पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३१ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । सामोपहितया वाचा रूक्षाणि परिवर्जयन् ॥ वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥ ८ ॥ सोग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः ॥ प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥ ९ ॥ ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः ॥ लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ।। १० ।। शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः ॥ प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ ११ ॥ यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् || बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तैथा ॥ १२ ॥ कामक्रोधसमुत्थेनं भ्रातुः कोपाग्निना वृतः ॥ प्रभञ्जन ईवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ १३ ॥ सालतालाश्वकर्णाश्च तरसा पातयन्बहून् || पर्यस्यन्गिरिटानि द्रुमानन्यांच वेगतः ॥ १४ ॥ शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः ॥ दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्रुतम् ॥ १५ ॥ तामपश्यद्वलाकीर्णी हरिराजमहापुरीम् || दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरि ॥ १६ ॥ रोषात्प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः ॥ ददर्श वानरान्भीमान्कैिष्किन्धाया बहिश्वरान् ॥ १७ ॥ तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम् || शैलशृङ्गाणि शतशः प्रवृद्धांच महीरुहान् ॥ जगृहु: कुञ्जरप्रख्या वानराः पर्वतान्तरे ॥ १८ ॥ तान्गृहीत हेरणान्हरीन्दृष्ट्वा तु लक्ष्मणः || बभूव द्विगुणं क्रुद्धो बहिन्धन इवानलः ॥ १९ ॥ " तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः ॥ कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ॥ २० ॥ ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः || क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥ २१ ॥ ताऱ्या सहितः कामी सक्तः कैंपिवृषो रहः ॥ न तेषां कपिवीराणां शुश्राव वचनं तदा ॥ २२ ॥ ततः संचिवसंदिष्टा हरयो रोमहर्षणाः || गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा ॥ २३ ॥ १३५ पापं । पूर्ववृत्तं च सङ्गतं पूर्वकृतं सख्यरूपं बान्धवं च | वचनं । यथोक्तकारीति विशेषणाद्रामोपदिष्टं वचन- ॥ ७ ॥ कालपर्यये कालक्रमेविषये । व्यतीतं व्यति- मिति सिद्धं | उत्तरं च स्ववचनस्य सुप्रीवेण वक्ष्यमाण- क्रान्तवन्तं सुग्रीवं । रूक्षाणि परुषाणि । परिवर्जयन् । मुत्तरं च । सोत्तरं स्वेन वक्ष्यमाणोत्तरसहितं । मत्वा सामोपहितया सान्त्वयुक्तया वाचा । वक्तुमर्हसि आलोच्य । प्रययावितिसंबन्धः । एकपदं पौरस्त्यपदं । ॥ ८–९ ॥ प्रतिसंरब्धः प्रतिनिवृत्तहननाध्यवसाय: ॥ १० ॥ सोमजेनेत्यादिश्लोकद्वयोक्तं विस्तरेणाह- दूरं त्यक्त्वा दूरे क्षिप्त्वा । अनेन द्रुतगमनं सूचितं । शक्रेत्यादिना ॥ धनुः प्रगृह्य सानुमान् पर्वत इवस्थितः द्रुतं गच्छन्हि पुरुष: पुरःपादं दूरे क्षिपति ॥ १२ ॥ ११ ॥ यथोक्तं रामोक्तमनतिक्रम्य करोतीति – १५ ॥ गिरिसङ्कटे निबिडगिरिमध्ये । अनेन यथोक्तकारी लक्ष्मणः । वचनंसुग्रीवं प्रति स्वेन वक्तव्यं पूर्वोक्तगुहाशब्दो विवृतः ॥ १६-१७ ॥ वानराः स० अनुशिष्टः शिक्षितः अर्थोयस्मैसः ॥ ९ ॥ शि० सोत्तरं दास्यमानसुग्रीवप्रत्युत्तरसहितं । उत्तरं सुग्रीवप्रत्युत्तरानन्तरकालि- कदास्यमानखप्रत्युत्तरंवचनं । किंच उत्तरं उत्कृष्टं | सोत्तरं उत्तरत्वसहितं उत्तरमित्यर्थः ॥ १२ ॥ ति० एकपदं एकैकपदं ॥ १५ ॥ ति० क्रुद्धलक्ष्मणदर्शनेनभीत्या शैलशृङ्गादिग्रहोवानराणां ॥ १८ ॥ ति० द्विगुणंक्रुद्धः मांदृष्मेप्रणामंत्यक्त्वाप्रहरणंगृह्णन्तीतिकोपद्वै- गुण्यं ॥ १९ ॥ स० सचिवैः सुग्रीवामायैः संदिष्टा: भीषयध्वमित्याज्ञप्ताः ॥ ति० सचिवसंदिष्टाः सुग्रीवं बोधयित्वातदनुमत्या लक्ष्मणोस्माभिर्यावत्प्रवेश्यते तावद्धठाल्लक्ष्मणप्रवेशंनिरुन्धाना स्तिष्ठत इत्येवं सचिवैः हनुमदादिभिःसंदिष्टाहरयोनगरान्निर्ययुः ॥ २३ ॥ [ पा० ] १ क. ङ. -ट. कालान्तकोपमं. २ क. ट. खदा. ३ घ. समृद्धेन. ४ घ. – ट. क्रोधाग्निना. ५ क. इवाविष्टः ६ क. ङ. —ट. स्ततः, ७ ङ. छ. झ. ट. बलात्. ८ ग. शृङ्गाणि ९ क. ख. ग. छ. झ ञ ट वेगित: १० ग. गिरिगहरे. ११ घ. झ. किष्किन्धायां. १२ क. ख. ङ. छ. - ट. प्रहरणान्सर्वान्. १३ ज. परमक्रुद्धः १४ क.ग. ततोभय १५ ङ. ट. क्षुब्धं. १६ ट मृत्युंसमायान्तं. क. मृत्युमिवायान्तं १७ छ. झ. ट. कपिवृषस्तदा. ग. कविवशे. १८ ङ. छ. ट. कपिसिंहानां. १९ घ. जग्राह २० ख. सुग्रीवसंदिष्टाः २१ क. ग. ङ, छ. – ट. नगरान्निर्ययुः. 4