पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अथाङ्गदस्तस्यै वचो निशम्य संभ्रान्तभावः परिदीनवऋः ॥ निपत्य तूर्ण नृपतेस्तरस्वी ततः कुमारचरणौ ववन्दे ॥ ४१ ॥ संगृह्य पादौ पितुरम्यतेजा जग्राह मातुः पुनरेव पादौ ॥ पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम् ॥ ४२ ॥ स निद्रामदसंवीतो वानरो नँ विबुद्धवान् ॥ बभूव मदमत्तश्च मदनेन च मोहितः ॥ ४३ ॥ ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः ॥ प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ॥ ४४ ॥ ते मँहौघनिभं दृष्ट्वा वज्राशनिसमवनम् || सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ ४५ ॥ तेन शब्देन महता प्रत्यबुध्यत वानरः ॥ मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ ४६ ॥ अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ ॥ मन्त्रिणौ वानरेन्द्रस्य समतो दारदर्शिनौ ॥ ४७ ॥ पक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः ॥ वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥ ४८ ॥ प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः ॥ आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ।। ४९ ॥ सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ ॥ वयस्यभाव संप्राप्तौ राज्या राज्यदायिन ॥ ५० ॥ तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः ॥ यस्य भीताः प्रवेपन्तो नादान्मुञ्चन्ति वानराः ॥ ५१ ॥ स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः || व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥ ५२ ॥ १३७ उक्तं विस्तृणाति—अथेति ॥ ४१ ॥ मातुः पुनरेवे- | अर्थधर्मयोर्विषये उच्चावचं वक्तुं प्राप्तं लक्ष्मणं शशंसतुः त्यनेन मातुः पृथग्वन्दनमुच्यते ॥ ४२ ॥ मदमत्तः ॥४७ – ४८॥ सामनिश्चितैः सान्त्वविषये निश्चितैः । पानकृतमदमत्तः ॥ ४३ ॥ किलकिलेति वानराणां ऊचतुरिति शेषः ॥ ४९ ॥ यस्य भीतः यस्मात् शब्द उच्यते ।। ४४ ॥ महौघनिभं महाप्रवाहतुल्यं भीताः ॥ ५०-५१ ॥ वाक्यसारथिः रामवाक्यप्रे- लक्ष्मणं | समं युगपत् ॥ ४५ - ४६ ॥ तेनैव समा- रित इत्यर्थः । कथमिदं दुर्गमेकः प्रविष्टवानित्यत्राह- गतौ तदाह्वानेन समागतौ । मन्त्रिणौ प्रशस्तमन्त्रौ । व्यवसायरथ इति । प्रतिपक्षनिरासाध्यवसायरथः तस्यवाक्यंश्रुत्वा शीघ्रमागच्छ ॥ ३९ ॥ ति० लक्ष्मणस्येतिश्लोकेनसंक्षिप्योक्तस्यार्थस्यविस्तरः – अथेति । संभ्रान्तभावः संभ्रान्त- चित्तः । परदीनवकः परंअतिशयेनदीनंवयस्यसः । परिदीनेतिपाठान्तरं । निर्गत्य लक्ष्मणसंनिहितदेशात्परावृत्येत्यर्थः । पूर्वनृपतेः ततोरुमायाः । इदमुपलक्षणं । तारायाश्चरणावित्यन्वयः ॥ ४१ ॥ रामानु० जग्राहमातुःपुनरेवपादावित्यत्रपुनश्शब्दः पितृन- मस्कारापेक्षयाप्रयुक्तः ॥ स० कार्यस्यात्यावश्यकताद्योतनाय पुनःप्रणमति- संगृह्येति । मातुः तारायाः । तदर्थ लक्ष्मणागमन. रूपं ॥ ४२ ॥ शि० किलकिलां दीनतासूचकखजातीयशब्दं ॥ ४४ ॥ स० महौघनिभं महाप्रवाहवदागच्छन्तं लक्ष्मणं दृष्ट्वा समं युगपत् । चक्रुः । सुग्रीवबोधनार्थमितिशेषः ॥ ४५ ॥ ती० दारदर्शिनौ अन्तःपुरप्रवेशयोग्यौ | ति० संमतौचतावुदार- दर्शनौच संमतोदारदर्शनौ । संमतं उदारं उत्कृष्टंदर्शनंय योस्तौ । तेनाङ्गदेन सहागतौमन्त्रिणौचदृष्ट्वा लक्षप्रभावसंज्ञकौमन्त्रिणौ अर्थधर्मयोर्विषये उच्चावचं उत्कृष्टापकृष्टं धर्म वक्तुंप्राप्तंलक्ष्मणंशशंसतुः ॥ ४७ ॥ रामानु० | भवसत्यप्रतिश्रवइत्यन्तमेकंवाक्यं । अत्रशशंसतुरित्यनुषज्यते । ति० सार्थनिश्चितः अर्थनिश्चयसहितैः वचनैः प्रसादयित्वाशशंसतुरित्यन्वयः ॥४९॥ ति० राज्या त्रिलोकीराज्याौं । राज्यदायिनौ तवेतिशेषः । मनुष्यभावप्राप्ता वित्यनेन वस्तुतोनमनुष्या वितिसूचितं ॥ ५० ॥ रामानु० यस्यभीताः यस्माद्भीताः ॥ ५१ ॥ इत्येकत्रिंशः सर्गः ॥ ३१ ॥ [ पा० ] १ छ. झ ट स्तस्यसुतीव्रवाचा. २ ङ. छ. झ ञ ट निर्गत्यपूर्वे. घ. च. ज. निपत्यपूर्व क. निर्गत्यतूर्ण. ३ घ.―ट. ततोरुमायाश्चरणौ ४ ङ. ज. ज. पुनरुप्रतेजाः ५ ज झ ततस्तदर्थं. ६ ख. घ. झ. ट. निद्राक्लान्तसंवीतो. ग. निद्राग्लानिसंवीतो. च. ज. निद्रयाससुसंवीतो. ज. निद्रायाससंवीतो. ७ ङ. च. ज. ज. नावबुद्धवान्. ८ ग. – ज. किलिकिलां- ९ क. लक्ष्मणंसमुपस्थितं. १० घ. मत्तेभनिभं क. महेन्द्रनिभं ११ झ . संमतोदारदर्शिनौ. ख. ग. घ. ज. संमतौदूरदर्शिनौ. १२ छ. झ. यक्षचैव १३ क. ग. ङ. च. ज झ ञ. प्रभासश्च १४ ङ. च. ज. – ट. सार्थनिश्चितैः १५ आसीनमित्यर्धा- त्पूर्वे क. पाठे. सुप्रीवसचिवाः सर्वेमन्त्रार्थेसमुपाविशन् । विनदश्च सुषेणश्चनीलोथनलएवच | अङ्गदोवालिसूनुश्चहनुमांश्चैवबुद्धिमान् । एतेसर्वे महात्मानः सुप्रीवंवानरोत्तमाः । इतिश्लोकद्वयदृश्यते १६ क. पर्युपासीनाः १७ छ. झ. ट. मनुष्यभावं. वा. रा. १३७