पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः ॥ मारुतापूरितगुहा: प्राधीता इव पर्वताः ॥ १० ॥ कशाभिरिव हैमीभिर्विद्भिरिव ताडितम् || अन्तः स्तनितनिर्घोषं सवेदनमिवाम्बरम् ॥ ११ ॥ नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मा ॥ स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ॥ १२ ॥ इमास्ता मन्मथवतां हिताः प्रतिहता दिशः || अनुलिप्ता इव धनैर्नष्टग्रहनिशाकराः ॥ १३ ॥ कचिद्वाप्पाभिसंरुद्धान्वर्षागमसमुत्सुकान् ॥ कुटजान्पश्य सौमित्रे पुष्पितान्गिरिसानुषु ॥ मम शोकाभिभूतस्य कामसंदीपनान्स्थितान् ॥ १४॥ रजः प्रशान्तं सहिमोऽद्य वायुनिंदाघदोषप्रसराः प्रशान्ताः ॥ स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान् ॥ १५ ॥ संप्रस्थिता मानसवासलुब्धाः प्रियान्विताः संप्रति चक्रवाकाः ॥ अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न संपतन्ति ॥ १६ ॥ ११५ । मेघा एव कृष्णाजिनानि तेषां धराः | नीलवर्णतया | द्धान् अभिनवजलकणसेचनसमुत्थनिदाघो ष्मसमा- तद्रूपणं | शुभ्रत्वेन धाराया उपवीतत्वरूपणं । धारा वृतान् । कामुकपक्षे आनन्दबाष्पवतः । वर्षागमेन निर्झरधाराः । मारुतापूरितगुहा इत्यनेन शब्दहेतुवा- समुत्सुकान् आप्यायितान् । अन्यत्र स्त्रीसङ्गमसन्तु- युमत्कण्ठत्वमुच्यते । प्राधीताः प्रकर्षेणाध्येतुमुपक्रा- ष्टान् । गिरिसानुषु पुष्पितान् । अन्यत्र सहासान् । न्ताः । आदिकर्मणि क्तः । रूपकानुप्राणित उपमा- अतएव मम शोकाभिभूतस्य कामसंदीपनान् । लंकारः ॥ १० ॥ विद्युद्भिरेव हैमीभिः कशाभिः । अन्यरतिदर्शनस्योद्दीपनत्वादिति भावः । अनेन केषु- व्यस्तरूपकं । ताडितमिव स्थितं | स्तनितमेव निर्घोषो चिदस्मदीयेषु ब्रह्मानुभवसंतुष्टेषु सत्सु केषांचिदस्मद्- यस्य तत् । अतएव अन्तः सवेदनमिवाम्बरं भाति । नुभवाभावो ममातीव दुःसहइत्युक्तं ॥ १४ ॥ अथ कशाभिघातेन उच्चैरधीयानसखेदमाणवकसाम्यमु- भगवत्कटाक्षफलमन्यापदेशेन दर्शयति - रज इत्या - च्यते । उपमोत्प्रेक्षारूपकाणामङ्गाङ्गिभावेन सङ्करः दिना । रज इत्युपलक्षणं । रजस्तमसी प्रक्रान्ते । वायु- ॥ ११ ॥ स्फुरन्ती चलन्ती । तपस्विनी शोच्या शब्देन सततसंसारगतिर्जन उच्यते । सहिम इति शी- ॥ १२ ॥ घनैरनुलिप्ता इव स्थिताः । नष्टग्रहनिशा- तलहृदयत्वं । निदाघेत्यादिना आध्यात्मिकादितापशा- कराः अदृष्टशुक्रादिग्रहचन्द्रा: । " णश अदर्शने ” न्तिः । यात्रा संसारगतिः । स्वदेशान् स्वप्राप्यभूतपरम- इत्यस्मान्निष्ठा । यद्वा नष्टग्रह: ग्रहणरहितः अदृश्य पदं | स्वभावार्थस्तु स्पष्टव ॥ १५ ॥ मानसवासलु- मान इत्यर्थः । तादृशश्चन्द्रो यासु ताः । अतएव ब्धाः हंसाः संस्थिताः वर्षभीततया कचिल्लीनाः । प्रतिहता : अज्ञातप्राच्युदीच्या दिदिशाविभागाः । ता इमाः दिशः । मन्मथवतां सस्त्रीकाणां । हिताः सुख- कराः । विरहिणां तु दुःखकरा इत्यर्थः । यद्वा मन्म- थवतां अभिसारिकजनानां | हिताः ॥ १३ ॥ कचिदित्यादिसार्धश्लोक एकान्वयः । बाष्पाभिसंरु - परमहंसाख्यानां संन्यासिनां चातुर्मास्यतया संचार- निवृत्तिर्घोत्यते । चक्रवाका: कामोद्रेकेण प्रियासम- न्विता भवन्ति । यानासंपतने हेतुः अभीक्ष्णेति । यानानि शकटरथादीनि । संप्रस्थिता इत्यनेन कृतवै- राग्यत्वमुच्यते । प्रियान्विताइति भगवद्भक्तिः । तनि० अन्तस्संनिहितशब्देन प्राधीयमानवेदानांमाणवकानां कशाघातजनितरुदितं गुरुच्चारणानूञ्चारणशब्दमिश्रमित्युच्यते ॥ ११ ॥ स० अस्यापत्यं इः चतुर्मुखः । तं रावयतीति इरावणः । “ सभाषामकरोत् ” इतिश्रुतेः । एतादृशस्य मे अङ्के स्फुरन्ती तपखिनीवैदेहीव प्रतिभाति । स्वस्य नीलमेघसदृशत्वादितिभावः ॥ १२ ॥ स० मन्मथवतांहितामितिषष्ठीप्रयोगेण स्वस्य तत्कृतबाधा नास्तीति सूचयति ॥ १३ ॥ स० ममच शोकश्च ममशोकौ | ताभ्यामभिभूतस्य पुरुषस्य स्थितान् अचञ्चलान् ॥ १४ ॥ रामानु० सहिमः सशीकरः । स्थिता निवृत्ता स्थिता यान्तीतिच सिद्धवन्निर्देशः वर्षाकाले संभावितत्वात्कृतः ॥ १५ ॥ टीका० नसंपतन्ति नभ्रमन्ति ॥ १६ ॥ . [ पा० ] १ क. ग. च. ट. भातिमे, २ ख. संनद्धान्.