पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२५ ये त्वन्तपालाः प्लेवगाः शीघ्रगा व्यवसायिनः ॥ समानयन्तु ते सैन्यं त्वरिताः शासनान्मम || स्वैयं चानन्तरं सैन्यं भवानेवानुपश्यतु ॥ ३२ ॥ त्रिपञ्चरात्रादूर्ध्वं यः प्रोप्नुयान्नेह वानर ॥ तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा || ३३ ॥ हरींश्च वृद्धानुपयात साङ्गदो भवान्ममाज्ञामधिकृत्य निचिताम् ॥ इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ त्रिंशः सर्गः ॥ ३० ॥ लक्ष्म शरमेन्द्रदर्शनादिनासमुद्दीपितशोकतया सीताचिन्तयाबहुधाविलपतोरामस्य समाश्वासनम् ॥ १ ॥ रामेणलक्ष्मणप्रति शरद्वर्णनम् ॥ २ ॥ शरदागमेपिसुग्रीवानुद्योगकुपितेनरामेणलक्ष्मणप्रति सुग्रीवे स्वकोपनिवेदनपूर्वकं तेनस्वकार्योद्यमनचोदना ॥ ३ ॥ ॥ गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ॥ वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ १ ॥ पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् || शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ २ ॥ कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् || बुद्धा कालमतीतं च मुमोह परमातुरः ॥ ३ ॥ स तु संज्ञामुपागम्य मुहूर्तान्मतिमा पुनः ॥ मनःस्थामपि वैदेहीं चिन्तयामास राघवः ॥ ४ ॥ आँसीनः पर्वतस्याग्रे हेमधातुविभूषिते | शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम् ।। ५ ।। दृष्ट्वा च विमलं व्योम गतविहम् || सारसारसंघुष्टं विलापातया गिरा || ६॥ तथा कुरु तथा आज्ञापय ॥ ३१ ॥ अन्तपालाः | त्रोषितो रामः कामशोकाभिपीडितः सन् | क्रमेण सेनापर्यन्तपालकाः ॥ ३२ ॥ त्रिपञ्चरात्रादूर्ध्व गगने घनैर्विमुक्ते । पाण्डुरं निर्मलं । गगनं पञ्चदशरात्रादनन्तरदिवसे ॥ ३३ ॥ वृद्धान् जाम्ब- वत्प्रभृतीन् ॥ ३४ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- ण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥ · परमातुरः वर्षाकालिकशोकाधिकं शोकं प्राप्तः सन् मुमोह । एतावत्पर्यन्तं कस्यचिदवधेर्विद्यमानतया कथंचिद्धृतवान् । संप्रतितद्भावामुमोहेत्यर्थः ॥ १ -३ ॥ मनःस्थामपि वैदेहीं चिन्तयामास । पुनः- पुनर्विशेषतश्चिन्तितवानित्यर्थः ॥ ४ ॥ मनसा जगाम । अथ शरत्समागमेपि सुग्रीवस्यानुद्योगाद्रामकोप- स्त्रिंशे — गुहामित्यादि ॥ सुग्रीवे गुहां प्रविष्टे वर्षरा- चिन्तयामासेति यावत् ॥ ५ ॥ गिरा स्वरेण ॥ ६ ॥ ति० समानयन्तु समागच्छन्तु ॥ ३२ ॥ रामानु० त्रिपञ्चरात्रादूर्ध्वयः प्राप्नुयादिहवानरइतिपाठे पञ्चदशरात्रादवगेवागन्त- व्यमितिभावः ॥ ति० त्रिपञ्चरात्रात् पञ्चदशदिनादूर्ध्वंय आगच्छेत् तस्यदण्डः । तेनपक्षमध्ये सर्वैरागन्तव्यमितिभावः । कार्तिक- शुक्लादावियमाज्ञेतिबोध्यं ||३३ || ति० वृद्धान्हरीन्साङ्गदोभवानुपयातु | संमाननार्थमितिशेषः ॥ ३४ ॥ इत्येकोनत्रिंशः सर्गः ॥२९॥ ती० सुप्रीवेविमुक्तइत्यत्रअविमुक्तइतिच्छेदः । सुप्रीवे गुहां किष्किन्धां प्रविष्टे गगने घनैरविमुक्ते आवृतेसति । वर्षरात्रोषि- तोरामः पाण्डुरंगगनंदृष्ट्वामुमोहेत्युत्तरत्र संबन्धः ॥ १-२ ॥ शि० कामशोकाभिपीडितः कामेनजानकी प्राप्तिविषयकोत्कटेच्छया शोकेन तत्प्राप्त्यभावजनितचिन्तया अभिपीडितः व्याप्तः आसीदितिशेषः ॥ १ ॥ रामानु० सविति ॥ अस्माच्लोकात्परतः १ ख. सबलाः २ ङ. ट तेशीघ्रं. ३ ज. तेषांचा नन्तरंकार्य. च. छ. झट. स्वयंचानन्तरंकार्य. क. यदत्रा- नन्तरंकार्यभवान्समनुपश्यतु. ४ क. ग. छ. झ. ट. प्राप्नुयादिहवानरः ५ क. ख. सर्वान्. ६ झ. निश्चितं. ७ छ. झ. गृहूं. ८ छ. झ. वर्षरात्रेस्थितो. ९ ङ. -ट. दृष्ट्वा. १० क. ख. मतिमान्नरः च. ज. ञ. मतिमांस्ततः. छ. झ. ट. मतिमानृपः• ११ अयं श्लोकः ट. पुस्तकेनदृश्यते १२ ख. दृष्ट्वास. १३ च. ज. विललापाकुलेन्द्रियः. [ पा०