पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत् ॥ प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्रयम् ॥ हरीश्वरमुपागम्य हनुमान्वाक्यमब्रवीत् ॥ ८ ॥ राज्यं प्राप्तं यशश्चैव कौली श्रीरँभिवर्धिता || मित्राणां संग्रहः शेषस्तं भवान्कर्तुमर्हति ॥ ९ ॥ यो हि मित्रेषु कालज्ञः सततं साधु वर्तते || तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥ १० ॥ यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ॥ समवेतानि सर्वाणि स राज्यं महदश्रुते ॥ ११ ॥ तद्भवान्वृत्तसंपन्नः स्थितः पथि निरत्यये || मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ॥ १२ ॥ सन्त्यज्य सर्वकर्माणि मित्रार्थे योनुवर्तते ॥ संभ्रमाद्धि कृतोत्साहः सोर्नथैर्नाविरुध्यते ॥ १३ ॥ यस्तु कालव्यतीतेषु मित्रेकार्येषु वर्तते ॥ स कृत्वा महतोप्यर्थान्न मित्रार्थेन युज्यते ॥ १४ ॥ यदिदं वीर कार्य नो मित्रकार्यमरिंदम ॥ क्रियतां राघवस्यैतद्वैदेयाः परिमार्गणम् ॥ १५ ॥ तदिदं वीर कार्य ते कालातीतमरिंदम ॥ १६ ॥ न च कालमतीतं ते निवेदयति कालवित् || त्वरमाणोपि सैन्प्राज्ञस्तव राजन्वशानुगः ॥ १७ ॥ १२३ रं । तत्त्वं यथार्थं | पथ्यं नीतिमार्गादनपेतं । साम- | र्थ: । समवेतानि समुदितानि । एकन्यूनत्वे महारा- धर्मार्थनीतिमत् साम च धर्मश्च अर्थश्च नीतिश्च | ज्यहानिरिति भावः ॥ ११ ॥ निरत्यये अविनाश- सामधर्मार्थनीति तदस्यास्तीति सामधर्मार्थनी- नि । पथि सन्मार्ग इत्यर्थः । मित्रार्थ मित्रकार्य । तिमत् । प्रणयप्रीतिसंयुक्तं प्रणय: समानविषयस्नेहः । अभिनीतार्थं प्रापितप्रयोजनं यथा भवति तथा । प्रीतिः न्यूनविषयः । विश्वासकृतनिश्चयं आप्तवा- यथावत् यथाप्रतिज्ञमिति यावत् ॥ १२ ॥ सर्वकर्माणि क्यत्वविश्वासे विषये कृतनिश्चयं ॥ १८ ॥ स्वभोगसाधनानि सन्त्यज्य । कृतोत्साहः सन् संभ्रमात् कौली कुलक्रमागता । श्रीः संपत् | अभिवर्धिता | आदरात् मित्रार्थे विषये । यःअनुवर्तते॒ अनुस्यूततया अप्रतिद्वन्द्वत्वादिति भावः । मित्राणां संग्रहः तत्का- तिष्ठति । सोनर्थैर्नावरुध्यते न संबध्यते ॥ १३ ॥ एवं र्यकारणं । शेषः अवशिष्टो भवति । इदमेव वचनं कर्तव्यं मित्रकार्यमुचितकाले कर्तव्यमित्याह - य- प्रसाद्य वाक्यैरित्यादिना पूर्व प्रशंसितं ॥ ९ ॥ मित्र- स्त्विति ॥ कालव्यतीतेषु अतिक्रान्तकालेषु ॥ १४ ॥ कार्यस्यावश्यकर्तव्यत्वमाह — यो हीति ॥ कालज्ञः हेवीर | नः अस्माभिः । यदिदं मित्रकार्य कर्तव्यं मित्रसंग्रहकालज्ञः । तत्कालातिक्रमे विपरीतं भवती- एतत् वैदेह्याः परिमार्गणं क्रियतामिति संबन्धः त्यर्थः । मित्रेषु वर्तते मित्राधीनो भवतीत्यर्थः ॥१०॥ ॥ १५ ॥ तेकायै त्वया कर्तव्यं । इदं मित्रकार्य दण्ड्यतेनेनेति दण्डः सेनाविशेषः । आत्मा प्रभुरित्य- ॥ १६ ॥ कालवित् रामइतिशेषः । त्वरमाण इत्य स० कुलपरंपराप्राप्ताश्रीः कौली | शेषः शिष्टः | सचउक्तगुणश्चासौभवांश्च तद्भवान् । तदित्यव्ययंदोषपरामर्शकमितिवा ॥ ९॥ रामानु० दण्डःदण्डयतेऽनेनेतिदण्डः सैन्य विशेषः । तथाहकामन्दकः – “पितृपैतामहोवंशसंभवोदत्तवेतनः । विख्यातपौरुषोजन्ये कुशलःकुशलैर्वृतः । नानाप्रहरणोपेतोनानायुद्धविशारदः । नानायोधसमाकीर्णोविराजितहयद्विपः । प्रवास्यचसुदुःखेषुयुद्धेषुचकृ- तश्रमः । अद्वैध्यःक्षत्रियप्रायोदण्डोदण्डविदांमतः ।" इति ॥ ति० समानि स्ववशत्वेनसमत्वं | समवेतानीतिपाठे मिलितानी- त्यर्थः। नत्वेकमपिपृथग्भूतमितिभावः ॥ ११ ॥ ति० अभिनीतार्थं प्रतिज्ञातार्थ ॥ शि० निरत्यये ध्वंसरहिते | पथि रामाश्र- यणरूपेमार्गेस्थितः ॥ १२ ॥ ति० संभ्रमात् त्वरया । विशेषेणकृतोत्साहः । अन्यत्रकर्मणीतिशेषः ॥ शि० विपक्षेदोषमाह | समिति | योजनःसर्वकर्माणिसंत्यज्य मित्रार्थे मित्रप्रयोजनसिद्धये । संभ्रमात् उद्वेगात् । नवर्तते सजनः कृतः छिन्नःउत्साहो यस्यससन् । अनर्थेनावरुध्यतेनप्राप्यतइत्यर्थः । कृतोत्साहः जातोत्साहविशिष्टस्सन् नवर्ततइतिवायोजना ॥ १३ ॥ [ पा० ] १ घ. पथ्यंचतत्वंच. ख. ग. ङ. च. ज. - ट. तथ्यंचपथ्यंच. छ. पथ्यंचतथ्यंच. २ ख. घ. प्राप्तंराज्यं. ३ क ख. ग. च. ज. ज. श्रीरपि. ४ क. ग. घ. च. ज.ट. शेषस्तद्भवान्. ५ क. ख. झ. ट. प्रतापश्चापि ६ झ. ट. समान्येतानि. ७ ख. घ. ङ. च. ज. न. सर्वकार्याणि ८ ख. ङ. झ. उ. योनवर्तते. ९ झ. संभ्रमाद्विकृतोत्साहः १० ग. झ ट सोनर्थे- नावरुध्यते. ङ. च. ज. सोयनैवावरुध्यते ११ छ. झ ट योहि १२ ख. मित्रार्थयोनुवर्तते १३ ट. मित्रार्थेहि १४ झ तदिदंमित्रकार्येनःकालातीतमरिंदम. ज. तदिदंवीर. १५ झ. ञ. ट. सप्राज्ञः. X