श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अयं च दयितो राजंस्तारायास्तनयोगदः ॥ लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ ॥ ५३ ॥ सोयं रोषेपरीताक्षो द्वारि तिष्ठति वीर्यवान् || वानरान्वानरपते चक्षुषा निर्दहन्निव ॥ ५४ ॥ तस्य मूर्ध्ना प्रैणम्य त्वं सपुत्रः संह बन्धुभिः ॥ गच्छ शीघ्रं महाराज रोषो यैस्य निवर्त्यताम् ॥ ५५ ॥ यँदाह रामो धर्मात्मा तत्कुरुष्व समाहितः ॥ राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ॥ ५६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥ द्वात्रिंशः सर्गः ॥ ३२ ॥ अङ्गदादिमुखतोलक्ष्मणकोपश्रवणेनत्रस्ततरंसुग्रीवंप्रतिहनुमता तत्कोपस्यसांकेतिककालातिक्रमहेतुकरामप्रणय कोपाधीन- त्वकथनेन सप्रणामंलक्ष्मणप्रसादनचोदना ॥ १ ॥ अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह || लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ॥ १ ॥ संचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् || मंत्रज्ञान्मत्रकुशलो मन्त्रेषु परिनिष्ठितान् ॥ २ ॥ न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम् ॥ लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥ ३॥ असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः ॥ मॅम दोषानसंभूताञ्श्रावितो राघवानुजः ॥ ४ ॥ • अत्र ताँवद्यथाबुद्धि सर्वेरेव यथाविधि || भावस्य निश्रयस्तावद्विज्ञेयो निपुणं शनैः ॥ ५ ॥ न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् ॥ मित्रं त्वस्थानकुपितं जनयत्येव संभ्रमम् ॥ ६ ॥ ॥ ५२–५४ ॥ तस्य तस्मै ॥ ५५ ॥ स्वसमये स्वम | दि | अङ्गदस्य प्राधान्यादङ्गदस्य वचः श्रुत्वेत्युक्तं । र्यादायां | सत्यप्रतिश्रवः सत्यप्रतिज्ञो भव ॥ ५६ । आसनं मुमोच । भयेनासनादु तिष्ठदित्यर्थः ॥ १॥ मन्त्र- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे कुशलः मत्रप्रयोगकुशलः ॥ २ ॥ दुर्व्याहृतं परुषभा- मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्यान एकत्रिं- षणं । दुरनुष्ठितं अपकारः । किं किमर्थं ॥३॥ असुहृद्भिः शः सर्गः ॥ ३१ ॥ अशोभनहृदयैः ॥ ४ ॥ तावत् प्रथमं । यथाविधि यथाक्रमं । भावस्य चेष्टायाः । निश्चयः अध्यवसाय: अथ हनुमता हितोपदेशो द्वात्रिंशे - अङ्गदस्येत्या - |॥ ५ ॥ निजभयकृतमासनचलनमपहुते-- न खल्वि- शि० गुरुलाघवं गुरुत्वलघुले रामेगुरुत्वं स्वस्मिल्लघुवंचेत्यर्थः । निश्चित्य मन्त्रेषुपरिनिष्ठितः तद्विषयकातिज्ञानवान् ॥ २ ॥ ति० दुर्व्याहृतं अनुचितवचनं उक्तं । दुरनुष्ठितं अनुचितंकृत्यं । कृतमितिशेषः ॥ ३ ॥ ति० कोपकारणमुन्नयति — असुहृद्भिरिति । असुहृदः शत्रवः । अमित्राः अपकारिणः । अन्तरं छिद्रं । असंभूतान् अनुत्पन्नान् । श्रावितः नूनमितिशेषः ॥ स० असुहृद्भिः प्राणहरैः । अमित्रैः अरिभिः ॥ ४ ॥ ति० अत्र लक्ष्मणकोपविषये | यथा तत्वात्मिकाबुद्धिः ज्ञानंयस्मिन्निश्चयेसः | भावस्य को- पस्य । निश्चयः तात्विककोपनिमित्तस्यनिश्चयः । विज्ञेयः कर्तव्यः | शि० लक्ष्मणस्यनिश्चयोऽभिप्रायः यथाबुद्धि स्वस्वबुद्ध्यनुरूपं निपुणंयथाभवतितथा सर्वैर्भवद्भिः तावत् मत्संगमात्पूर्वमेव | शनैर्विज्ञेयः ॥ ५ ॥ ति० त्रासः मदपराधमूलइतिशेषः । कुतस्त- हिंत्रासोतआह - मित्रमिति | अस्थाने अकाण्डे । वास्तवापराधाभावेपिरिपुकृतमिथ्योपजापेनकुपितं संजातकोप॑मित्रं । संभ्रमं भयं । जनयत्येव ॥ शि० राघवात् रामात् । न ममत्रासः । अतएव लक्ष्मणादपिनत्रासः । अस्थानकुपितं अपराधाभावेन अनवसरकोपविशिष्ट॑मित्रंतु | संभ्रमं भयंजनयत्येव । एतेनाय॑मित्रद्रोहीतिलोकोत्तेर्बिभेमीतिसूचितं । नत्रासइत्यनेन अपराधेपि राघवः शरणागतं नत्यजतीति सुग्रीवनिश्चयस्सूचितः । “ कथंचिदुपकारेण कृतेनैकेनतुष्यति । नस्मरत्यपकाराणांशतमप्यात्मवत्तया" [ पा० ] १ क. ख. ग. ङ. - ट. तनयोराजंस्तारायादयितो. २ क. रोषपरीतात्मा. ३ क. ङ. -ट. प्रणामंत्वं. ४ च.- ट. सहबान्धवः ५ घ. महाभाग, ६ ङ-ट. रोषोह्ययोपशाम्यतां. क. रोषश्चाप्युपशाम्यतां. ७ ङ. छ. –ट. यथाहि. ८ ज शान्तात्मा. ९ ख. घ. —ठ. सचतानब्रवीत्. १० ग. ज. मन्त्रज्ञोमन्त्रकुशलो. ११ छ. – ट. परिनिष्ठितः १२ ज. गुणदोषान्. १३ झ. तावद्यथाबुद्धिः १४ घ. निश्चयस्तस्य विज्ञेयो.
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४२
दिखावट