पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । नवैर्नदीनां कुसुमप्रभा सैर्व्याधूयमानैमृदु मारुतेन ॥ धौतामलक्षौमपटप्रकाशैः कुलानि काशैरुपशोभितानि ॥ ५२ ॥ वनप्रचण्डा मधुपानशौण्डा : प्रियान्विताः षट्चरणा: प्रहृष्टाः ॥ वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः ॥ ५३ ॥ जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वनः शालिवन विपकम् ॥ मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम् ॥ ५४ ॥ मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः ॥ कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम् ॥ ५५ ॥ सचक्रवाकानि सशैवलानि काशैर्दुकुलैरिव संवृतानि || सपत्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि ॥ ५६ ॥ प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु || गृहीतचापोद्यतचॅण्डदण्डः प्रचण्डचारोद्य वनेषु कामः ॥ ५७ ॥ लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा || निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः अॅनष्टाः ॥ ५८ ॥ प्रसन्नसलिला: सौम्य कुररीभिर्विनादिताः || चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥ ५९॥ असनाः सप्तपर्णाश्च कोविदाराच पुष्पिताः ॥ दृश्यन्ते बन्धुजीवाश्च श्यामाच गिरिसानुषु ।। ६० ।। हंससारसचक्राः कुररैश्च समन्ततः ॥ पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ॥ ६१ ॥ १३१ मिश्रः । प्रत्यूषकालानिलेन प्रातः कालवायुना संप्रवृद्धः | नुयात्रां वातानुगमनं । कुर्वन्ति परिमलानुसारादिति अभिवृद्धः । संमूर्च्छितः अभिव्याप्तः । गर्गरगोवृषाणां भावः ॥ ५३ ॥ प्रभासत इति प्रभासं । पचाद्यच् । गर्गराणां दधिमथनभाण्डानां गवां वृषाणां च शब्दः । विकस्वरमित्यर्थः । वर्षव्यपनीतकालं वर्षात्ययकालं । अन्योन्यमापूरयतीव परस्परमभिवर्धयतीव । प्रातः- |शरत्कालमिति यावत् ॥ ५४ ॥ कामिनीनां वारस्त्री- कालिकदधिमथनघोषः वत्सोत्सुकानां गवां पुष्टया | णामित्यर्थः ॥ ५५ ॥ चक्रवाकशैवलकाशा: रोचना- कामातुराणां वृषाणां शब्दः गोपाल- पत्रलेखावकुण्ठनदुकूलस्थानीयाः ॥ ५६ ॥ बाणा: वेणुस्वनैः प्राभातिकवायुभिश्चाभिवृद्धो जायत इत्यर्थः बाणवृक्षाः | असनाः सर्जकाः । गृहीतचापेन उद्यतः ॥ ५१ ॥ कुसुमैः प्रभासन्त इति कुसुमप्रभासाः तैः । । प्रयुक्त : चण्डदण्डः तीक्ष्णदण्डनं येन स तथा । यद्वा पटप्रकाशैः पटतुल्यैः । काशैः शुभ्रपुष्पदर्भवि- | गृहीतचापञ्चासौ उद्यतचण्डदण्डश्च । दण्डः शरविशे- शेषैः । नदीनां कूलानि तटानीत्युक्त्या स्त्रीणां जघ- षः । “दण्डादयः काण्डभेदाः स्युः" इति हलायुधः । नोपमा सूच्यते ॥ ५२ ॥ वने प्रचण्डाः निरङ्कुशग- प्रचण्डचारः उग्रसंचारः || ५७ ॥ लोकं जनं ॥५८॥ तयः । मधुपाने शौण्डाः धूर्ता: । पद्मानामसनानां च | कुररीभिः क्रौञ्चीभिः । सलिलाशयाः सरांसि ॥ ५९॥ रेणुभि: गौराः । षट्चरणा: भृङ्गाः | वनेषु पवना - बन्धुजीवा: श्यामाश्च लताविशेषाः ॥ ६०-६१ ॥ संमूर्च्छितः समूर्जितः । गर्गरः हस्तिहस्तः | तस्यगोवृषाणां चशब्दः । गर्गरशब्दस्यहस्तिहस्तार्थ कत्वं तु कर्मनिर्णय टीकारीत्याज्ञेयं । मीनभेदोवा । “ गर्गरोमीनभेदेस्यात् " इति विश्वः ॥ ५१ ॥ स० मीनाएवउपसंदर्शिता मेखलायासांतासां । शरत्काल एवमीन- दर्शनं स्वच्छत्वादुदकस्य ॥ कान्तोपभुक्ताश्चताअलसगामिन्यश्च । यद्वा भावेक्तः । तेनालसगामिन्यः ॥ ५५ ॥ ति० प्रचण्ड- [ पा० ] १ ख. ग. ङ. छ. झ. ट. कुसुमप्रहासं. च. ज. कुसुमं. २ क. ग. घ. च. - झ. ट. क्रौञ्चस्वनं. ३ क. वनंच पकं. ४ क. सरोमुखानि ५ घ. छ. झ. ड. दण्डचण्ड: ६ ङ. छ. झ ञ ट प्रचण्डचापोय. ७ ग. प्रयाताः, ८ असनाः सप्तपर्णाश्चेत्यादीनांचतुर्णाश्लोकानां पौर्वापर्य. छ. झ ञ ट पाठेषुदृश्यते.