[ किष्किन्धाकाण्डम् ४ ११२ श्रीमद्वाल्मीकिरामायणम् । सुसुखेऽपि बहुद्रव्ये तेंसिन्हि धरणीधरे || वसतस्तस्य रामस्य रतिरल्पाऽपि नाभवत् ॥ हृतां हि भार्या सरतः प्राणेभ्योपि गरीयसीम् ॥ ३० ॥ उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः || आविवेश न तं निद्रा निशासु शयनं गतम् ॥ ३१ ॥ तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् ॥ तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् || तुल्य दुःखोऽब्रवीद्धाता लक्ष्मणोनुनयन्वचः ॥ ३२ ॥ अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ॥ शोचतो व्यवसीदन्ति सर्वार्था विहितं हि ते ॥ ३३ ॥ भवान्क्रियापरो लोके भवान्दैवपरायणः || आस्तिको धर्मशीलञ्च व्यवसायी च राघव ॥ ३४ ॥ न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः || समर्थस्त्वं रणे हन्तुं विक्रमैर्जियकारिणम् ॥ ३५ ॥ समुन्मूलय शोकं त्वं व्यवसायं " स्थिरं कुरु || ततः सपरिवारं तं निर्मूलं कुरु राक्षसम् || ३६ ॥ पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् || परिवर्तयितुं शक्तः किंमङ्ग पुन रावणम् ॥ ३७ ॥ शरत्कालं प्रतीक्षख प्रावृकालोऽयमागतः ॥ ततः सराष्ट्रं सगणं रावणं त्वं वधिष्यसि ॥ ३८ ॥ अहं तु खलु ते वीर्य प्रसुप्तं प्रतिबोधये ॥ दीप्तैहुतिभिः काले भसच्छन्नमिवानलम् ॥ ३९ ॥ लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ॥ राघवः सुहृदं स्त्रिग्धमिदं वचनमब्रवीत् ॥ ४० ॥ वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ॥ सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥ ४१ ॥ एष शोकः परित्यक्तः सर्वकार्यावसादकः || विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ ४२ ॥ शरत्कालं प्रतीक्षिष्ये स्थितोमि वचने तव || सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ ४३ ॥ ॥ २९ ॥ बहुद्रव्ये बहुपुष्पफलादिधने || ३० ॥ | नसमर्थइत्यन्वयः ||३५ – ३६ || परिवर्तयितुं अधरो- हृदयाभ्युदितं उदयपर्वतादुगतं ॥ ३१ ॥ लक्ष्मणो- त्तरं कर्तु । अङ्गेति संबोधनं । पुनरित्यत्रदीर्घाभावआर्षः अनुनयन्वचइतिपाठः ॥ ३२ – ३३ ॥ क्रियापरइत्यनेन ||३७ – ३८॥ दीप्तैः ज्वलनकरैः । उद्बोधकैः वाक्यै- कार्यसिद्धिहेतुभूतपुरुषकारवत्त्वमुक्तं । दैवपरायण रितिशेषः ॥ ३९–४०॥ अनुरक्तेन अनुरागयुक्तेन । इत्यनेन कार्यसिद्धिहेतुभूतदेवतानिष्ठतोक्ता ॥ ३४ ॥ स्निग्धेन तत्कालोचितप्रियपरेण । हितेन हितपरेण । अव्यवस्थितः धैर्यरहितइत्यर्थः । रणे विक्रमैर्हन्तुं सत्यविक्रमयुक्तेन अमोघविक्रमयुक्तेन । यद्वाच्यं स० बहुद्रव्ये अनेकद्रव्योत्पत्तिस्थाने ॥ ३० ॥ स० उदयाभ्युदितं उदयपर्वतेऽभ्युदितं । सविशेषतः द्वितीयान्तत्वात्तसिः । सविशेषं पूर्णत्वादिविशेषसहितं । शशाङ्कं चन्द्रं दृष्ट्वास्थितं । शयनं शय्यां प्राप्तंतरामंनिद्राविवेश | यद्वास विशेषशशाङ्कउदयाभ्यु- दितंउदयपर्वतगतंसूर्यमिवदृष्ट्वास्थितमित्यादियोजना ॥३१॥ टीका० तत्समुत्थेनसीता स्मरणसमुत्थेन । ति० अनुनयं अनुनयंवत् ॥ ३२ ॥ स० हेवीरव्यथांगत्वाअलं व्यथांनकुर्वित्यर्थः । “ अलंखल्वोः प्रतिषेधयोः प्राचांक्त्वा" इतिप्रतिषेधार्थकालंशब्दयोगेस- मामकर्तृकत्वाभावेपिक्त्वाप्रत्ययः । यद्वा अलमत्यन्तंव्यथांगत्वा मानसिकदुःख विशेषंप्राप्य शोचितुंनार्हसीत्येकमेववाक्यं । शोचतः पुरुषस्य सर्वार्थाः अवसीदन्ति अवसन्नाभवन्ति नश्यन्तीतियावत् ॥ शि० सर्वथा अत्यन्तंशोचन्तोजनाअवसीदन्तिइतितेविदितं ॥ ३३ ॥ टीका० दैवपरायणः भाग्यसंपन्नः उभयहेतुः || ति० क्रियापरः नित्यकर्मानुष्ठाता | शि० देवपरायणः देवपराणांदेवतृप्तिकारकाणांअयनआश्रयः भवानेव । अतएव आस्तिकादिर्भवानेव । एतेन त्वत्सावधानतामात्रेण सर्व कार्यसेत्स्य- तीतिसूचितं ॥ स० आस्तिकः अस्तिपरलोकइतिज्ञानी । धर्मशील: धर्मेधनुषिशीलंखभावोयस्य सदाधनुर्धारीतियावत् ॥ अभि- धानंतूक्तंपूर्वं । व्यवसायी उद्योगवान् ॥ ३४ ॥ रामानु० विक्रमेजिझकारिणं विक्रमविषयेछद्मकारिणं ॥ ति० अव्यवसितः शोकेनोद्यमहीनस्त्वं हन्तुंनसमर्थः । विक्रमे विक्रमस्थानेरणे जिल्ह्यकारिणं कुटिलं ॥ ३५ ॥ ति० काले होमकाले ॥ ३९ ॥ [ पा०] १ ङ. छ. ट. सुसुखेहि २ घ ङ. च. ज. तस्मिन्प्रस्रवणेगिरौ ३ च. उदयाभ्युदयं. ४ क. घ. ट. सविशेषतः ५ ङ. ज. झ. चेतनं. ६ झ. लक्ष्मणोनुनयंवचः ७ ट. शोचन्तो. ८ ख. ग. छ. - ट . ह्यवसीदन्ति ९ ट. सर्वथा १० क. ग. - ट. विक्रमे जिह्मकारणं. ख. विक्रमोजयकारणं. ११ छ. ज. झ. ट. स्थिरीकुरु. १२ छ. झ. ट. तंराक्षसंहन्तुमर्हसि. १३ झ- किंपुनस्तंहिरावणं. छ. ट. किंपुनस्त्वंहि. ग. किंपुनारावणंरणे ञ किमङ्गयुधिरावणं. १४ क राहुतिसंघातैर्भस्म. १५ छ. झ ट लक्ष्मणस्यहि.
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११६
दिखावट