पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० श्रीमद्वाल्मीकिरामायणम् । सप्तविंशः सर्गः ॥ २७ ॥ रामेण प्रस्रवणगिरिगुहामेत्यलक्ष्मणप्रति तद्दुहायाः स्ववासानुगुणगुणसमृद्धिवर्णनपूर्वकं लक्ष्मणेन सहतत्र निवासः ॥ १ ॥ लक्ष्मणेन चन्द्रदर्शनादिनासमुद्दीपितशोकंरामंप्रति बहुधासमाश्वासनम् ॥ २ ॥ रामेण लक्ष्मणप्रशंसनपूर्वकंशरत्प्रतीक्षया तत्रनिवासः ॥ ३ ॥ [ किष्किन्धाकाण्डम् ४ अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ॥ आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ १ ॥ शालमृगसंघुष्टं सिंहेर्भीमरवैर्वृतम् ॥ नानौगुल्मलतागूढं बहुपादपसंकुलम् ॥ २ ॥ ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् || मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ॥ ३ ॥ तस्य शैलस्य शिखरे महतीमायतां गुहाम् ॥ प्रत्यगृहत वासार्थ रामः सौमित्रिणा सह ॥ ४ ॥ त्वा च समयं सौम्यः सुग्रीवेण सहानघः ॥ कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः ॥ विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ॥ ५ ॥ इयं गिरिगुहा रम्या विशाला युक्तमारुता || अस्यां वैसाव सौमित्रे वर्षरात्रमरिंदम ॥ ६ ॥ गिरिशृङ्गमिदं रँम्यमुन्नतं पार्थिवात्मज || श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम् ॥ ७ ॥ नानाधातुसमाकीर्णे देरीनिर्झरशोभितम् || विविधैर्वृक्षपण्डैश्च चारु चित्रलतावृतम् ॥ ८ ॥ नानाविहगसंघुष्टं मयूररवनादितम् || मालतीकुन्दगुल्मैश्च सिन्धुवारकुरण्टकैः ।। ९ ।। कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम् ॥ १० ॥ इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता || नातिदुरे गुहाया नौ भविष्यति नृपात्मज ॥ ११ ॥ प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति ॥ पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥ १२ ॥ गुहाद्वारे च सौमित्रे शिला समतला शुभा ॥ लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा ॥ १३ ॥ गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम् || भिन्नाञ्जनचयाकारमम्भोधैरैमिवोत्थितम् ॥ १४ ॥ अथ रामस्यैकान्तवाससमुद्भूतसीताविरहशोकप्र- | नेन वर्षाकालस्य प्रवृत्तत्वाद्भाविजलसमृङ्ख्या समीप- शमनं लक्ष्मणेन क्रियते सप्तविंशे - अभिषिक्त वर्तिनी भविष्यतीत्यर्थः ॥ १० - ११॥ प्रागुदक्प्रवणे इत्यादि ॥ १–२ ॥ शैलं शिलामयमिति मृच्छिलो- देशे वर्तमाना गुहा साधु भविष्यति । प्रागुदक्प्रवणे देशे भयमयगिरिभ्यो व्यावृत्तिः । अतो न गिरिं शैलमिति वर्तमानत्वाभिधानाद्गुहाया नैर्ऋत्यभिमुखद्वारत्वमुक्तं । पुनरुक्तिः ॥ ३–४ ॥ कालयुक्तं तत्कालोचितं ॥ ५ ॥ अतएव पौरस्त्यवर्षप्रवेशाभावेन साधुत्वमुक्तं भवति । युक्तमारुता उचितमारुता यावदपेक्षमारुतेत्यर्थः । इयं पञ्चादुन्नता पश्चाद्भागोन्नता । अतएव पुरोवात - . वसाव लोडुत्तमद्विवचनं । वर्षरात्रमिति अच् समा- निरोधकत्वान्निवाता च भविष्यति ॥ १२ ॥ गुहा- सान्त आर्ष: । जात्येकवचनं ॥ ६-८ ॥ कदम्बा: द्वारेचेति । अस्मिन् श्लोके वर्ततइतिशेषः ॥ १३ ॥ अर्जुनाः नदीसर्जाः ॥ ९ ॥ नातिदूरे भविष्यतीत्य- श्वेतमिव रूप्यमिव । “ दुर्वर्ण रजतं रूप्यं खर्जूरं " ति० प्रस्रवणं तदाख्यं ॥ १ ॥ स० गोपुच्छेः नीलमुखवानर विशेषैः ॥ ३ ॥ स० डीबन्तलक्ष्मीशब्दोप्यस्तीतिलक्ष्मिवर्धन- मित्येतत्साधु ॥ “ द्राग्लक्ष्मिभर्तृगुणान् " इत्यादिप्रयोगात् ॥ शि० अनघः शरणागतानामघनिवर्तकः ॥ ५ ॥ स० नदीदर्दु- रसंयुतं नयां विद्यमानमण्डूकसदृशमहामण्डूकोपेतं ॥ ७ ॥ स० प्रागुदवप्रवणे पूर्वोत्तरभागयोर्निम्नभूते ॥ ११ ॥ [ पा० ] १ ङ. च. ञ. संयुक्तं. २ क. ख. घ. ङ. च. ज. ञ. भीमतरैर्वृतं. ३ ख. नानाद्रुम ४ ङ. – ट. शुचिकरंशिवं. ख. शुचिजलंशिवं. क. शुचिकरंशुभं. ५ क. ग. ङ. ट. रामः ६ छ. झ ञ ट वत्स्याम. ख. –च. ज. वत्स्यामि. क. वत्स्याव. ७ ख. सौम्यमुन्नतं. क. ङ. - ट. रम्यमुत्तमं ८ ग. र भिशोभितं. ९ ङ. – ट. नदीदर्दुरसंयुतं. १० ख. घ. द्वारि चित्र. ११ च. ज. झ. ट. सिन्धुवारैः शिरीषकैः . ख. सिन्धुवारैश्चशोभितैः १२ च. ज. ज. संघैश्च. क. संकीर्णै:. ख. वंशैश्च. १३ ङ. छ. झ. ट. कृष्णाचैव. १४ ग घ ङ. छ. ञ ट गिरेःशजं. १५ ङ. झ ञ ट मिवोदितं. घ. मिवोन्नतं.