पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० श्रीमद्वाल्मीकि रामायणम् रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥ ४३ ॥ मेघाः समुद्भूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः ॥ नदीस्तटाकानि सरांसि वापीर्महीं च कृत्स्नामपवाहयन्ति ॥ ४४ ॥ वॅर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णघोषाः ॥ प्रनष्टकूला: प्रवहन्ति शीघ्रं नद्यो जेलैर्विप्रतिपन्नमार्गाः ॥ ४५ ॥ नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः ॥ घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥ ४६ ॥ धनोपगूढं गगनं सतारं न भास्करो दर्शनमभ्युपैति ॥ नवैर्जलाधैर्धरणी विसृप्ता तमोविलिप्ता न दिशः प्रकाशाः ॥ ४७ ॥ महान्ति कूटानि महीधराणां धाराभिधौतान्यधिकं विभान्ति ॥ महाप्रमाणैर्विपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः ॥ ४८ ॥ शैलोपलप्रस्खलमानवेगा: शैलोत्तमानां विपुलाः प्रपाताः ॥ गुहासु सन्नादितबर्हिणासु हारा विकीर्यन्त ईवाभिभान्ति ॥ ४९ ॥ शीघ्रप्रवेगा विपुलाः प्रपाता निर्धीतशृङ्गोपतला गिरीणाम् ॥ मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्ग तैलैधिंयन्ते ॥ ५० ॥ [ किष्किन्धाकाण्डम् ४ • सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः ॥ पैतन्तीवाकुला दिक्षु तोयधाराः समन्ततः ॥ ५१ ॥ · निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः ॥ विकसन्त्या च मालत्या गतोस्तं ज्ञायते रविः ॥ ५२ ॥ वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते ॥ वैराणि चैव मार्गाश्च सलिलेन समीकृताः ॥ ५३ ॥ रादिमत्त्वादिति भावः । प्रक्रीडित इति कर्तरि निष्ठा | वेगा: सन्तः । सन्नादितबर्हिणासु गुहासु विकीर्यन्तः ॥ ४३ ॥ अपवाहयन्ति परिवाहयन्ति ॥ ४४ ॥ विकीर्यमाणाः | हारा इव अवभान्ति ॥ ४९ ॥ वर्षप्रवेगा: निर्धौतानि निर्मलीकृतानि शृङ्गोपतलानि शृङ्गसमीप - तलानि यैस्ते तथा । गुहोत्सङ्गतलैः गुहामध्यतलैः ॥ ५० ॥ तोयधारा: मौक्तिका इव पतन्तीति स्वरू- पोत्प्रेक्षा ॥ ५१ ॥ निलीयमानैः नीडेषु गच्छद्भिः ॥ ५२ ॥ वृत्ता निवृत्ता । अतोप्रे गता सेना प्रतिनि- वृत्ता | सलिलेन वैराणि समीकृतानि । सलिलप्रति रोधाद्वैराणि शान्तानीत्यर्थ: । मार्गाश्च समीकृताः अतिवेगा वृष्टय इत्यर्थः । विपुला : निरन्तराः । नद्यो जलैः विप्रतिपन्नमार्गाः विरुद्धं प्राप्तमार्गाः ॥ ४५ ॥ अभिषिक्ता: नरेन्द्राः स्वां श्रियमिव अभिषिच्यमानाः पर्वता: स्वं रूपं दर्शयन्ति | नैर्मल्यादिनेति भावः ॥ ४६ ॥ तमोविलिप्ता दिशः न प्रकाशाः ।। ४७ ॥ प्रपातैः निर्झरैः ॥ ४८ ॥ शैलोत्त- मानां विपुलाः प्रपाताः निर्झराः | शैलोपलप्रस्खलमान- । त्रादिव्यापाररहिताइत्यर्थः ॥ ४३ ॥ रामानु० अपवाहयन्ति वर्षन्ति ॥ शि० अपवाहयन्ति पूरयन्तीत्यर्थः ॥ ति० अपवाह- यन्ति प्रवहज्जलानिकुर्वन्ति ॥ ४४ ॥ ति० वितृप्ता जामितांप्राप्ता ॥ ४७ ॥ टीका० स्वर्गस्त्रीहारमौक्तिकाः । मौक्तिकशब्दः पुल्लिङ्गोप्यस्ति । “ मुक्तास्त्रीमौक्तिकोस्त्रियां " इत्युक्तेः ॥ ५१ ॥ " [पा० ] १ क. ग. घ. च. छ. झ ञ. ट. समुद्भूत २ ख. मभिपूरयन्ति ख. ङ. च. ज. मभितर्पयन्ति ३ ख. ग. वर्षप्रयोगाः. ४ छ॰ झ. ट. समुदीर्णवेगा: ५ ख. ग. छ. झ. ट. जलंविप्रतिपन्न ६ ध. झ. सुरेन्द्रनीतैः. ७ छ. झ. ञ. ट. मतारा. ८ क. ग. ङ. च. छ. झ. ञ. ट. वितृप्ता. ९ छ. झ. ट. धाराविधौतानि १० क. विशीर्यन्त. घ. विकीर्णाइवभान्ति- तासु. ११ ख. ङ. झ ञ ट इवावभान्ति १२ झ शीघ्रंप्रवेगा: ङ. सुशीघ्रवेगा: १३ ख. चनैः, १४ झ. ट. पतन्ति चातुला. १५ छ. झ. ट. पथ्येववर्तते.