॥ कृतापराधस्य न त्वारब्धापरा- प्रसादनादित्यनेन क्षिप्रं देवप्रसादिनीत्यस्यार्थ उक्तः धस्य । अपराधारम्भकाले सानुतापो यदि लघुप्राय- | | १७ || किमेवं मां प्रति हीनवृत्तमुपदिष्टवानसीय- इत्यादिवचनमत्रानुसन्धेयं ॥ ६ ॥ ति० रिपुजोपजापपरिहारेणसख्यपालनंदुष्करमित्याह – सर्वथेति । अल्पेपि उपजापेइति- शेषः ॥ ७ ॥ ति० अतोनिमित्तं अस्मान्निमित्तात् । अथस्वदोषशङ्कानिवृत्तयेकृतज्ञतांमन्त्रिभ्योदर्शयति — रामेणविति ॥ ८ ॥ - ति० अथमुख्यमन्त्री हनुमान्कोपनिमित्तंनिश्चित्याह– सुग्रीवेणेति ॥ स० तर्केण ऊहेन । हनुमतोऽद्यापि लक्ष्मणदर्शना- भावादितिभावः ॥ ९ ॥ ति० अथनिश्चयंविवक्षुःस्वस्यगुणग्राहित्वरूपं मन्त्रिलक्षणंप्रकटयति–संर्वथेति ॥ १० ॥ ति० उपकार- मेवाह– राघवेणेति । भयं वालिपराक्रमजं | वालिनश्छलेनवधकृतं लोकापवादजंवा ॥ ११ ॥ ति० प्रणयात्क्रुद्धः नतुत्वद्रिपूप- जापतइत्यर्थः ॥ १२ ॥ ति० प्रणयकोपस्यापिनिमित्ताभासंदर्शयति – त्वमिति । कालं प्रतिज्ञातंसीतान्वेषणकालं । प्रवृत्ता प्रकर्षेणवृत्ता । गतप्रायेतियावत् ॥ १३ ॥ ति० व्यक्तं ज्ञात्वेतिशेषः ॥ १५ ॥ तनि० लक्ष्मणज्याघोषंश्रुत्वाकृतकापेयचेष्टेनसु- ग्रीवेणतादृशावस्थायांकर्तव्यं किमितिप्रश्नेकृतेसुप्रीषंप्रतिहनुमानाह-कृतापराधस्येति । अपसघारंभ एवानुतापोय दिलघुप्रायश्चि- तेनपरिहारस्स्यात् । इदानींनतावन्मात्रेण परिहर्तुं शक्यते । किंतु सान्त्वनंकार्य । ततश्चाञ्जलिः कर्तव्यः । अनेनभगवदपचारेतदीयप्र- सादनंप्रायश्चित्तमितिव्यजितं । " अनुतप्तस्तुतापेक्षामयेन्नान्यथाशमः | भगवत्यपचारेपिनैषाशक्तिरनुत्तमा” इतिस्मरणात् ॥१७॥ ति० नियुक्तैः हितोपदेशइतिशेषः । भयंत्यक्त्वाब्रवीमि राजानमपिकार्यवशात्परस्माअञ्जलिंकुर्वितिवचोऽवधृतं निश्चितंचदामि ॥ ३ च. ज. ञ. [ पा० ] १ घ. छ. झ. ट. अनित्यत्वात्तु. ङ. च. ज. ञ. अनित्यत्वाद्धि. २ क. ख. घ.ट. मुक्तेतु. हनूमान्मारुतात्मजः. ग. हनूमान्हरियूथपः ४ ङ. ज. - ट. नविस्मरस्य विस्रब्धं. क. नविस्मरस्यमुस्निग्धं. ५क. ग. ङ. —झ. ट. मुपकार्रकृतं. ६ ख घ. शूण ७ ङ. -ट. शरच्छुभां. ८ ग. च. सुप्रसन्नाश्चसरितः प्रसन्नानिसरांसिच. ९ ङ. ज. - ट. इतएव