पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० [ किष्किन्धाकाण्डम् ४ श्रीमद्वाल्मीकिरामायणम् । व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु ॥ संसारसा रावविनादितासु नदीषु हँष्टा निपतन्ति हंसाः ॥ ४३ ॥ नदीघनप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम् ॥ प्लवङ्गमानां च गँतोत्सवानां द्रुतं रवाः संप्रति संप्रनष्टाः ॥ ४४ ॥ अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः ॥ क्षुधार्दिता घोरविषा बिलेभ्यश्विरोषिता विप्रसरन्ति सर्पाः ॥ ४५ ॥ चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका | अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥ ४६ ॥ रात्रिः शशाङ्कोदितसौम्यवॠा तारागणोन्मीलितचारुनेत्रा || ज्योत्स्त्रांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी ॥ ४७ ॥ विपकशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्गिः ॥ नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला ।। ४८ ॥ सुप्तैकहंस कुसुमैरुपेतं महादस्थं सलिलं विभाति || घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम् ॥ ४९ ॥ प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपोत्पलमालिनीनाम् ॥ वाप्युत्तमानामधिकाऽद्य लक्ष्मीर्वराङ्गनानामिव भूषितानाम् ॥ ५० ॥ वेणुस्खनव्यखित तूर्यमिथः प्रत्यूषकालानिलसंवृद्धः ॥ समृद्धितो गंर्भरगोवृषाणामन्योन्यमापूरयतीव शब्दः ॥ ५१ ॥ स्येति संबन्धः । भिन्नकटा: मदेनेति शेषः ॥ ४२ || | तानुरागा स्वयमेव रतये अम्बरं त्यजन्ती कामुकी सवालुकासु ससिकतासु । संसारसा इति पदच्छेदः । प्रतीयत इति समासोक्तिः । सन्ध्यारागः प्रायेण रावविनादितासु निजशब्देन संजातशब्दासु ॥ ४३ ॥ शरद्येव भवतीत्येवमुक्तं ||४६ || शशाङ्कोदितसौम्यवा नद्यश्च घनप्रस्रवणानि च तेषां उदकानां । लवङ्गमा- उदितशशाङ्करम्यवा | तारागणोन्मीलितचारुनेत्रा नां मण्डूकानां ॥ ४४ ॥ अनेकवर्णा : कृष्णपीतादिव- उन्मीलिततारागणचारुनेत्रा ॥ ४७ ॥ भुक्त्वा मुखाभे र्णाः । सुविनष्टकायाः अत्यन्तकृशशरीराः | नष्टाः गृहीत्वा । माला नानावर्णपुष्पमाला ॥ ४८ ॥ लीनाः ।। ४५ ।। चञ्चञ्चन्द्रकरस्पर्शेन यो हर्ष: तेन सुप्रैकहंसमिति इदं चन्द्रस्थाने । महाह्रदस्थमिति उन्मीलिततारका निर्मलनक्षत्रा | रागवती आरुण्य- गाम्भीर्यकृतनैर्मल्यातिशयेन आकाशसाम्याय | घनै वती सन्ध्या । अम्बरं आकाशं । स्वयं जहाति । अत्र विमुक्तमिति परिपूर्णत्वायोक्तं ॥ ४९-५० ॥ वेणूनां कान्तकरस्पर्शेन हर्षविस्फारितनेत्रकनीनिका उत्तेजि - सुषिरवंशानां स्वनेन व्यञ्जितं यत्तूर्य गीतवाद्यं तेन । कमलानि ॥ यद्वा विक्षोभ्यजलं अगाधजलंपिबन्तीत्यर्थः ॥ ४२ ॥ ती० ससारसारावविनादितासु ससारसाश्चतेषामाराववि- नादिताश्चेतितथा । तासु ॥ ४३ ॥ स० सुनिविष्टकायाः वल्मीकेषुसम्यङिवेशितदेहाः । अंबुधरेषुनवोदितेषुसत्सु नष्टाः अदर्श - नंगताः । विप्रसरन्ति बहिर्निर्गच्छन्ति ॥ इतः परंचञ्चच्चन्द्रकरेत्यादिश्लोकःक्वचित्पुस्तकेदृश्यते । सचमूलबहुपुस्तकेष्वदर्शनात्प्रक्षिप्त इतिनव्याख्यायते ॥ ४५ ॥ स० शशाङ्कात्मकंउदितंसौम्यवक्रंयस्यास्सा | ज्योत्स्नैवांशुकप्रावरणंयस्यास्सा ॥ ४७ || ति० शालि- प्रसवाः व्रीहयः ॥ ४८ ॥ तनि० महाहदशब्देनागाधत्वमुक्तं । तेनातिनीलाश्रयस्थतया हंसस्यातिधावल्यंप्रकाश्यते ॥ ४९ ॥ ति० गहराणां गिरिगह्वराणांगोवृषाणांचवनवर्तिनांशब्दः । अन्योन्यमापूरयतीव वर्धयतीव | गहरगोवृषशब्दाः साजात्यात्परस्प- रवर्धकाइत्यर्थः | गहरगोवृषाणामितिपाठः ॥ स० प्रत्यूषः ऊष रुजायां । प्रत्यूषतिरजनीमितिप्रत्यूषकालः प्रातःकालः तस्मिन् | [ पा० ] १ ख. ग. सुसारसा. २ घ. विरावितासु. ज. निनादितासु. ३ ङ, च. ज. - ट. हंसानिपतन्तिहृष्टाः ४ घ. नदीजल ५ ग. हतोत्सवानां. ६ ङ. च. ज. –ट. ध्रुवं. ७ घ. नवोदकेषु. ८ ग. घ. च. ज. – ट. कुमुदैरुपेतं. ९ क. झ वेणुस्खर १० ग. छ, ज. झ. ट. संप्रवृत्तः ११ झ ट गह्वर.