पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मासि प्रोष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् ॥ अयमध्यायसमयः सामगानामुपस्थितः ॥ ५४ ॥ निवृत्त कर्मायतनो नूनं संचितसंचयः || आषाढीमभ्युपगतो भरतः कोसलाधिपः ॥ ५५ ॥ नूनमापूर्यमाणायाः सरय्वा वर्धते रयः || मां समीक्ष्य समायान्तमयोध्याया इव स्वनः ॥ ५६ ॥ इमा: स्फीतगुणा वर्षा: सुग्रीवः सुखमनुते ॥ विजितारिः सदारश्च राज्ये महति च स्थितः॥५७॥ अहं तु हृतदारथ राज्याच्च महतव्युतः ॥ नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण ॥ ५८ ॥ शोकश्च मम विस्तीर्णो वैर्षाश्च भृशदुर्गमाः ॥ रावणच महाञ्शत्रुरपारं प्रतिभाति मे ॥ ५९ ॥ अयात्रां चैव दृष्ट्वेमां मार्गीश्च भृशदुर्गमान् ॥ प्रणते चैव सुग्रीवे न मया किंचिदीरितम् ॥ ६० ॥ अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम् ॥ आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम् ॥ ६१ ॥ स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् ॥ उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥ ६२ ॥ तस्मात्काल प्रतीक्षोहं स्थितोस्मि शुभलक्षण || सुग्रीवस्य नदीनां च प्रसादमनुपालयन् || ६३ || उपकारेण वीरो हि प्रतिकारेण युज्यते ॥ अकृतज्ञोप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ६४ ॥ तमेवमुक्त: प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ॥ उवाच रामं स्वभिरामदर्शनं प्रदर्शयन्दर्शनमात्मनः शुभम् ॥ ६५ ॥ जलेन मार्गामार्गविवेको नासीदित्यर्थः ॥ ५३ || | दुस्तरं प्रतिभाति ॥ ५९ ॥ अयात्रां राज्ञामेतत्कालो- अनेन भाद्रपदो मासः संप्रवृत्त इति सूचयति । ब्रह्म चितदण्डयात्राभावं । प्रणते चैव इदानीमेव सीता- वेदं । विवक्षतां अध्येतुमिच्छतां । अध्यायसमयः न्वेषणरावणनिरसनोद्योगः कर्तव्य इति प्रार्थनापूर्वकं वेदारम्भसमयः ॥ ५४ ॥ निवृत्तं कर्म यस्य तन्निवृ- प्रह्वीभूते सत्यपीत्यर्थः ॥ ६० || आत्मकार्यगरीयस्त्वात् त्तकर्म आयतनं गृहं यस्य सः निवृत्तकर्मायतनः । अस्मत्प्रयोजनस्याति महत्त्वात् । अल्पयत्नेन अल्पका- उपरतसकलगृहोपकरणसंपादन इत्यर्थः । संचितसं - लेनचासांध्यत्वादित्यर्थः । वक्तुं नियोक्तुं । नेच्छा- चयः संपादितधननिचयः । आषाढीं आषाढमास - मीति भूतार्थे लट् ॥ ६१ ॥ कालं शरत्कालं ।। ६२ ।। समाप्तिपौर्णमासीं । अभ्युपगतः व्रताङ्गत्वेन स्वीकृत उक्तोपपत्तिभिः पूर्वसर्गोक्तं द्रढयति – तस्मादित्या- वान् । अनेन चत्वारोवार्षिका मासा इति पूर्वोक्तमा- दिना ॥ ६३ ॥ अकृतज्ञः कृतोपकारानभिज्ञः पुरुषः । सानां आषाढ: प्राथमिक इति सूचितम् ॥ ५५ ॥ अप्रतिकृतः प्रत्युपकारमकुर्वन् । सत्त्ववतां महात्मनां । अयोध्यायाः अयोध्यावासिजनस्य ॥ ५६ ॥ वर्षा मनो हन्ति क्षोभयति । वीरः प्रत्युपकारसमर्थः । इत्यत्यन्तसंयोगे द्वितीया ॥ ५७ ।। अहं त्विति अजि- उपकारेण हेतुना प्रतिकारेण प्रत्युपकारेण तारिश्चेत्यपि ज्ञेयं । क्लिन्नं आ ॥ ५८ ॥ मम शोकञ्च युज्यत एव । सुग्रीवोप्येवंविधत्वात्प्रत्युपकारं करिष्य- विस्तीर्णः । वर्षाश्च भृशदुर्गमाः अत्यन्तं दुरत्ययाः । तीतिभावः । अनेन प्रत्युपकारं कारयित्वा लोके रावणञ्च महाञ्शत्रुः । अतश्च एतत्रितयं अपारं प्रत्युपकारधर्म प्रवर्तयिष्यामीत्याशयः ॥ ६४ ॥ अस्य शि० ब्रह्म वेदंविवक्षतां पठितुमिच्छतां सामगानां । प्रौष्ठपदे भाद्रेमासि । अयंशुक्ल तृतीयातिथिः । अध्यायसमयः उपाकरण. कालः । उपस्थितः प्राप्तः ॥ ५४ ॥ ती० निवृत्तकर्मायतनः निवृत्तंकर्मयस्यतत् निवृत्तकर्म आयतनंगृह॑यस्यतथोक्तः । उपरंत- गृहव्यापारइत्यर्थः । आषाढींआषाढमासंपरिसमाप्तिपौर्णमासीं अभ्युपगतः व्रताङ्गत्वेनस्वीकृतवान् । तदुक्तंमहाभारते - " आ षाढेतुसितेपक्ष एकादश्यामुपोषितः । चातुर्मास्यत्रतंकुर्यायत्किचित्प्रयतोनरः । वार्षिकांश्चतुरोमासान्त्रतंकिंचित्समापयेत् । असंभवे तुलार्केपिकर्तव्यं तत्प्रयत्नतः ” इति ॥ ५५ ॥ रामानु० अपिचातिपरिक्लिष्टश्चिराद्दारैः समागतः” इतिप्रथमान्तपाठेइतिकरणं द्रष्टव्यं ॥ ६१ ॥ इत्यष्टाविंशः सर्गः ॥ २८ ॥ [ पा० ] १ ङ. च. ज. भाद्रपदे २ ख मार्गाश्च ३ क. ख. ग. ङ. – ट. रपारः ४ झं. ट. चापि. घ. वाति ५ ख अयमेव. ६ ङ. छ. झ. ट. मंभिकायन्. क. मंभिपालयन् ७ क ख युक्तोहि ८ घ. छ. झ ट अथैवमुक्तः बा. रा. १३५