पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ नखदंष्ट्रायुधा घोरांः सर्वे विकृतदर्शनाः || सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ॥ २४ ॥ 2 • दशनागबलाः केचित्केचिद्दशगुणोत्तराः || केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ २५ ॥ [ संन्ति चौघबलाः केचित्केचिद्वायुवलोत्तराः ॥ अप्रमेयबलाः केचित्तत्रासन्हरिपुङ्गवः ॥ २६ ॥ प्रतिपूर्णमिवाकाशं संछन्नमिव तद्वनम् || तेन वानरसैन्येन सुग्रीवस्य महात्मनः ॥ २७ ॥ ततो द्वाराणि सर्वाणि अङ्गदो राजशासनात् ॥ पर्यधावत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ] ॥ २८ ॥ कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तै महाबलैः ॥ अपश्यलक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम् ॥ २९॥ ततस्ते हरयः सर्वे प्राकारपरिघान्तरात् || निष्क्रम्योदग्रस वास्तु तस्थुरांविष्कृतं तदा ॥ ३० ॥ सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् || बुद्धा कोपवशं वीरः पुनरेव जंगाम सः ॥ ३१ ॥ स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः ॥ बभूव नरशार्दूलः सधूम इव पावकः ॥ ३२ ॥ [ बणासनमहावीर्यो लक्ष्मणः परवीरहा || प्रविवेश दुराधर्षी पुरीं सुग्रीवपालिताम् ॥ ३३ ॥ ततो नीलाभ्रसंकाशं तप्तकाञ्चनवेदिकम् ॥ श्रीमद्विमानमासाद्य रमणीयं मनोरमम् ॥ शुश्राव परमस्त्रीणां सोत्कृष्टहसितस्वनम् ] ॥ ३४ ॥ बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् || स्वतेजोविषसातः पञ्चास्य इव पन्नगः ॥ ३५ ॥ तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् || समासाद्याङ्गदत्रासाद्विषादगमद्भृशम् ॥ ३६ ॥ सोङ्गदं रोषताम्राक्षः सन्दिदेश महायशाः || सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥ २७ ॥ एष रामानुजः प्राप्तस्त्वत्सकाशमरिन्दमः ॥ आतुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः ॥ ३८ ॥ तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर || इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम ॥ ३९ ॥ • लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोङ्गदोऽब्रवीत् || पितुः समीपमागम्य सौमित्रिरयमागतः ॥ ४० ॥ पूर्वोक्ता बहिः ॥१८-२९ ॥ प्राकारपरिघा- | कथ्यतां । भ्रातृव्यसनसंतप्तः स लक्ष्मण: द्वारि न्तरान्निष्क्रम्य आविष्कृतं प्रकाशं यथा भवति तथा तिष्ठति । तस्य वाक्ये तव यदि रुचिः तर्हि साधु तस्थुः ॥ ३० ॥ आतै कामपीडितं ॥ ३१ – ३४ ॥ बाणशल्यं बाणाग्रमेव स्फुरन्ती जिह्वा यस्य स तथा । > युक्तं । तत्र तव गमनं वा अत्रैव तस्यानयनं वा सायकासनं धनुः तदेव भोगः फणा तद्वान् बभूवेति क्रियतां । इत्येतद्वाक्यमुक्त्वा शीघ्रमागच्छ - इति पूर्वेणसंबन्धः ॥ ३५–३६ ॥ वत्स अरिन्दमः एष सोङ्गदं सन्दिदेशेति संबन्धः ॥ ३७–३९ ॥ रामानुजः त्वत्सकाशं प्राप्त इति ममागमनं सुग्रीवः अयमागतमित्यनन्तरमितिकरणं बोध्यं ॥ ४० ॥ स० विवृतदर्शनाः प्रकटीभूताइत्यर्थः । दशगुणोत्तराः शतनागबलाः | नागसहस्रस्यतुल्यवर्चसः सहस्रगजबलाभिव्यञ्जकवर्चोवि- शेषवन्तइत्यर्थः ॥ २५ ॥ ति० प्रमादंच | चाद्वानरप्रतिरोधंच | शि० सुग्रीवस्यप्रमादं समीपानागमनानुमितानवधानतां । क्रोधवशं कोपकान्ति ॥ ३१ ॥ ति० खतेजोरूपविषेणसंभूतः व्याप्तः ॥ स० बाणस्ययच्छल्यं अग्रस्थितमयोमयं तदेवस्फुरन्ती जिह्वायस्य ॥ ३५ ॥ ति० विषादमगमत् एतावत्पर्यन्तंरामकार्यन चिन्तित मितिविषादः ॥ ३६ ॥ ति० इदमुक्तंममवाक्यंत स्मै इति उक्तप्रकारेण । उक्त्वा सवानरः सुग्रीवः सांधु साधुकारीयथाभवतितथाक्रियतां । अनन्तरंतस्यास्मासुयदिरुचिर्भवति तदा १३६ [ पा० ] १ क. ङ. ज. ञ. वीराः सर्वे. झ. ट. सर्वेवीरा: २ ठ. विवृतदर्शनाः ३ ङ. छ. – ट. शार्दूलदंष्ट्राश्च. ४ छ. झ. विवृतदर्शनाः ५ ङ च ज झ ञ स्तुल्यवर्चसः ६ इदं श्लोकत्रयं ख. घ. ज. पाठेषुदृश्यते ७ छ. झ ञ ट ततस्तैः कपिभिः ८ क. सुदुरासदां. ९ ङ. च. राविष्कृतास्तदा. क. ख. राविष्कृतायुधाः १० छ. झ ञ ट पूर्वजस्यार्थमात्मवान्. ख. ङ. च. ज. पूर्वजस्योतमात्मवान्. ११ ङ. - ट. दृष्ट्वाक्रोधवशं. १२. ग. जगामह १३ क. ग. महाश्वासः . १४ इदं श्लोकद्वयं क. पाठेदृश्यते. १५ ज. – ड. संभूतः १६ ङ. – ट. मगमत्परं. १७ च. सुप्रीवेकथ्यतां १८ क. ग. घ. श. वाक्यंयदि. १९ क. ङ. छ. ज. ञ ट वाक्यमिदंमम.