पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' सर्गः २७ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १११ दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम् || कैलासशिखरप्रख्यं नानाधातुविभूषितम् ॥ १५ ॥ प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् || गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव ॥ १६ ॥ चम्पकैस्तिल कैस्ता लैस्तमालैरतिमुक्तकैः ॥ पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥ १७ ॥ वानीरै स्तिनिशैश्चैव बँकुलै : केतकैर्धवैः ॥ हिन्तालैस्तिरिटैनः कृतमालकैः ।। १८ ।। तीरजैः शोभिता भाति नानारूपैस्ततस्ततः ॥ वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता ॥ १९ ॥ शतशः पक्षिसश्च नानानदैविनादिता । एकैकमनुरक्तैश्च चक्रवाकैरलता ॥ २० ॥ पुलिनैरतिरम्यैश्च हंससारस सेवितैः ॥ प्रहसन्तीव भात्येषा नौरी सर्वविभूषिता ॥ २१ ॥ कचिन्नीलोत्पलच्छन्ना भाति रक्तोत्पलैः कचित् ॥ कचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुमलैः ॥ २२ ॥ पारिप्लवशतैर्जुष्टा 'क्रिौञ्चनादिता || रमणीया नदी सौम्य मुनिसर्निषेविता ॥ २३ ॥ पश्य चन्दनवृक्षाणां पनी: सुरचिता इव ॥ ककुभानां च दृश्यन्ते मनसेवोदिताः समम् ॥ २४ ॥ अहो सुरमणीयोयं देशः शत्रुनिषूदन || 'ढ रंस्थाव सौमित्रे साध्वत्र निवसावहै ॥ २५ ॥ इतश्च नातिदूरे सा किष्किन्धा चित्रकानना || सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ २६ ॥ गीतवादित्रनिर्घोषः श्रूयते जयतां वर || नर्दतां वानराणां च मृदङ्गम्बरैः सह ॥ २७ ॥ लब्ध्या भार्या कपिवरः प्राप्य राज्यं सुहृद्वृतः ॥ ध्रुवं नन्दति सुग्रीवः संप्राप्य महतीं श्रियम् ॥ २८ ॥ इत्युक्त्वा न्यवसत्तत्र राघवः सहलक्ष्मणः ॥ बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ ॥ २९ ॥ " पश्येति पूर्वेणान्व- | इव मालारूपेण प्रथिता इव । ककुभानां अर्जु- नवृक्षाणां । दृश्यन्ते पङ्कय इति शेषः । मनसे- वोदिताः सममिति मनसा संकल्पेन । समं युगपत् । उदिता इव स्थिताः ॥ २४ ॥ स्याव स्यावहे | अथ श्वेतं ” इत्यमरः । अपरं शृङ्गं यः ।। १४–१५ ।। अतिमुक्तकैः पुण्ड्रकैः । पद्मकैः पद्मपर्णाख्यवृक्षविशेषैः। सरलैः यूपसरलैः । तिनिशैः स्यन्दनैः । “ तिनिशे स्यन्दनो नेमिः ” इत्यमरः । धवैः धुन्धुरैः । हिंतालैः लताङ्कुराख्यवृक्षैः । स्याल्लताङ्कुरः। हिन्तालस्तृणराजञ्च” इति वैजयन्ती । अतः अत्र गिरौ | निवसावहै निवसाव ॥ २५ ॥ तिरिटैः तिल्ववृक्षैः। “ तिरीटस्तित्वमार्जनौ " इत्य- अत्र वासे क्रियमाणे किष्किन्धा च समीपवर्तिनीभ- मरः । वेन॒कैरिति सम्यक् ॥ १६–१९ ॥ एकैकम- |विष्यतीत्याह – इतश्चेति ॥ २६ ॥ मृदङ्गाडम्बरैः नुरक्तैः अन्योन्यानुरागयुक्तैः ।। २०-२२ । पारिष्ठ सह नर्दतां वानराणां निर्घोषः श्रूयत इत्यन्व- वैः जलोपरिसंचारिपक्षिविशेषैः ॥ २३ ॥ सुरचिता यः ।। २७ – २८ ॥ तत्र गुहायां । कुञ्जः लतागृहं ति० श्वेतमिवांबरं श्वेतवस्त्रमिवस्थितं ॥ १५ ॥ ति० जाह्नवीपदेन तत्रत्याजाह्नवीसदृशी मन्दाकिन्याख्यानदी ॥ १६ ॥ टीका० समंमनसाउदिताइव एकोच्छ्रायविस्ताराउद्भवाम इतिसंकल्प्योत्थिताइवेत्युत्प्रेक्षा | शि० मनसा मदिच्छया । समं उदिताः जाताइव । चन्दनवृक्षाणांककुभानां अर्जुनवृक्षाणांचयाः पयोदृश्यन्ते ताः सुरुचिराःपकीः पश्य ||२४|| ति० बहूनिदृश्या- न्युत्तमवस्तूनियत्र तादृशः कुञ्जाश्चयस्मिन्निति गिरि विशेषणं ॥ २९ ॥ [ पा० ] १ झ ट. मिवांबरं. क. मिवांबुदं. २ ख. घ. – झ. ट. विराजितं. ३ झ. परतः. छ. ट. पुरतः ४ ङ, छ, झ. ट. चन्दनैस्तिलकैस्सालैः ५ ख. अकोलैश्चैव. घ. अशोकैरुप. ङ. च. ज. ज. अशोकैरपि. क. अकोलैरपि. ६ क. ग. ङ. च. ज. ज. नीवारैः. झ. वानीरैस्तिमिदैश्चैव. ७ क. ख. वञ्जुलैः . ८ छ. झ. ट. केतकैरपि. ९ झ. स्तिनिशैनपैः ङ. च. ज. ञ. रर्जुनैनपैः १० क. छ. झ. ट. वैतसैः . ११ क. ख. ङ. छ.— ट. नादविनादिता. घ. निनदनादिता. १२ ङ. ट. सेविता. १३ ङ. छ. ट. नानारत्नसमन्विता. क. ख. नानारत्नविभूषिता. १४ झ. बर्हिक्रौञ्चविनादिता. १५ घ. ऋषिसंघैः. छ. झ. ट. मुनिसंघनिषेविता. १६ क. सुरुचिराभुवि. १७ क. ख. घ. इह. १८ छ. झ. ट. नदतां. १९ ख. घ. ट. मृदङ्गा. डंबर:. २० इत्युक्त्वेत्यर्धस्यस्थाने क. पाठे. एवमुक्त्वामहातेजालक्ष्मणशुभलक्षणम् | न्यवसत्तत्रधर्मज्ञोराघवःसहलक्ष्मणः । इत्येकः श्लोकोदृश्यते.