सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ स्त्रिग्धगम्भीरनिर्घोषा: शैलद्रुमपुरोगमा: ॥ विसृज्य सलिलं मेघाः पेरिश्रान्ता नृपात्मज ॥ २३ ॥ नीलोत्पलदलश्यामा: श्यामी कृत्वा दिशो दश || विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥ २४ ॥ जलगर्भा महावेगा: कुटजार्जुनगन्धिनः ॥ चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥ २५ ॥ घनानां वारणानां च मयूराणां च लक्ष्मण ॥ नादः प्रस्रवणानां च प्रशान्तः सहसाऽनघ ॥ २६ ॥ अभिवृष्टा महामेषैर्निर्मलाचित्रसानवः || अनुलिप्ता इवाभान्ति गिरैयश्चित्रदीप्तिभिः ॥ २७ ॥ दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः ॥ नवसङ्गमसंव्रीडाजघनानीव योषितः ॥ २८ ॥ शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् ॥ लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता ॥ २९ ॥ संप्रत्यनेकाश्रय चित्रशोभा लक्ष्मी: शरत्कालगुणोपनीता ॥ सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ॥ ३० ॥ सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः ॥ मत्तद्विपानां पँवनोनुसारी दर्प वनेष्वभ्यधिकं करोति ॥ ३१ ॥ अभ्यागतैश्वारुविशालपक्षैः सरः प्रियैः पद्मरजोवकीर्णैः ॥ महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः ॥ ३२ ॥ १२८ कृतकृत्यः ॥ २२ ॥ शैलद्रुमपुरोगमाः शैलद्रुमाणामप्रे | चित्रशोभा सितरक्तनीलपङ्कजादिरूपानेकाश्रयतया गच्छन्तः । अत्र प्रकरणे सर्वत्र विषये प्रवृत्तिः रामा- वतारकृता सूच्यते ॥ २३-२४ ॥ वृष्टिकरा वाता वृष्टिवाताः पुरोवाता इत्यर्थः ॥ २५-२६ ॥ चित्र - दीप्तिभिः नानावर्णकान्तिभिः ||२७|| दर्शयन्तीति । चित्रशोभा नानावर्णकान्तिः । शरत्कालगुणोपनीता शरत्कालोत्कर्षेण प्रापिता । लक्ष्मीः समृद्धिः । सूर्य- स्याग्रहस्तैः प्राथमिककिरणैः । हस्तशब्देन करा ल क्ष्यन्ते । भगवत्कटाक्षबोधितेषु पुरुषेषु नानारूपसं- अनेन चिरकालानुवर्तनेन गुरूणां शिष्येभ्यो रहस्या- | वित्प्रकाश उच्यते || ३० || अनुसारी अनुसृत्य वर्त- र्थप्रकाशनं सूच्यते ॥ २८ ॥ सप्तच्छदानाम शरत्पु- मानः | अविच्छेदेनैव प्रवर्तमान इत्यर्थः । मत्तद्विपानां घ्पावृक्षाः । शरत् कर्त्री । श्रियं स्वसमृद्धिं । विभज्य दर्पैकरोति । मदवृद्धिहेतुत्वादिति भावः ॥ ३१ ॥ त्रेधाविभज्य । सप्तच्छदशाखादिषु प्रवृत्ता सप्तच्छदेषु अभ्यागतैरिति । मिथुनतया आभिमुख्येन संगतैः । पुष्पविकासरूपाश्रीः । तारादिप्रभासुनिर्मलतारूपा । चारु यथा तथा विशालपक्षैः हर्षेण विस्तृतपक्षैरित्य गजलीलासु उन्मस्तकतारूपा ॥ २९ ॥ अनेकाश्रय- र्थः । क्रीडन्ति हंसा: सह चक्रवाकै: हंसाच क्रीडन्ति चिन्त्यं अपेक्षणीयं । अनेनयावत्फलं निदिध्यासनकर्मसमुच्चयउक्तः ॥ २० ॥ ति० शैलद्रुमपुरइति द्वितीयाबहुवचनान्तं । तान्ग- च्छन्तितथाभूत्वासलिल॑विसृज्यपरिशान्ताः ॥ शि० दीर्घः गंभीरः निर्घोषोयेषांतेगमाः गगनमागतामेघाः सलिलं शैलद्रुमपुर: विसृज्य प्रापय्य परिशान्ताअभवन्नितिशेषः । शैलद्रुमपुरोगमाइत्येकंपदंवा । तदर्थस्तु शैलद्रुमाणांपुरः अग्रभागेगच्छन्तीति ॥२३॥ ति० नीलोत्पलदलश्यामाइतिपयोधरविशेषणं । अहंत्वशान्तकामवेगइतिव्यङ्गयं ॥ २४ ॥ स० मयूराणामिववारणानामपि वर्षा- कालएवसंतोषातिशयइतिसंप्रदायः ॥ २६ ॥ स० अनुसारीशरत्कालानुगुणः मत्तद्विपानांदर्पेविनेष्यन् क्रीडासाधनजलापहारेणवा मदगन्धसदृशसप्तच्छदगन्धभ्रमरादिसाहित्येनवेतिज्ञेयं । ती० सप्तच्छदाना मितिकर्मणिषष्ठी | ताननुसारी अनुसृत्यवर्तमानः पवनः मत्तद्विपानांदपैकरोतीतिसंबन्धः ॥ ति० पवनमनुसरतितच्छीलः । विनेष्यन् जलंशोषयन् । शरत्कालइतिशेषः ॥ ३१ ॥ रामनु० क्रीडन्तिहंसास्सहचक्रवाकैरिति । हंसचक्रवाकाः परस्परंवैरिणोपिशरगुणसंजातहर्षपरवशाद्वैरंविस्मृत्यविहरन्तीतिनवि- [ पा० ] १ ग. ङ.~~ट. दीर्घगंभीर. २ च. छ. झ ञ परिशान्ता ३ क. – ट. गिरयश्चन्द्ररश्मिभिः ४ ग. क्रीडासु, ५ ज॰—ट. गुणोपपन्ना. ६ ज. ज. सूर्याग्रपाद. ७ ङ च छ. झ ञ ट पवनानुसारी. ८ ङ.. - ट. दर्पेविनेष्यन्नधिकंविभाति. ९ छ॰ झ॰ ट॰ स्मरप्रियैः.. ★