पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २८] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन ॥ गावानुवृत्तेन शुकप्रमेण नारीव लाक्षोक्षितकम्बलेन ॥ २४ ॥ निद्रा शनै: केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति ।। हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति ॥ २५ ॥ जाता वनान्ताः शिंखिसंप्रनृत्ता जाताः कदम्बा: सकदम्बशाखाः || जाता वृषा गोषु समानकामा जाता मही सस्यनाभिरामा ॥ २६ ॥ वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति || नद्यो घना मत्तगजा बनान्ताः प्रियाविहीनाः शिखिनः वङ्गाः ॥ २७ ॥ ग्रहर्षिताः केतक पुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु || प्रपातशब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति ॥ २८ ॥ धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः ॥ क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥ २९ ॥ ११७ भिकामा परिसंपतन्ती मेघंप्रानुमागच्छन्तीत्यर्थः । | हरेस्तदेकचित्तत्वं शेषभूतानां शेषिपारतत्र्यसिद्धिच संमोदिता संजातसंमोदा | पुण्डरीकाणां सितपद्मानां द्योतिता ॥ २५ ॥ शिखिभिः संप्रनृत्तं येषु ते विकार: पौण्डरीकी वरा चासौ पौण्डरीकीचेति तथोक्ताः । कदम्बशब्देन कदम्बपुष्पमुच्यते । सकद- कर्मधारयः | लम्बा रचिता लम्बमानतया कृता । म्बपुष्पशाखा इत्यर्थः । सस्यवनेन सस्यसमूहेन । अनेन भगवन्तं कालमेघश्यामं प्राप्तुं प्रवृत्ता भक्ति- अभिरामा रम्या । अनेन सर्वानुकूल्यमुक्तं ॥ २६ ॥ रूपापन्नधी र्भवति सत्पुरुषस्येति द्योत्यते ॥ २३ ॥ वहन्तीति यथासंख्यमलंकारः । प्लवङ्गाः वानराः 1 बालेन्द्रगोपः अन्तरेषुचित्रितेन नानावर्णीकृतेन । समाश्वसन्ति । एकत्रैवबहुभक्ष्यलाभेन अचलचित्ता नवशाद्वलेन उपलक्षिता भूमिः । शुकप्रभेण प्राचुर्येण भवन्तीत्यर्थः ॥ २७ ॥ हृष्टाः पूर्वमेव संतुष्टाः | शुकवर्णेन । लाक्षोक्षितकम्बलेन मध्येमध्ये लाक्षारस- केतकगन्धमाघ्राय प्रहर्षिताः प्रकर्षेण संतुष्टाः । रञ्जितेन कम्बलेन नारीवभाति । अत्र भगवत्कटा- वननिर्झरेषु यः प्रपातशब्द: पतनकृतशब्द: तेनाकु- क्षवर्षेण किंचिदुदश्चितभक्तिका उच्यते ॥ २४ ॥ | लिताः ॥ २८ ॥ क्षणार्जितं तत्क्षणसंपादितं । पुष्पर- निद्रेति । आषाढे स्वापारम्भः । श्रावणे निद्राशक्तिरु- सेनावगाढं उत्पन्नं मदं । धारानिपातैः अभिहन्य- च्यते।अत्र तुल्ययोगितालंकारः । लोकोज्जीवनप्रवृत्त्या | माना: अतएव पुष्पं विहायकेवलं शाखासु लम्बमा- न्यामप्येवमेवबोध्यं | विश्रम्य विश्रम्यभारवहत्वादितिभावः ॥ २२ ॥ स० निद्रा निद्रामुद्रा | केशवं नारायणं । आषाढशुक्लैका- दश्यांहरेःस्वापोक्तेः ॥ २५ ॥ शि० नदीप्रभृतयःयथाक्रमंवहनादिकुर्वन्ति । तत्रलवङ्गाः वानराः । समाश्वसन्ति इदानींनकस्मा- चित्तेभय मितिबोधयन्तीत्यर्थः । समाह्वयन्तीतिपाठान्तरं । तत्र हर्षेणेतस्ततोगच्छन्तीत्यर्थः ॥ स० वहन्तीत्यादेर्यथाक्रममन्वयः ॥ २७ ॥ प्रहर्षिताः हृष्टाः । स्वार्थिकेडन्तत्वादिडुपपद्यते । केतकिगन्धं केतकीनांगन्धआमोदस्तं । अगन्धद्रव्यवचनत्लादेकवचनंयु- ज्यते । केतकिगन्धमित्यत्र " ङयापोः संज्ञाछन्दसोः—"इत्युक्तेः केतकीतिसंज्ञात्वाखइतिबोध्यं । प्रपातशब्दाकुलिताः प्रपातशब्दाः उन्नतप्रदेशान्नतप्रदेशेजलपातजनितध्वनयः । तैराकुलिताःयेप्रहृष्टास्तैर्मयूरैः तेष्वेवमेधबुद्धिभिर्बर्हिभिः सार्धेनदन्तीत्यन्वयः । एतेन मेघदर्शनाभावान्मयूरसाहित्यवर्णनमयुक्तं । प्रहर्षिताइतिपूर्वमुक्तिः उत्तरत्रप्रहृष्टाइतिवचनंच तदिवेतिनिरस्तं | यद्वा प्रहर्षिताः संतो- षकारणवस्तुभिस्तोषिताः । प्रहृष्टाः स्वयंतुष्टाइति मन्तव्यं । आप्रायमत्ताइतिपाठे समदाःससंतोषाइत्यर्थोऽवसेयः ॥ २८ ॥ स० क्षणार्जितं एकेनक्षणेनैवार्जितसंपादितं । पुष्परसावगाढं पुष्पमकरन्दोन्नद्धं | मदं गर्व । धारानिपातैरभिहन्यमानास्त्यजन्त जना । जलधारापातेनकदंबशाखावलंबनं । तेनपुनः पुष्पान्तरार्जनाभावः आर्जितस्यापित्यागः | क्षणार्जितंपुष्परसावगाढंमदमि- त्यनेन मदनिर्भरताथोत्यतइतिज्ञेयं । क्षणेनोत्सवेनार्जितमि तिव्याख्यानेबहु दिनार्जितत्वस्यापिशक्योक्तिवान्माहात्म्यातिशयालाभ-" [ पा० ] १ क. झ. ट. गात्रानुपृक्तेन. ख. ङ. ज. ञ. गात्रानुषक्तेन. छ. गात्रानुसक्तेन २ ग० वराभिरामा ३ क. झ.. ञ. लवङ्गमाः ४ क. गन्धानाघ्नाय ५ घ. विलीयमानाः