सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमंद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज || उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ।। ६२ ॥ इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज ॥ न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ।। ६३ ।। चत्वारो वार्षिका मासा गता वर्षशतोपमाः ॥ मम शोकाभिभूतस्य सौम्य सीतामपश्यतः ॥ ६४ ॥ चक्रवाकीव भर्तारं पृष्ठतोनुगता वनम् || विषमं दण्डकारण्यमुद्यानमिव याऽऽगता ॥ ६५ ॥ प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते ॥ कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥ ६६ ॥ अनाथो हृतराज्योऽयं रावणेन च धर्षितः ॥ दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ ६७ ॥ इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ॥ अहं वानरराजस्य परिभूतः परन्तप ॥ ६८ ॥ स कालं परिसंख्याय सीतायाः परिमार्गणे ॥ कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते ॥ ६९ ॥ त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम् || मूर्ख ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥ ७० ॥ अर्थिनापसन्नानां पूर्व चाप्युपकारिणाम् || आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥७१॥ शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् || सत्येन परिगृह्णाति से वीरः पुरुषोत्तमः ॥ ७२ ॥ कृतार्था यकृतार्थानां मित्राणां न भवन्ति ये ॥ तान्मृतानपि ऋव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ७३ ॥ नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे ॥ द्रष्टुमिच्छति चापस्य रूपं विद्युगणोपमम् ॥ ७४ ॥ घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे || निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति ॥ ७५ ॥ काममेवंगतेप्यस्य परिज्ञाते पराक्रमे || त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥ ७६ ॥ १३२ है नृपालज जिगीषूणां पार्थिवानामित्यन्वयः || ६२ ॥ | प्रविश्य चेत्यादि |॥ यः उदीरितं वाक्यं सत्येन यात्रा उपस्थितेतिशेषः ।। ६३ ॥ चत्वारः आषाढा- परिगृह्णाति सत्यत्वेन स्वीकरोति । यथोक्तमनुतिष्ठती- द्याः केचिदाहुः श्रावणाद्या इति । “पूर्वोयं वार्षि- त्यर्थः । मित्राणां न भवन्ति मित्राणामुपकाराय न कोमासः श्रावणः सलिलागमः " इत्युपक्रमोक्तेः । भवन्तीत्यर्थः । अस्य श्लोकस्य अन्ते इतिकरणं द्रष्टव्यं । आश्वयुजकार्तिकयोर्वर्षानुवृत्त्या वार्षिकत्वं । “ कार्ति- इति सुग्रीवं ब्रूहीतिपूर्वेणसंबन्धः ॥ ७० – ७४ ॥ के समनुप्राप्ते त्वं रावणवधे यत " इति पूर्वोक्तवचनेतु घोरमिति | निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छ- कार्तिके समनुप्राप्त इत्यस्य समाप्तेइत्यर्थइत्याहुः तीति पाठः ॥ ७५ ॥ वीर नृपात्मज | त्वत्सहायस्य ॥ ६४–६७ ॥ सुग्रीवस्य परिभूत इति “क्तस्य च मे एवंगते सालगिरिभूदलनादिषु इत्थमप्रतिहते वर्तमाने " इति षष्ठी । कृपां न कुरुत इत्यादिकं पराक्रमे कामं परिज्ञातेसत्यपि अस्य सुग्रीवस्य सुग्रीवाभिमानमनुसृत्योक्तं ॥ ६८-६९ ॥ त्वं चिन्ता समयव्यतिक्रमे मामपि हनिष्यतीति विचारः श्चापोयस्यसः । इदंहेतुगर्भं ॥ ५७ ॥ चत्वारइति । यद्यपिचतुर्थोमासो विद्यतएव तथापितत्रोद्योगाभावेनतस्यापिगतप्रायत्वागता इत्युक्तिः ॥६४॥ ति० कृपायाअकरणेहेतुमुन्नयति–अनाथइति । दूरग्रहइतिपाठे दूरवर्तिस्त्रीविषयोग्रहोरावणोऽभिनिवेशोवा यस्येत्यर्थः । शि० ननुवयंसमर्थत्वात्सुग्रीवापेक्षा किमर्थंक्रियतइत्यत आह - अनाथइति । रावणेन रावणसदृशेनवालिना धर्षितः । अतएव अनाथः रक्षकरहितः । अतएवदीनः कामी अयंसुग्रीवः मांशरणंगतइत्येतैः कारणैः वानरराजस्यसुग्रीवस्य सुग्रीवेणप- रिभूतः वशीकृतः अहमस्मीतिशेषः । स० दूरगृहः दूरेअयोध्यायांगृहंयस्य ॥ ६७ ॥ ति० वानरराजस्य वानरराजेन । शेषे- षष्टी ॥ ६८ ॥ ति० उपपन्नानां बलवीर्यादियुक्तानां । आशां अभिमतार्थविषयां | संश्रुत्य प्रतिज्ञाय ॥ ७१ ॥ स० वालिसं- हारात्पूर्वमेकदाज्यातलशब्दश्रवणात्पुन रित्युक्तं । श्रोतुमिच्छसीत्यतः परंइतिशब्दस्याध्याहृतस्य इतिवानरपुङ्गवंब्रूहीत्यन्वयः ॥ ७५ ॥ स० नन्वेवसुग्रीवहनने कथंवत्कार्य निष्पत्तिरितिलक्ष्मणशङ्कांपरिहरति - काममिति । एवं पूर्वोत्तप्रकारेण । मत्कोपेनसुप्रीवे गतेपि नष्टेपि । अस्यमे कामंयथातथा त्वयाज्ञातेसति । तत्रापित्वत्स हायस्यमेचिन्ताआगामि कार्येनस्यात् । यद्वा त्वत्सहायस्यमे [पा० ] १ छ. झ. न. ट. मुधोगंच. २ क. ग. -ट. शोकाभितप्तस्य ३ छ. झ ट तथा. ४. क. ङ. – ट. चाङ्गना. घ. ज. चागता. ५ क. ङ. – ट. सकिष्किन्धांप्रविश्यत्वं. ग. किष्किन्धांसंप्रविश्यत्वं ६ क. ग्राम्यसुखैर्युक्तं. ७ झ. मुपपन्नानां. ८ क. ख. ज. येनवाक्यं. ९ क. ज. सलोके. १० ङ.ट. मिच्छसि.